SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 54 अतीन्द्रियं चेत्तहि तत्सद्भावे किं प्रमाणमित्यत आह-तथाऽपीति । महदुद्भूतरूपस्पर्शवद्रव्यं त्वचो योग्यमिति । रूपवद्रव्यं त्वर्च योग्यमित्युक्ते परमाणौ व्यभिचारस्तद्व्यावृत्तये महदिति । महद्दव्यस्फा(स्पा) र्शनमित्युक्ते वायौ व्यभिचारस्तद्वारणार्थं रूपवदिति। महद्रूपवद्र्व्यं स्पार्शनमित्यु प्रभायां व्यभिचारस्तव्यावृत्तये महदुद्भूतरूपस्पर्शवदिति । भवतु एक एक पटत्व-घटत्वयोः समवायः, परं समवायसिद्धिस्तु जाता एवं चेत् अयं पट इति घटत्वप्रकारकं, अयं घटः इति पटत्वप्रकारकं ज्ञानं स्यात् तेनाऽऽधाराधेयाख्यः स्वरूपसम्बन्ध एवाऽस्तु न समवाय इति भावः। अन्यथाख्यातिपञ्चकमिति प्राञ्चः । अन्यथाख्यातित्रिकमिति मणिकृत स्तथा हि- यद्वस्तुपुरस्कारेण यस्य पूर्वभावोऽवगम्यते तत्तेनाऽन्यथासिद्धम् । यो दण्डपुरस्कारेण दण्डत्वस्य पूर्वभावोऽवगम्यते इति दण्डत्वं दण्डेनाऽन्य-थासिद्धा अन्यत्र क्लृप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वं अन्यथासिद्ध त्वम् । यथाऽन्यत्र क्लुप्तपूर्ववर्त्तिनो गन्धप्रागभावादेव गन्धोत्पत्तौ तत्सहचरि रूपप्रागभावो गन्धेनाऽन्यथासिद्धः । एकं प्रति पूर्वभावे गृहीते एव परं प्रति पूर्वभावो गृह्यते तत्तेनाऽन्यथा सिद्धः । यथाऽऽकाशस्य शब्दं प्रति पूर्वभावे गृहीते एव अपरं घादिकं प्र पूर्वभावो गृह्यते, तत्तेनाऽन्यथासिद्धः। इत्यन्यथाख्यातित्रिकमिति स्थितम् ।। विशिष्टोनुभवे हि विशेषणज्ञानं कारणं न तु स्मरणेऽपि, विशेषण ज्ञानं विनाऽपि स्मरणोपपत्तेः । अन्यथाऽनवस्था स्यात् । कथमनवस्था भवती चेत् - शृणु - अनुभवात्मकविशिष्टज्ञानं प्रति स्मरणात्मकविशिष्टज्ञा विशेषणज्ञानत्वेन कारणम् , विशिष्टज्ञानमात्रस्य विशेषणज्ञानजन्यत्वात अनुभवात्म-कविशिष्टज्ञानजनकीभूतस्मरणात्मकविशिष्टज्ञानं प्रत्यपि विशेषण १३. मुद्रिते पृ. २० । १४. मुद्रिते पृ. ३७ । महदुद्भूतस्पर्शवव्यत्वेनैव त्वचो योग्यता इति मु.। १५. मुद्रिते पृ. २२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229651
Book TitleNyayasiddhant Manjiri Tippanak
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size491 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy