________________
66
ओदनः पच्यते इत्यत्र चैत्रकर्तृकपाकजन्यफलशाली ओदनः इति शाब्दबोधः । चैत्ररूपो नामार्थ: कर्तृत्वरूपप्रत्ययार्थे अन्वेति । कर्तृत्वं धात्वर्थे पाके अन्वेति । तथा च कर्तृत्वरूपविभक्त्यर्थद्वारा चैत्ररूपो नामार्थः धात्वर्थे पाकेऽन्वेति न तु साक्षात्। इत्थं च निरूपितत्वसम्बन्धेन चैत्रीयकर्तृत्वविशिष्टपाकजन्यफ-लशाली ओदनः इति शाब्दबोधः । जनकतासम्बन्धेन चैत्रविशिष्टपाकजन्यफ-लशाली ओदन इति शाब्दबोधे तु चैत्रः ओदनः पच्यते इति प्रयोगापत्तेः। जनकतासम्बन्धेन पाके चैत्रवैशिष्ट्यं तु तदुपस्थापकपदाभावेऽपि संसर्गतयेति न दोषः ।
घटमित्यत्र घटवत्कर्मत्वमित्यन्वयबोधः । अत्र घट इति पदं अम्पदसमभिव्याहृतमेव घटवत्कर्मत्वमित्यन्वयबोधजनकम् । अतो घटपदस्य घटवत्कर्मत्वमित्यन्वयबोधे अम्पदसमभिव्याहार: आकाङ्क्षा। अत्र आधारतासम्बन्धेन कर्मत्वं घटे, आधेयतासम्बन्धेन घट: कर्मत्वे । घटमानयेत्यत्र घटवत्कर्मत्ववदानयनविशिष्टाकृतिरित्यर्थः । आनयेत्यत्राऽऽनयनविशिष्टाकृतिरित्यर्थः । तथा च नीञ्पदं हिसमभिव्याहृतमेव आनयनविशिष्टाकृतिरित्यन्वयबोधजनकम्। अतो नीञ्यदस्य ही(हि)पदसमभिव्याहार: आनयविशिष्टा-कृतिरिति बोधे आकाङ्क्षा । गामानयेत्यत्र गोकर्मकानयनविशिष्टाकृतिः। दण्डेन गामानयेत्यत्र दण्डकर्तृकगोकर्मकानयनविशिष्टाकृतिरित्यर्थः ।
विशिष्टज्ञानत्वावच्छिन्नं प्रति असंसर्गाग्रहत्वेन कारणत्वे भूतले घट इति लौकिक ज्ञानं न स्यात् , भूतलेऽनुमित्यात्मकघटासंसर्गग्रहस्य सत्त्वात्। तद्वारणार्थं लौकिकसाक्षात्कारातिरिक्तत्वं विशेषणम् । लौकिकसाक्षात्कारतिरिक्तविशिष्टज्ञानत्वावच्छिन्नं प्रति असंसर्गाग्रहत्वेन कारणत्वे शङ्के अलौकिक: पीतत्वभ्रमो न स्यात् , शङ्ख पीतत्वासंसर्गग्रहस्य सत्त्वात्। तद्वारणाय पित्तादिदोषजन्यत्वं विशेषणम् । तथा च लौकिक साक्षात्कारातिरिक्तपित्तादिदोषाजन्यविशिष्टज्ञान-त्वेन असंसर्गाग्रहत्वेन कार्यकारणभावः । वस्तुतस्तु शङ्के पीतत्वभ्रमस्याऽपि लौकिकत्वादलौकिकत्वेन विशेषणादेव न व्यभिचार इति पित्तादिदोषाजन्यत्वं विशेषणं चिन्त्यम्। * चैत्रविशिष्टो यः पाकस्तज्जन्यं यत्फलं तच्छाली ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org