Page #1
--------------------------------------------------------------------------
________________
माणगापार
कानपुरनिवाप्ती गुजराती श्रावको तरफर्थी भेट,
जका-20
महेन्द्रखर्गारोहः।
SaSशास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिचरणान्तेवासिना न्यायतीर्थ-न्यायविशारद
मुनिन्यायविजयेन विरचितः।
वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदयमन्त्रालये
मुद्रयित्वा प्रकाशितः ।
वीरसंवत् २४३८॥
Page #2
--------------------------------------------------------------------------
________________
Printed and Published by Shah Harakholand Bhurabhai,
at the Dharmabhyudaya Press Benares City.
Page #3
--------------------------------------------------------------------------
________________
000000000000
00000
000000 colo000000
| अर्हम् । मुनिराज श्रीमहेन्द्रविजयजी.
DOOO
जन्म, सं- १९४३.
स्वर्ग, सं- १९६८.
अहो ! पण्डितराजोऽयं महेन्द्रविजयो मुनिः । दृश्यतां धर्मसूरीन्द्र शिष्यरूपो महातपाः ॥ १ ॥
00000000000
000000000000000
10000000000
Page #4
--------------------------------------------------------------------------
________________
अहम् ।
श्रीविजयधर्मसूरिगुरुभ्यो नमः । महेन्द्रस्वर्गारोहः।
जैनेन्द्रशासनरतः परमः कृपालुः
खल्पं वचः समुचितं मधुरं प्रणेता। सन्तोषपोषजनकः स्वमुखप्रसादात्
स श्रीमहेन्द्रविजयः खरगान्महात्मा ॥१॥ नैपुण्यमाकलितवान् किल शाब्दशास्त्रे
साहित्यशास्त्रविनिविष्टमतिप्रकर्षः । अध्यापनां रचयिता मधुरं बहूनां स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ २ ॥ पार्षद्यमानसपयोरुहभानुभानु
व्याख्यानमारचयिता परिपूर्णतत्त्वम् । नेता दयादिकगुणैकपदी ततश्च
स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ ३ ॥ चारित्रगात्रजननीः परिपालयित्रीरेतस्य शोधनकरीः समितीश्च गुप्तीः । संसेविता प्रवचनस्य सदाष्टमातृः
स श्रीमहेन्द्रविजयः खरगान्महात्मा ॥ ४ ॥ भक्तिप्रियः प्रतिदिनं गुरुदेवतासु
% 3D
Page #5
--------------------------------------------------------------------------
________________
क्लिष्टे तपश्चरणवमनि सञ्चरिष्णुः । एवंविधोऽप्युपहतो न कषायचौरैः
स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ ५ ॥ क्रोधो हि योजनशतं किल दूरमासीत् तस्माच्छमैकसुहृदं परिषेवमाणात् । नो जातु नाम मनसा वचसाऽङ्गतश्चाऽवष्टम्भलेशमपि दर्शयिता बभूव ॥ ६ ॥ आक्रोशितोऽप्यतितरां कटुजल्पधारया
कुर्याद् रुषं तु कथमेष मुनिर्महेश्वरः । किन्तु प्रभूतपरितोषसुधाभिपूरितै
राक्रोशमानयत शान्तिपथे गवां गणैः ॥ ७ ॥ सत्यं समस्य पुरतः परिघोषयामः
शत्रुखभावपतितेऽपि हि नम्रतोच्चैः। एकः क्षमाश्रमणतां क्षमितागुणोऽस्य
श्रीलस्य तत्रभवतः प्रकटीचकार ॥ ८ ॥ दम्भस्य तु प्रणयने न कदाप्यमुष्य प्राप्तः प्रसङ्ग उपघातितसंयमस्य । खाध्यायमेव हि सदा विजने स्थलेऽसौ
धीमान् समाद्रियत बाह्यविरक्तचेताः ॥ ९ ॥ संबिभ्रतोऽस्य शरणं परितोषराजो
नित्यं विवेकसदलङकृतिमण्डितस्य । सम्यक्परिग्रहयमाऽऽत्मरमागृहीतौ
Page #6
--------------------------------------------------------------------------
________________
लोभस्य शौर्यमुदभूद् नहि तस्करस्य ॥ १० ॥ एकाशनव्रतमहो ! सततं वितन्वन्
भुङ्क्ते स्म भोजनमसौ समयोपलब्धम् । स्वादिष्ठवस्तुनि मनागपि निर्मिमाणो गाय॑ कदाऽपि न पुनः परिदृश्यते स्म ॥११॥ नव्यं च वस्त्रमसको न कदाऽपि दधे
ग्रन्थान् पुनः समुचितान् प्रशमानुकूलान् । एकोऽहमस्मि मम कोऽपि न नास्मि चाहं
कस्याप्यदीनमनसेति सदापि दध्यौ ॥ १२ ॥ निष्टङ्कनेऽसति सति खकभारती न ।
प्रायः समादित जिनेन्द्रवचोऽनुरक्तः । संशीतिगोचरपदे तु महानुभावः संशीतिशब्दमपि सार्धमनूच्चचार ॥ १३ ॥ माधूर्यपूरितमबाधितमप्यतुच्छं
संप्रोचुषोऽत्रभवतः श्रमणेश्वरस्य । क स्याद् मृषावचनदूषणसंप्रवेशः
संभावना त्वददितग्रहणे कुतस्त्या ? ॥ १४ ॥ भिक्षार्थमार्हतमुखाम्बुजदर्शनार्थ
नीहारकर्मकृतयेऽप्यथवा प्रयातः। मेधाविनः शमसुधारसमेदुरस्य क्वापि स्त्रियां न नयनं निपपात तस्य ॥१५॥ पञ्च व्रतान्यपि महान्यभिरक्षतः सत्
Page #7
--------------------------------------------------------------------------
________________
कालानुभावमनुसृत्य मुनीश्वरस्य । धैर्य परीषहचमूसहने महिष्ठं
संबिभ्रतः परमसत्त्वगुणालयस्य ॥ १६ ॥ गाम्भीर्यमद्भुतमुपेतवतः समस्त
कर्मक्षयात्मशिवसम्पदज्वेप्सयैव । सम्यक् क्रियां विदधतो गुरुवाक्य आस्ते
धर्मश्वकासदिति धारयतश्च चित्ते ॥ १७ ॥ खच्छप्रसादकिरणाततहर्षवर्षों
वक्वेन्दुरक्षिपदवीविनिपातमात्रात् । पापं क्षिणोति चिनुते च शरीरभाजां श्रेयः पिपर्त्यभिमतं च किमत्र वाच्यम् ? ॥१८॥
(त्रिभिर्विशेषकम् ) किं ब्रूमहे बहु महोदयसम्पदास्पदे
ऽस्मिन् ज्ञानदर्शनतपोविशदात्मशालिनि !। एकप्रसादगुणतः खलु विस्मयामहे
दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ १९ ॥ क्रोधाग्मिदग्धमनसः प्रशमार्पणाकृते
नास्य प्रमोदजलधेर्वचसः प्रयोजनम् । एकं प्रसादसुधया परिधौतमक्ष्यलं
दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ २० । तस्य प्रसादविमलं नयनं विलोक्या
रातिस्वभावपतितोऽपि भृशं तुतोष ।
Page #8
--------------------------------------------------------------------------
________________
तदर्पसर्पपरिपन्थिगुणप्रसाद बिभ्रत् कदा स परिपावयिता महेन्द्रः ॥ २१ ॥ सम्भावनामपि न कुर्म इमां कदाऽपि
यन्नाम तं मुनिवरं परिचिन्वतोऽत्र ।। संपश्यतोऽपि खलु दुर्जनदृष्टिरूपाद्
दोषो विलोचनपथेऽवततार तत्र ॥ २२ ॥ किं कुर्महे तनुमहे गमनं क वा वयं
कं वा भुवीह पुरुषेश्वरमाश्रयामहे । कस्याग्र आपदमिमा परिदर्शयामहे
प्राप्येत येन पुनरेष मुनिमहेश्वरः ? ॥ २३ ॥ भो भोः ! प्रदर्शयत तादृशमुच्चमन्त्रं
यज्जापतः सुमनसा सहसा नयामः । श्रीमन्महेश्वरमहोदयशारदेन्दुनीहारहारधवलाननमक्षिमार्गम् ॥ २४ ॥ तस्मिन् गते मुनिपतौ महनीयकी - वस्माकमाकलयतां विषयानुरागम् । साधूपदिश्य हृदयं गतगा_पत कुर्याच्चिरं रहसि को मधुरैर्वचोभिः ? ॥ २५ ॥ लोकेऽत्र किं स परिभावितवान् महेन्द्रो
नैर्गुण्यमाशु परिहाय यतो जगाम । अत्र प्रयाम्यहकमित्यपि यन्न चोचे कस्माद् गतोऽपि पुनरेष्यति वा नवाऽथ ? ॥२६॥
Page #9
--------------------------------------------------------------------------
________________
धीमन् ! तवाऽद्भुतनतिर्मनसो न याति
धीमन् ! तवाऽद्भुतमतिर्मनसो न याति । धीमन् ! त्वदीयमुदितं मनसो न याति
धीमन् ! त्वदीयगमनं मनसो न याति ॥२७॥ किं नाम कर्म परिसाधयितुं समीहसे यत्सत्त्वरं प्रगतवाननिवेद्य सुन्दर ! । अप्यस्मदा चरितुमिच्छसि गुप्तरूपतो यादृङ्मतिर्वद परञ्च कदा मिलिष्यसि ? ॥२८॥ स्पष्टं निवेदय महेन्द्र ! महानुभाव !
कुत्र प्रयाणमकृथाश्च किमर्थकं च । अन्वेषणाय सहसा गुणरत्नसिन्धो !
श्रीलस्य तत्रभवतः प्रयतामहे यत् ॥ २९ ॥ पूर्णः शशाङ्क उदितश्च तमोगृहीतो
जातस्तरुश्व फलदः करिणा च भग्नः । अभ्युन्नतश्च जलदः पवनाद् विकीर्णः
तीरं तरी गतवती च तटाद्रिभन्ना ॥ ३० ॥ निष्पन्नवद् व्रीहिवणं दवाग्निना
दग्धं हहा ! दैववशेन सत्वरम् । वैदुष्यचारित्रगुणैकसुन्दरीभूतो महेन्द्रो यमरक्षसा हतः॥ ३१ ॥
(युग्मम् ) नाऽस्मन्मनस्तिष्ठति सुस्थभावे
।
Page #10
--------------------------------------------------------------------------
________________
३
नाऽस्मन्मनस्तिष्ठति सद्विवेके । नाऽस्मन्मनस्तिष्ठति शास्त्ररूपे गीर्वाणगेहं गतवत्यमुष्मिन् ॥ ३२ ॥ कुक्षे ! कथं मुञ्चसि मां न हि स्वयं
प्राणाः ! किमद्यापि न याथ दूरतः। सुदुःसहेदृग्व्यसनाऽपरिक्षम !
