________________
62
तिस्तस्याः सत्त्वात् । पदविषयकत्वाव्यभिचारिजाति: उपमितित्वं तच्छून्यत्वस्य सत्त्वाच्च । तद्वारणाय प्रथमं जातिशून्यत्वमिति पदम् । अनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वमित्युक्तेऽसम्भवः, शाब्दे ज्ञाने पदविषयकत्वाव्यभिचारिजातिः उपमितित्वं तच्छून्यत्वस्य सत्त्वेऽपि अनुभवत्वाव्यापिका जातिः शाब्दत्वं तच्छून्यत्वस्याऽसत्त्वात् । तद्वारणाय जन्यपदज्ञानजन्यत्वव्यभिचारित्वं अनुभवत्वाव्यापकजातेविशेषणं तथा च जन्यपदज्ञानजन्यत्वव्यभिचारिणी या अनुभवत्वाव्यापिका जाति: प्रत्यक्षत्वादि तच्छून्यत्वस्य शाब्दे सत्त्वात् । नाऽसम्भवः, जन्यपदज्ञानजन्यत्वव्यभिचारिजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वमित्युक्ते असम्भव एव । शाब्दज्ञाने पदविषयकत्वाव्यभिचारिणी जातिः उपमितित्वं, तच्छून्यस्य सत्त्वेऽपि जन्यपदज्ञानजन्यत्वव्यभिचारिणी जाति: अनुभवत्वं तच्छून्यत्वस्याऽसत्वात्। तद्वारणाय अनुभवत्वाव्यापकत्वं जातिविशेषणम् । तथा च जन्यपदज्ञानजन्यत्वव्यभिचारिणी अनुभवत्वस्याऽव्यापिका या जाति: प्रत्यक्षत्वादि तच्छून्यत्वस्य शाब्दे सत्त्वान्नाऽसम्भवः ।
पदधीजन्यत्वव्यभिचारिअनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वमित्युक्तेऽनुमितावतिव्याप्तिः। पदधीः ईश्वरधी:, तज्जन्यत्वव्यभिचारिणी नित्यनिष्ठा जातिस्तच्छून्यत्वस्य पदविषयकत्वाव्यभिचारिणी जाति: उपमितित्वं तच्छून्यत्वस्य च अनुमितौ सत्त्वात् । तद्वारणाय प्राथमिकं जन्यपदम् । तथा च जन्यपदधीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका जातिः अनुमितित्वादि तच्छून्यत्वस्याऽनुमितौ सत्त्वान्नाऽतिव्याप्तिः । जन्यपदज्ञानजन्यत्वव्यभिचारिअनुभवत्वाव्यापकजातिशून्यत्वे सति धीत्वमित्युक्ते उपमितावतिव्याप्तिः । तद्वारणाय पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सतीति ।। तथा चौपमितौ जन्यपदज्ञानजन्यत्वव्यभिचारिअनुभवत्वाव्यापक-जातिः प्रत्यक्षत्वादि तच्छून्यत्वस्य सत्त्वेऽपि पदविषयकत्वाव्यभिचारिजातिः उपमितित्वं, तच्छून्यत्वस्याऽसत्त्वात् नाऽतिव्याप्तिः । जातावतिव्याप्तिवारणाय धीपदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org