________________
साहित्य श्रये न लक्षणा । धवखदिरौ छिन्धीत्यत्र धवखदिरमात्रप्रतीत्या क्लृप्तशक्त्यैवोपपत्तेः धवपदस्य धवे शक्तिः खदिरपदस्य खदिरे शक्तिस्तथा च भ्यां शक्तिभ्यामेव धवखदिराविति स्वरूपद्वयप्रतीतेः न साहित्याश्रये लक्षणेति भावः । नीलोत्पलमित्यत्र नीलाभिन्नमुत्पलमित्यर्थः । तथा चोत्पलपदस्य नीलाभेदविशिष्टोत्पले लक्षणेति केचित् । तन्न । अभेदस्य संसर्गविधयैव
मानात् ।
३०
63
प्रथमायामिति । घटपदोत्तरप्रथमायाः षष्ठ्यर्थे वा लक्षणा । तथा च 'न घट: पट' इत्यत्र घटसम्बन्धवदभाववान् पटः । इत्थं च घटसम्बन्धरूपः षष्ठ्यर्थः अभावोपरि प्रकारतया भासत इति ।
विभक्त्यर्थप्रकारको नामाऽर्थविशेष्यकः शाब्दबोधः, स च भेदेनैवोपपन्नः । कथमिति ? भारतस्य श्रवणमित्यत्र भारतकर्मकं श्रवणमित्यर्थः । स च विना
लक्षणामनुपपन्नः ।
३१
“तथेति । घये नाऽस्तीत्यत्राऽपि प्रथमायाः षष्ठ्यर्थलक्षणा । तथा च ये नाऽस्तीत्यत्र घटसम्बन्ध्यभावोऽस्तीत्यर्थः ।
३२
"एकस्यामिति । एकाया बहुत्ववैशिष्ट्याद् बहुत्वस्यैकत्वे लक्षणा ।
घटः पटो नेत्यत्र पटाभाववान् घट इति शाब्दबोधः । तथा च घटः पटापावस्याऽऽश्रयः आश्रयी च घटाभावः । एवं च पटाभाव घटयोः आश्रयाश्रयीभावः सम्बन्धः, ननु पटाभाव-घटयोः कथं अन्वयः ? नामार्थयोर्भेदेनाऽन्वयस्याऽव्युत्पत्तेः । ननु घटः पटये नेत्यत्र घटपदस्याऽर्थो घटः, पटपदस्याऽर्थो पट नञर्थश्चाऽभावः । नञत्तरलुप्ता या षष्ठी तदर्थः सम्बन्धः । तदुपस्थिति नजुत्तरलुप्तषष्ठीस्मरणात्। तथा च घटो नेत्यस्य घटाभावसम्बन्ध इत्यर्थः । वाक्यार्थस् घटाभावसम्बन्धवान् घटः । एवं च न नामार्थयोरन्वयः किन्तु विभक्त्यर्थनामार्थयोरिति । स च भेदेनाऽप्युपपन्न इति चेत्, न । “षष्ठीलोप-मजानतो ऽपीति ।
३०. मुद्रिते पृ. २२९ । प्रथमाया इति मु । ३१. मुद्रिते पृ. २३४ । ३२. मुद्रिते पृ. २२९ ३३. मुद्रिते पृ. २३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org