________________
65
भूतले घट इत्यत्र भूतलाधारको घटः तथा च भूतलरूपो नामार्थः विभक्त्यर्थः. धारत्वं तदुपरि प्रकारतया भासते। तत्र विशेष्यतासम्बन्धेन विभक्त्यर्थः, आधारत्त दुपस्थितेः कारणत्वम्। । ननु औपगव इत्यत्र अण्प्रत्ययार्थः अपत्यत्वं, तदुपरि उपगुः प्रकारतया भासते। तत्र विशेष्यतासम्बन्धेन विभक्यर्थोपस्थितिः कारणं नाऽस्तीति व्यभिचार इति चेत् , न । भेदसम्बन्धेन नामार्थप्रकारकशाब्दबोधे विभक्तिप्रत्ययान्यतरन्योपस्थितिः कारणम् । अस्ति च औपगव इत्यत्राऽपि उपगुः अपत्यत्वोपरि भारतया भासते। तत्र विशेष्यतासम्बन्धेन अपत्यत्वरूपप्रत्ययार्थोपस्थितिः कारणम् बद्धा भेदसम्बन्धेन नामार्थप्रकारकशाब्दबोधे प्रत्ययार्थोपस्थिति कारणं, विभक्तरपि व्ययत्वात्। भूतले घट इत्यत्र औपगव इत्यत्र च प्रागुक्तरीत्या बोधः उपपन्नः ।
नामार्थप्रकारकशाब्दबोधे प्रत्ययजन्योपस्थितित्वेन कारणत्वे नीलोत्पलमित्यत्र नीलपदार्थः उत्पलोपरि प्रकारतया भासते, तत्र विशेष्यतासम्बन्धेन प्रत्यवार्थोपस्थितित्वेन कारणत्वं नास्तीति व्यभिचारः । तद्वारणार्थं भेदसम्बन्धेनेति विशेषणम् । नीलोत्पलमित्यत्र नीलरूपो नामार्थः उत्पले अभेदसम्बन्धेनाऽन्वेतीति नाऽतिव्याप्तिः । इदमपि निपातातिरिक्तनामार्थविशेष्यके बोध्यम् ।
गज इव रौतीत्यत्र भेदसम्बन्धेन गजः इवार्थोपरि प्रकारतया भासते । तत्र विशेष्यतासम्बन्धेन प्रत्ययार्थोपस्थिति: कारणं नाऽस्तीति । तथा च भेदसम्बन्धेन निपातातिरिक्त विशेष्यकनामार्थप्रकारकश(शा)ब्दबोधत्वावच्छिन्नां प्रति विशेष्यतासम्बन्धेन प्रत्ययार्थोपस्थितित्वेन कारणता। अन्यथा भूतलं घट-इत्यत्र भूतल-घटयोरन्वयः स्यात् । भूतले घट इत्यत्र तु भूतलं आधारत्वरूप-प्रत्ययार्थे अन्वेति, आधारत्वं च घटे अन्वेति ।
नामार्थ - धात्वर्थयोरपि साक्षान्नाऽन्वयः किन्तु विभक्त्यर्थद्वारा । चैत्रेण
आकाशो भूतलवृत्तिः तनिष्ठसंयोगप्रतियोगिकत्वात् घटवत् तथा सत्यनेनैव हेतुना भूतलस्याऽप्याकाशवृत्तित्वं स्यात् तेन आकाशो वृत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org