________________
55
See
Aine
अनत्वेन हेतुत्वे वाच्ये तद्विशेषणज्ञानमपि विशिष्टज्ञानम् । तथा च तत्राऽपि विशेषणज्ञानं कारणम् । तदपि विशिष्टज्ञानम् । तत्राऽपि विशेषणज्ञानं कारणं, वमनवस्था स्यात् ।
ननु संयोगो न प्रत्यासत्तिरित्यत्र द्रव्यग्रहत्वावच्छिन्नं प्रति संयोगत्वेन कारणता । तथा च द्रव्यग्रहत्वेन संयोगत्वेन कार्यकारणभावः इति सिद्धम् ।
ननु चक्षुः संयुक्तघटदिसमेवतग्रहे क्लृप्तः संयुक्तसमवायः । तेनैव क्षुःसंयुक्तकपालादिसमवेतघटदिग्रहसम्भवे संयोगस्य प्रत्त्यासत्यन्तरकल्पने द्रवमिति चेत् । न । द्रव्यमात्रस्य संयुक्तसमवायेन ग्रहासम्भवात्, आत्मनो वयवत्वेनाऽसमवेतत्वात् , संयोगेनैव मनसाऽऽत्मग्रहात् ।।
आत्मनि दुःखाभाव इत्यत्राऽधिकरणस्याऽभावत्वे आत्मन एवाऽभावसंपत्तिः । अभावस्याऽधिकरणात्मकत्वे दृढं दूषणं दत्तम्। किञ्चाऽधिकरणा-त्मा प्रभावस्तदा कपाले घटो भविष्यतीति प्रतीत्याऽस्ति कपाले पूर्वं घट प्रागभावस्तस्य मालाधिकरणत्वेन स चेत् कपालात्मा तदा कपालस्य सर्वदा सत्त्वाद् घटे विनष्टेऽपि कपाले घटप्रागभावोऽस्तीति प्रतीत्यापत्तिः । स अथाऽभावस्याऽधिकरणाद्भिन्नत्वे नैयायिकस्य दूषणं दत्ते -
देतदिति। घटाभावो नाऽस्तीति प्रतीत्या घटाभावाभावोऽप्यधिकः स्याद्, त्वधिकः इति चेत् , तदा घटाभावाभावो नास्तीति प्रतीत्या तदभावोऽप्यधिक: स्वात् । तत्राऽपि घटाभावे घटो नाऽस्तीति प्रतीत्या तदप्यभावोऽधिक: देवमनवस्थाभिया घटभावाभावः केवलमधिकरणमेवाऽऽगतम् । तथा धिकरणमेव सर्वत्राऽभावोऽस्तु, पूर्वोक्तं दूषणमपि भवतामेवाऽऽगतम् । चाऽऽहुः घटाभावाभावे घटो नाऽस्तीति प्रतीतेस्तदभावस्तु घटाभाव एव, प्रभावाभावस्तु घटाभाव एव। तथा च नाऽनवस्थेति प्राञ्चः । द्विार तै जसमिन्द्रियं चक्षुरिति । तैजसं चक्षुरित्युक्ते दीपसुवर्णादौ है. मुद्रिते पृ. ४४ । १७. मुद्रिते पृ. ५३ । १८. मुद्रिते पृ. ५३ । १९. मुद्रिते पृ. ६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org