________________
68
पर्यायत्वं दुर्वारमिति व्यक्तमाकरे । त्यजिगम्योः पर्यायत्वे इष्टापत्तौ तु गच्छतीत्यत्र त्यजतीत्यापत्तेः । तद्वारणाय गच्छतीत्यादिसमभिव्याहारविशिष्टद्वितीयात्वेन संयोगबोधत्वेन कार्यकारणभावकल्पने तु गौरवम् । तस्मात् फलविशिष्टैव क्रिया धात्वर्थः । अत्र विनिगमनाविरहात् क्रियाविशिष्टं फलं धात्वर्थः इत्यपि भवति तथाऽप्यत्र फलविशिष्टैव क्रिया धात्वर्थः । तथा च गच्छतीत्यत्र धात्वर्थतावच्छेदकं फलं संयोगः, त्यजतीत्यत्र विभाग इति ।
तस्या आख्यातार्थेति । आख्यातपदोपस्थाप्यसङ्ख्यायाः आख्यातविशेष्येऽन्वयनियमः । आख्यातार्थविशेष्यत्वं च विभक्त्यर्थाविशेषणीभूतनामार्थत्वम् । चैत्रः ओदनं पचतीत्यत्र ओदनरूपो नामार्थः कर्मत्वरूपविभक्त्यर्थे विशेषणीभूतः । अविशेषणीभूतो - नामार्थश्चैत्रः आख्यातार्थविशेष्यः ।
ननु ओदनस्याऽन्वयः कर्मत्वे, कर्मत्वान्वयः पाके, पाकस्याऽ ऽनुकूलतासम्बन्धेन कृतौ कृतेश्च चैत्रेऽन्वयस्तथा च पाकविशेषणत्वेन भासमानं कर्मत्वं तदेव कथं नाऽऽख्यातार्थविशेष्यं ? विभक्त्यर्थोपरि अविशेषणीभूय भासमानत्वादिति चेत् न । नामार्थपदेन तन्निरासात् । कर्मत्वं तु द्वितीयार्थो न तु नामार्थः । अत एव पाकोऽपि न आख्यातार्थविशेष्यः, तस्य धात्वर्थत्वेन नामार्थत्वाभावात् ।
>
चैत्रेण ओदनः पच्यते इत्यत्र चैककर्तृकपाकजन्यफलशाली ओदनः इति शाब्दबोधः । अत्र ओदनः आख्यातार्थविशेष्यः, तस्य मुख्यविशेष्यत्वेन भानात् । न तु कर्ता आख्यातार्थविशेष्यः, तस्य कर्तृत्वरूपविभक्त्यर्थोपरि विशेषणीभूय भासमानत्वात् । तथा च विभक्त्यर्थाविशेषणीभूतो नामार्थः ओदनः । आख्यातार्थविशेष्यः- पचतीत्यत्र चैत्रः आख्यातार्थविशेष्यः तत्र सङ्ख्यान्वयः ।
चिन्तामणिकृन्मते तु यत्र रूपाख्यातार्थस्य चैत्रेणाऽनन्वये चैत्रस्याऽऽ ख्यातार्थविशेष्यत्वाभावादाख्यातपदोपस्थाप्यसङ्ख्यान्वयो न स्यात् इति ।
स्थीयते इत्यत्राऽनुकूलतासम्बन्धेन कृतिविशिष्टा स्थितिरिति शाब्दबोधः । तथा चाऽनुकूलतासम्बन्धेन कृतिर्धात्वर्थोपरि प्रकारतया भासते इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org