त्वमङ्ग ! किं तद्वपुषा न सङ्गतम् ? ॥ ३३ ॥ अथवा मोहचिह्नोऽयं शोको युक्तो न धीमताम् । सर्वे हि गत्वरा नाम कुत्र शोकः प्रणीयते ? ॥३४॥ नीयमानं कृतान्तेन परं शोचन् विमुग्धधीः । आत्मानं नेष्यमाणं तु मनागपि न शोचति ॥३५॥ किञ्च सार्थक्यमानीय नृजन्माऽयं मुनीश्वरः । अभ्युन्नतिं प्रपेदानोऽचिरादस्ति मुदां पदम् ॥३६॥ सम्यग् मुनिचरित्राणां पालकस्य मुनीशितुः । कालधर्मः समायात उत्सवः सम्मतः सताम् ॥३७॥ किमन्यद् ब्रूमहे तत्र मुनिरत्नशिरोमणौ । चित्रकृच्चरितं तस्य श्रूयमाणं मनागपि ॥ ३८ ॥ तथाहिअस्तीह सिद्धगिरिणा परिदीप्यमानः
श्रीगूर्जरा जनपदो विदितखरूपः। श्रीमाण्डलं च निकषाऽभिधया दसाडाग्रामोऽस्ति तत्र जिनमन्दिरमण्डनाढ्यः ॥३९॥
३
Page #11
--------------------------------------------------------------------------
________________
( ८ )
सम्यग्यशा इह च सांकलचन्द्रनामा
श्रद्धागुणाऽमलमना विकसद्विवेकः । तत्स्थैर्जनै गरशेठ इति प्रणीतो न्यायाऽनुपालनपरो वणिगेक आसीत् ॥ ४० ॥ आसीदमुष्य शुचिशीलगुणा झवेरीत्याख्याङ्गना व्रततपोनियमानुरक्ता । कालक्रमेण तनयः परिजायते स्म
कल्याणपात्रमनयोः सुकृतोदयेन ॥ ४१ ॥ खवर्गे मिलिते साधुदिवसे पितरावथ ।
सूनोनाम मफालाल इत्यस्थापयतां मुदा ॥४२॥ अथ क्रमाद् बालक एधमान
श्चक्षुर्युगानन्दकरो बभूव । पित्रोः परं नापरपश्यतोऽपि
नाऽऽनन्दयत्यम्बुधिमेव हीन्दुः ॥ ४३ ॥ नियुज्य भूमौ निजपाणियामलं
पृष्ठं मृगारातिरिवोन्नमय्य च । कुर्वन् क्रमाभ्यां गमनं शनैः शनैर्मुखाब्जिनीतः प्रथयन् स्मिताम्बुजम् ॥ ४४ ॥ असौ किमीयं मुदितं न बालको मनश्चकारेन्दुविकासिभूधनः। सुकोमलस्तस्य च पाणिपल्लवः संस्पृष्टमात्रो मुदमार्पिपत् पराम् ॥ ४५ ॥
Page #12
--------------------------------------------------------------------------
________________
( ९ )
वृत्तं तदास्यं मसृणं निसर्गतः शोचिःसमूहं प्रथयत् समन्ततः । दृष्ट्वा निशारत्नसहोदरं न कः स्वाऽङ्के न्यधित्सद् रमणाय तं मुदः ? ॥ ४६ ॥ जातेऽथ वर्षदशके कुमरस्य तस्यायुः पूरणे दिवमगाज्जनकस्ततोऽम्बा | की विधेर्विलसितं जगदङ्गिवर्गे क्रीडां यथेच्छमपनीतदयः करोति ? ॥ ४७ ॥ गत्वा ततो मातुलगेहरूपे तस्थौ स वर्षत्रितयं यथेष्टम् । ततः पुनर्माण्डलपत्तनेऽस्थाद् मातुःस्वसुः सद्मनि सप्रमोदम् ॥ ४८ ॥ पितुःस्वसुवाऽपि गृहेऽथ तत्र
तिष्ठन् निराबाधमसावपाठीत् । को नाम रत्नं शुभवृद्धिहेतुं
