SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ननु नञ्पदस्याऽभाववति लक्षणया अभाववान् अर्थः । तथा च पटो नेत्यस्य पटयभाववानित्यर्थः । वाक्यार्थस्तु पटाभाववान् घट इति । पटाभाववदभिन्नो घट इति यावत् । तथा च नामार्थयोरभेदेनैवाऽन्वय इति चेत् , न । घटस्येति । यद्यपि अभेदसम्बन्धेन पटाभाववति घटे अन्वयस्तथाऽपि पटे अभावस्याऽन्वयो न स्यात् , अभावस्यैकदेशत्वात्। यथा चैत्रस्य पितेत्यत्र पितृत्वस्य जनकपुंस्त्वार्थकत्वात् चैत्रपदस्य जनकत्वेऽन्वयः, न तु जनक-पुंस्त्वे। तथा च चैत्रस्य पितेत्यस्य चैत्रस्य जनक इत्यर्थः । गौः शुक्लेत्यत्र शुक्लाभिन्ना गौः इति शाब्दबोधः शुक्लाभेदवती गौरिति यावत् । तथा च शुक्लाभेदान्वयो गवि जायते। तस्य शुक्लाभेदान्वयस्याऽशक्यत्वात् तद् ज्ञानं न स्यात् । कार्यत्वान्विते पदानां शक्तिरिति । कार्यतावाचकपदसमभिव्याहृतं वाक्यं कार्यत्वविशिष्टं बोधयति । तथा हि-यजेतेति वाक्यं कार्यतावाचकं पदं विधिस्तत्समभिव्याहृतमेव योगो मत्कार्य(1) इति बोधजनकम् । तथा च कार्यत्वविशिष्टे यागे यजेतेति वाक्यस्य शक्तिः । शास्त्राच्चन्द्रादिमहत्त्वप्रतीत्युत्तरमपि चन्द्रादिस्वल्पतायाः शास्त्रान्महत्त्वप्रीत्या कृत्वा बाधानापत्तेरिष्टापत्तिरित्यत आह - चरमेति । कार्यत्वान्विते शक्तिकल्पने गौरवं आवश्यकत्वेन प्रामाणिकत्वात्र्याय्यमेवेत्यत आह - किञ्च ।। असंसर्गाग्रहेति । यत्र कार्यतावाचकं पदं नाऽस्ति तत्र नाऽन्वयबोधः । घटदिपदात् घटबोधस्तु घटपदं घटश्चैतदुभयोर्वाच्यवाचकभावरूपो य: असंसर्गस्तस्याऽग्रहणात् । भेदसम्बन्धेन नामार्थप्रकारकशाब्दे विभक्तिजन्योपस्थिति: कारणम् । ३७ ३८ ३४. मुद्रिते पृ. २३१। ३५. मुद्रिते पृ. १८०। १८५। ३८. मुद्रिते पृ. १८२ । ३६. मुद्रिते पृ. १८४ । ३७. मुद्रिते पृ.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229651
Book TitleNyayasiddhant Manjiri Tippanak
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size491 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy