________________
51
श्रीसिद्धिचन्द्रगणिकृतं न्यायसिद्धान्तमञ्जरी-टिप्पनकम्
श्रीसर्वज्ञं नमस्कृत्य सिद्धिचन्द्रेण धीमता । न्यायसिद्धान्तमञ्जर्याः पदकृत्यानि लिख्यते (न्ते) ॥ १ ॥
।
ननु' किमिदं याथार्थ्यं ? - तद्वति तदवगाहित्वं याथार्थ्यम् । भवति हि रजते इदं रजतमिति ज्ञानं रजतत्ववति तदवगाहीति याथार्थ्यम् । शुकाविदं रजतमिति ज्ञानं नाऽरजतत्ववति तदवगाहीति न याथार्थ्यम् ।
ननु एवं रजते इदं रजतं नवेति संशयोऽपि प्रमा स्यादिति चेत्रजतत्वांशे प्रमैव । तद्वति तदनुभवस्तत्प्रमेति प्रामाणिकाः । एवं `च रजतत्ववति रजतत्वप्रकारकानुभवो रजतत्वप्रमेत्यर्थः । घटत्ववद्विशेष्यकत्वे सति घटत्वप्रकारकत्वं प्रामाण्यमित्यर्थः ।
अनुभवत्वं च स्मृतिभिन्नज्ञानत्वम् । तथा च स्मृतित्वानधिकरणं ज्ञानं अनुभवस्तेन स्मृत्यन्तरे न व्यभिचारः ।
व्यापारवदसाधारणकारणत्वं करणत्वमिति । कारणत्वं करणत्वमित्युक्ते कुठारदारुसंयोगेऽतिव्याप्तिः, तद्वारणाय व्यापारवदिति । कुठारदारुसंयोगस्य छिदां प्रति कारणत्वेऽपि तस्यैव व्यापाररूपतया व्यापारवत्त्वाभावात् । व्यापार - वत्कारणत्वं करणत्वमित्युक्ते ईश्वरज्ञाने ऽतिव्याप्तिः । यावत्कार्यत्वावच्छिन्न पति उपादानप्रत्यक्षत्वेनाऽहेतुत्वात् । अस्मदादिव्यापारेणैवेश्वरज्ञानस्य व्यापारवत्त्वात् । तद्व्यावृत्तयेऽसाधारणेति । ईश्वरज्ञानस्य यावत्कार्यत्वावच्छिन्नं प्रति हेतुत्वेन साधारणत्वात् ।
Jain Education International
ननु व्यापारवदसाधारणं तत्करणं, यच्च करणं तद्व्यापारवदिति लक्ष्यलक्षणयोरभेदः । तद्व्यावृत्तये व्यापारवदसाधारणकारणत्ववत्करणम् । तथा च १. मुद्रितग्रंथे पृ. १० । २. किं वाऽनुभवत्वमित्यधिकं मुद्रिते । ३-४ यथार्थम् मु । ५. चेन्न ६. मुद्रिते पृ. १२ । ७. मुद्रिते पृ. १३ ।
मु.
For Private & Personal Use Only
www.jainelibrary.org