गृहे स्वकीये परिरक्षयेन ? ॥ ४९ ॥ अध्येतुमिच्छुस्तत आङ्ग्लभाषां
जगाम धीमान् सवयस्सनाथः । साऽऽमोदचेताः सुरते पुरेऽसौ
धीरा विधेये न किलाssसन्ति ॥ ५० ॥
ततः पुनः संस्कृतभारती स महामतिः संपरिचेतुमिच्छुः ।
२
Page #13
--------------------------------------------------------------------------
________________
काश्यां पुरि श्रीयुतधर्मसूरिपादैः सहैति स्म विहत्य पद्भ्याम् ॥ ५१ ॥ सारखतं व्याकरणं पपाठा. ऽऽरम्भे ततोऽसौ लघुवृत्ति हैमम् । गीर्वाणवाणीनिपुणीबभूवान्
काव्यादिभिः कस्य मुदे स नाऽऽसीत् ॥ ? ५२ ॥ अथ क्रमादाप स यौवनश्रियं - नृलोचनद्वन्द्वचकोरचन्द्रिकाम् ! सुनिर्मलं कान्तितरङ्गि वर्तुलं बभौ तदास्यं रजनीकरः परः ॥ ५३ ॥ अहो ! अहोरात्रसमुन्नतोदयां
शङ्के समालोक्य तदाननश्रियम् । चमत्कृतश्चेतसि लोलुपस्तदाऽऽपाने विरञ्चिश्चतुराननोऽजनि ॥ ५४ ॥ दन्ता बभुः कुन्दसुमेन्दुसुन्दरा
द्युतां वितानैर्ननु रज्जुसन्निभैः । संसारकूपे निपतच्छरीरिणा
मुद्धारणायां किमहो ! समुन्मुखाः ॥ ५५ ॥ मुखे च लावण्यसरःसरोवरे
मीनौ व संरेजतुरस्य लोचने। आकर्णदीर्घ पुनरन्तलोहिते तथाऽन्तराकृष्णसिते समुज्ज्वले ॥ ५६ ॥
Page #14
--------------------------------------------------------------------------
________________
( ११ ) स्निग्धौ कपोलफलको विमलौ च मांसलौ वाणी-श्रियोर्व मुकुरौ ददतुः परां मुदम् । ओष्ठौ च तस्य परिपाकिम-बिम्बसन्निभौ वक्रप्रभाजलनिधौ बभतुः प्रवालवत् ॥ ५७ ॥ लोला तदीया च यथार्थवस्तु
व्याकारदाक्षीं दधती दिदीपे। मन्ये प्रसर्पदशनांशुरज्जुनियन्त्रिता वाग्रमणैकदोला ॥ ५८ ॥ सदान्तरावर्तमनोज्ञरूपा
वास्कन्धदी? कुमरस्य तस्य । मुखप्रभावारिनिधिप्रतीरे
शुक्ती व कर्णौ परिदिद्युताते ॥ ५९ ॥ ध्रुवावभातां कुटिले च मेचके
लते व दृक्पुष्करिणीतटोद्भवे । नासाप्रदीपेन कृतेन वा श्रियोद्गीर्णा मुखे वेश्मनि कज्जलावलिः ॥ ६ ॥ वृत्तं विशालं शरदष्टमीसुधा
करानुकार्यस्य च भालमस्फुरत् । वृत्तः प्रसर्पत्किरणो विशेषकस्तद्भालदेवाध्वनि भानुवद् व्यभात् ॥ ६१ ॥ अधोमुखीभूतसदातपत्रसब्रह्मचारि प्रतिशिश्रियाणम् ।
Page #15
--------------------------------------------------------------------------
________________
( १२ ) विडम्बयन्तं कलशस्य लक्ष्मी
मुष्णीषमेतस्य बभौ वराङ्गम् ॥ ६२ ॥ मृदुलताकलिताः किल कुन्तला
रविसुताजलवीचिसहोदराः। विकचवक्त्रकजे किमु लीननी
