________________
57
अन्यत्वव्यभिचारि जातिमदनुभवत्वं अनुमितित्वमिति लक्षणान्तरम् । न जन्यशब्दधीजन्यत्व(त्वा)व्यभिचारि जातिमदनुभवत्वं इति चेत् - प्रत्यक्षत्वजातिमादाय व्यभिचारः । तथा हि - जन्या चाऽसौ शब्दधीश्च जन्यशब्दधीः। अपमितिः शाब्दधीश्च उभे अपि जन्यं यत् पदज्ञानं तज्जन्ये अतिदेशवाक्यार्थज्ञानं शब्दविषयकत्वाच्छब्दज्ञानं भवति उपमितिश्च तज्जन्या भवति । अथ च शब्दज्ञानमपि पदज्ञानजन्यं भवति, तज्जन्यत्वं उपमितौ शाब्दे च । तदसमा-नाधिकरणा या जातिः साक्षात्कारत्वरूपा तद्वान् यः अनुभवः साक्षात्कारः स अनुमितिरिति स्यात् ; सद्वारणाय जन्यज्ञानजन्यत्वाव्यभिचारीति । जन्यज्ञानं व्याप्तिज्ञानं, तज्जन्यत्वं अनुमितौ। अनुमितिनिष्ठो धर्मस्तत्समानाधिकरणा या जाति: प्रत्यक्षं च जन्यशब्दधीजन्यं न भवति ।
ननु वाक्यप्रत्यक्षादौ जन्यशब्दधीजन्यत्वाव्यभिचारित्वात् प्रत्यक्षत्वं न जन्यशब्दधीजन्यत्वव्यभिचारीति चेन्न । प्रत्यक्षत्वसामानाधिकरण्येन जन्यशब्दघीजन्यत्वसत्त्वेऽपि प्रत्यक्षत्वावच्छेदेन जन्यशब्दधीजन्यत्वव्यभिचारित्वादतिध्याप्तिरिति सूचयितुं नित्ये निर्विकल्पके चेति ।
धर्मवदनुभवत्वं अनुमितित्वं इत्युक्ते सविकल्पकत्वमादाय प्रत्यक्षत्वेऽतिव्याप्तिः । सविकल्पकं जन्यज्ञानजन्यं भवति, सविकल्पकस्य निर्विकल्पकजन्यत्वात् । अथ च जन्यशब्दधीजन्यं न भवति । तद्वारणाय जातिपदम् । सविकल्पकत्वं च न जातिः, चाक्षुषत्वादिना साङ्कर्यात् । चाक्षुषत्वाभावोऽस्ति त्वाचसविकल्पके, तत्र सविकल्पकत्वाभावो नाऽस्ति। सविकल्पकत्वा- भावोऽस्ति निर्विकल्पके, तत्र चाक्षुषत्वाभावो नास्ति । तदुभयं च चाक्षुषे सविकल्पके । इति दिक्।
ALE
★ प्रथम; पर्वते धूमदर्शनं (१), ततः सहचारस्मरणं (२), ततो धूमो वह्निव्याप्य इति
व्याप्तिज्ञानं (३), ततो वह्रिव्याप्यधूमवान् पर्वत इति परामर्शलक्षणो व्यापारः (४), ततः . पर्वतो वह्निमानित्यनुमितिः । २६. मुद्रिते पृ. ७०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org