SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ करणं लक्ष्यं, व्यापारवदसाधारणक(का)रणत्वं लक्षणम्। तथाऽपि करणं इतरेभ्यो भिद्यते, व्यापारवदसाधारणकारणत्वात् । इत्थं च हेतु-साध्ययोरभेदः स्यात् तदर्थं इदं करणत्वेन व्यवहर्त्तव्यम् , व्यापारवदसाधारणकारणत्वात् । अत्र करणत्वेन व्यवहार: साध्यः, व्यापारवदसाधारणकारणत्वं हेतुः। तथा च हेतु-साध्ययोरभेदः । इति करणलक्षणपदकृत्यानि । तत्र साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् । साक्षात्कारत्वं च साक्षात् करोमीत्यनुगतप्रतीतिसाक्षिको जातिविशेषः । न चेयं प्रतीतिरिन्द्रियजन्यज्ञानविषया, ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वात्, इन्द्रियाप्रतीतावपि तथा प्रतीतेश्च । नाऽपि चाक्षुषत्वादिजातिविषया, अननुगतत्वात् । यद्वा जन्यधीजन्यमात्रवृत्तिजातिशून्यज्ञानत्वं साक्षात्कारत्वमिति । अस्याऽर्थः - धीः ईश्वरधीः, तज्जन्या धीः साक्षात्कारधीः, तन्मात्रवृत्तिजातिः साक्षात्कारत्वं, तद्वान् साक्षात्कारः। तत्र साक्षात्कारत्वशून्यत्वे सति ज्ञानत्वाभावादव्याप्तिः अनुमितावतिव्याप्तिश्च, तत्र साक्षात्कारशून्यत्वे सति ज्ञानत्वस्य सत्त्वाात् । तद्वारणार्थ प्रथमजन्यपदम् , ईश्वरज्ञानस्य जनयत्वाभावात । जन्यधीः साक्षात्कारधीः, तन्मात्रवृत्तिजातिः साक्षात्कारत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानत्वं नास्तीति साक्षात्कारेऽव्याप्तिः, अनुमित्यादावतिव्याप्तिश्च । अनुमितौ जन्यधी: साक्षात्कारधीस्तन्मात्रवृत्तिजाति: साक्षात्कारत्वं; तच्छून्यत्वे सति ज्ञानत्वस्य सत्त्वात् । तद्वारणार्थं द्वितीयजन्यपदम् । जन्यधीर्व्याप्तिधीः, तज्जन्याधीरनु-मितिधीः, तद्वृत्तिजातिः अनुभवत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानत्वाभावादव्याप्तिस्तद्वारणाय मात्रपदम् । जन्यधीनिर्विकल्पकधीस्तज्जन्याधी: सविकल्पकधीस्तन्मात्रवृत्तिधर्मः सविकल्पकत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानचाभावादव्याप्तिः । तद्वारणाय जातिपदम् । सविकल्पकत्वं च न जातिः, चाक्षुषत्वादिना साङ्कर्यात् । चाक्षुषत्वाभावसमानाधिकरणत्वं त्वाचसविकल्पके, सविकल्पकत्वाभावसमानाधिकरणत्वं ८. मुद्रिते पृ. १४ । ९. जातिविशेष एव मु.। १०. ज्ञानत्व० मु.। ११. ज्ञानत्वं तत् मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229651
Book TitleNyayasiddhant Manjiri Tippanak
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size491 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy