SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ को पुनरत्यन्ताभावे योग्यतेति। ग्रहणयोग्योऽत्यन्ताभावः कः इत्यर्थः । योग्यमात्रप्रतियोगिके योग्यधर्मावच्छिन्नप्रतियोगिताकत्वमिति । योग्यधर्मावच्छिन्नप्रतियोगिता यस्य स योग्यधर्मावच्छिन्नप्रतियोगिताकः। अभाव ग्रहणयोग्यः इत्युक्ते भूतले घट-पिशाचौ न स्तः इत्यभावग्रहापत्तेः । योग्यधर्म घटत्वं तदवच्छिन्नो घटः, तत्प्रतियोगिताकत्वात् । तद्वारणार्थं योग्यमात्रप्रतियोगिक इति । पिशाचस्य प्रतियोगिनः अयोग्यत्वान्न योग्यमात्रप्रतियोगिताक इत्यर्थः । योग्यमात्रप्रतियोगिको ग्रहणयोग्यः इत्युक्ते गुरुत्ववान् घटो नाऽस्तीत्यभाव-ग्रहापत्तेः गुरुत्वविशिष्टघटरूपप्रतियोगिनो योग्यत्वात् । तद्वारणार्थं योग्यधर्मावच्छिन्न प्रतियोगिताक इति । अयं योग्यधर्मावच्छिन्न प्रतियोगिताको न भवति गुरुत्वस्याऽतीन्द्रियत्वात् । बहिरिन्द्रियजन्यलौकिकद्रव्यप्रत्यक्षत्वावच्छिनं प्रति आलोकसंयोगावच्छेदेन चक्षुःसंयोगः कारणम् । बहिरिन्द्रियजन्यलौकिकद्रव्यसाक्षात्कारत्वेन आलोकसंयोगावच्छिनचक्षुःसंयोगत्वेन कार्यकारणभावः इति प्राञ्चः । तन्न । क्वचिच्चक्षुःसंयोगस्य पूर्ववृत्तितया तदभावात् , आलोकसंयोगावच्छिन्नचक्षुःसंयोगाभावादित्यर्थः । तत्र हि चक्षुःसंयोगावच्छिन्नलोकसंयोगस्य सत्त्वात् द्रव्यचाक्षुषं न स्यात् । २७. मुद्रिते पृ. ६२ । ★ (प्रतिना पत्र क्रमांक २/१ ना हांसियामां टिप्पणी आपेली छे। मूलग्रंथमां तथा टिप्पनकमा तेनो संबंध कोनी साथे छे ते स्पष्ट थतुं नथी - "न च चित्ररूपे मानाभावः, चित्रावयवि[नि] चाक्षुषत्वानुपपत्त्या तदङ्गीकारात्। रूपादीनां व्याप्यवृत्तितानियमेन यावद्रूपाणामेकत्राऽवृत्तिः । न च महत्त्वे सत्युद्भूतरूपवत्समवेतत्वमेव चाक्षुषत्वप्रयोजकमिति वाच्यम् , यत्र चित्ररूपावयवारब्ध एवाऽवयवी तत्र रूपवत्समवेतत्वाभावात् । न च तत्राऽपि रूपवत्परम्पराश्रितत्वमस्तीति वाच्यम् , परम्पर(रा)या अननुगमात् रूपवत्समवेतत्वापेक्षया रूपवत्त्वस्य लघुत्वाच्च । इति चन्द्र चन्द्रिकायां उपाध्यायश्रीसिद्धिचन्द्रगणिकृतायां सप्तपदार्थीटीकायाम् ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229651
Book TitleNyayasiddhant Manjiri Tippanak
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size491 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy