________________
59
ननु आलोकसंयोग- चक्षुः संयोगयोः समानकालीनत्वस्थले विनिगमनाविरहात् द्रव्यप्रत्यक्षत्वेन आलोकसंयोगावच्छिन्नचक्षुः संयोगत्वेन चक्षुःसंयोगावच्छिन्नालोकसंयोगत्वेन चेति कार्यकारणभावद्वयावश्यकत्वात् यत्र चक्षुःसंयोगः पूर्वं जातः तत्र द्रव्यप्रत्यक्षत्वेन आलोकसंयोगावच्छिन्नचक्षुः संयोगत्वेन कार्यकारणभावेऽप्यक्षतिरिति चेन्न । आलोकसंयोगावच्छिन्नचक्षुः संयोगत्वेन दुः संयोगावच्छ्त्रिलोकसंयोगत्वेन च कारणत्वे आलोकसंयोगे चक्षुः संयोगः, चतु:संयोगे आलोकसंयोगः इति प्रतीत्यापत्तेः । यथा शाखावच्छेदेन कपिसंयोग
शाखायां कपिसंयोग इति । तस्माद् बहिरिन्द्रियजन्यलौकिकप्रत्यक्षत्वेन लोकसंयोगावच्छेदकावयवावच्छिन्नचक्षुः संयोगत्वेन कार्यकारणभाव इति । इत्थं च आलोकसंयोगस्य अधिकरणावच्छेदका ये अवयवास्तदधिगक: चक्षुः संयोग इति प्रतीतिरपि निराबाधा ।
ॐ
विनिगमनाविरहात् आलोकसंयोगावच्छेदकावयवावच्छिन्नचक्षुः संयोगत्वेन संयोगावच्छेदकावयवावच्छिन्नालोकसंयोगत्वेनेति कार्यकरणभावद्वयं तु दावश्यकमेवेति । तन्न । कादाचित्कालोकसंयोगस्याऽवच्छेदकत्वमादाय कालीनचक्षुः संयोगात् द्रव्यप्रत्यक्षापत्तिः, आलोक संयोगावच्छेदवयवावच्छेदेन चक्षुः संयोगस्य सत्त्वात् ।
चक्षुः संयोगकालीनालोकसंयोगावच्छेदकावयवावच्छित्रचक्षुः संयोगत्वेन लोकसंयोगकालीनचक्षुः संयोगावच्छेदकावयवावच्छिन्न आलोकसंयोगत्वेन च सरणत्वे तु गौरवम् । तस्मात् आलोकसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन लोकसंयोगविशिष्टचक्षुः संयोगत्वेन कारणता इति नव्यतराः । तन्न, विनिगमविरहात् * आलोकसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन आलोकसंयोगविशिदुः संयोगत्वेन चक्षुः संयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन चक्षुः संयोगविशिकसंयोगत्वेनेति कार्यकारणभावद्वयमावश्यकम् । अवच्छेदकगौरवमधिक
आलोकसंयोगावच्छेदका ये अवयवा भित्त्याद्यवयवा इत्यर्थः, तन्निरूपितं अवच्छेद्यत्वं च चक्षुः संयोगे वर्त्तते । अनेन सम्बन्धेन आलोकसंयोगविशिष्टश्चक्षुः संयोगः कारणं, तेन तमः :कालीनचक्षुः संयोगात्र घटप्रत्यक्षत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org