________________
व्यभिचारस्तद्वारणाय इन्द्रियमिति । इन्द्रियं चक्षुरित्युक्ते घ्राणादावतिव्याप्तिस्त द्वारणाय तैजसमिति । यद्वा रूपग्राहकमहदिन्द्रियं चक्षुरिति लक्षणान्तरं रूपग्राहकमिन्द्रियं चक्षुरित्युक्ते मनसि व्यभिचारः, मनसः सर्वग्राहकत्वात् । तद्वारणाय महदिति । मनसोऽणुत्वान्न व्यभिचार इति भावः । महदिन्द्रियं चक्षुरित्युक्ते घ्राणादौ व्यभिचारस्तस्याऽपि महदन्द्रियत्वात् । तद्वारणाय रूपग्राहकमिति, घ्राणं तु गन्धग्राहकं न रूपग्राहकमिति भावः । रूपग्राहकं चक्षुरित्युक्ते आत्मनि व्यभिचारः, आत्मनः सर्वज्ञानजनकत्वात् । तद्वारणाय इन्द्रियमिति । एवं सर्वेष्वपि इन्द्रियलक्षणेषु अतिव्याप्त्यादिदोषाः स्वयमेव परिच्छेद्याः ।
56
२२
तथा च "स्पर्शग्राहकं महदिन्द्रियं वा त्वक् । आप्यमिन्द्रियं रसग्राहकं महदिन्द्रियं वा रसनम् । पार्थिवमिन्द्रियं गन्धग्राहकं महदिन्द्रियं वा घ्राणम् । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्" । महत्पदं सर्वत्र मनोवारणाय । निःस्पर्शमणु मन इति । अणु मनः इत्युक्ते पार्थिवपरमाण्वादी व्यभिचारस्तस्याऽप्यणुत्वात् । तद्वारणाय अणु इति ।
'संयोगत्वावच्छेदेन द्रव्यजन्यत्वावधारणादिति । संयोगत्वावच्छेदे द्रव्यजन्यत्वेन कार्यकारणभावात् । यो यः संयोगः स द्रव्यजन्यो भवतीत्यर्थः । "वायाबुद्भूतग्रहानापत्तेरिति । वायुः उद्भूतरूपवान्न इत्यन्त्राऽन्योन्याभावग्रहे अनुपलब्धिः कारणं तस्य लक्षणं योग्येऽधिकरणे इति गर्भितम् । त वायोर्योग्याधिकरणत्वाभावेन व्यभिचरितं सत् न वायावुद्भूतरूपवदन्योन्याभाव गृह्णातीत्यर्थः ।
२५
२४
"अनुमितिकरणं अनुमानम् । अनुमितित्वं च अनुमिनोमीत्यनुभव सिद्धो जातिविशेषः । यद्वा जन्यज्ञानजन्यत्वाव्यभिचारि जन्यशब्दधी
१९. मुद्रिते पृ. ६४ । २० वायवीयमिन्द्रियं स्पर्शग्राहकं मु । मुद्रिते पृ. ६४ । २६ शब्दग्राहकं महदिन्द्रियं वा - इत्यधिकं मु. । २२. सर्वत्र इत्यधिकमत्र मुद्रितापेक्षया २३. मुद्रिते पृ. ६६ । २४. मुद्रिते पृ. ६१ । वायावुद्भूतरूपवद्भेदग्रहानापत्तेः इति मु. । मुद्रिते पृ. ६८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org