खषडङ्घय उत्तमसौरभे ॥ ६३ ॥ गम्भीरचारुध्वनिबन्धुरः पुनः
कण्ठोऽस्य वृत्तोऽनतिदीर्घ आबभौ । श्रियं यदीयामसहिष्णुरम्बुधौ निपत्य कम्बुस्त्रपया विशीर्णवान् ॥ ६४ ॥ आजानुदी? परिदिद्युताते
पीनौ भुजौ दन्तिकरायमाणौ । नितान्तसौम्येऽस्य च पाणिचन्द्रे
रेखाऽल्पवर्षायुष एवं कार्ण्यम् ॥ ६५ ॥ रम्भास्तम्भप्रतिमौ स्निग्धौ मृदुलावुरू विरेजाते । एणीजङ्घानुहरे क्रमवर्तुले पुनर्जङ्ग्रे ॥ ६६ ॥ पादौ तस्य समतलौ पङ्कहोदरमृदू बभासाते। कामाङ्कशाश्च कामाऽङ्कुशा बभुः कनककान्तिभृतः॥६७|| खच्छा सुकोमला हेमद्रवेणेव विलेपिता। चारुवर्णा शरीरस्था त्वगमुष्य व्यभासत ॥ ६८ ॥ रूपलावण्यकान्त्यादिविवेकप्रतिभादिभिः । शरीरात्मगुणै राजन्न कस्याऽभूत् स वल्लभः ?॥ ६९ ॥
Page #16
--------------------------------------------------------------------------
________________
इतः पुनर्माण्डलंपत्तनात्त
न्मातुःस्वसुनन्दन आजगाम । गीर्वाणवाणीनिपुणीबुभूषुः
श्रीकाशिपुर्या नरसिंहनामा ॥ ७० ॥ सदा नृसिंहस्य सहायभावं
व्यधाद् महाबन्धुरसावधीतौ । परोपकारकपरोत्तमानां वाच्यं किमात्मीयलघिष्ठबन्धौ ? ॥ ७१ ॥ अथैकदाऽध्यातवति स्ववस्तुः
पत्रे ज्वराद्यामयबोधिवणे । श्रीधर्मसूरीन्द्रपदं प्रणम्य
ग्रामे खकीये गतवान् नृसिंहः ॥ ७२ ॥ मासत्रयाभ्यन्तर एव तस्य पितुश्च मातुश्च गतौ परत्र । हदारणं शोकमनल्पमायन् स्मरन् भवाम्भोनिधिभीमतां च ॥ ७३ ॥ आगादधीरः परिसोढुमेतद् दुःखं महिष्ठं सहसा नृसिंहः । काश्यां पुनस्तस्य शमाऽर्पणायाऽऽददे मफालाल इमां च वाचम् ॥ ७४ ॥ भ्रातः ! सदा सन्निहितोऽस्ति मृत्युः संसारवासे वसतां जनानाम् । .
Page #17
--------------------------------------------------------------------------
________________
( १४ )
किं सर्वसाधारण आगतेऽस्मिन् पित्रोर्विषण्णी कुरुषे मनः स्वम् ॥ ७५ ॥
?
सदा परिस्फूर्जति भूत्रयेऽपि दुर्वावसरे कृतान्ते । ततो विगूढः किमु कोऽपि दृष्टः श्रुतोऽथवा येन स वञ्चितः स्यात् ? || ७६ ||
जनिर्विकारः प्रकृतिश्च मृत्युः कस्तत्र शोकः प्रकृतौ विधेयः ? |
भिन्नेन मार्गेण समे समेता
यास्यन्ति भिन्नेन यथा तथैव ॥ ७७ ॥
संबन्धवान् कोऽत्र समस्ति तादृशः
खिन्नीभवामः खलु यद्वियोगतः । तथाविधं साधयिताऽपि कोऽत्र नः स्वार्थं च संबन्धितयोच्यतेऽङ्ग ! यः ॥ ७८ ॥
न वास्तवं कोऽपि ददाति कस्यचिद् न वास्तवं कोऽपि कुतोऽपि लाति च । विना प्रदानं ग्रहणं च वास्तवं
को नाम संबन्धितयाऽभिधीयते ? ॥ ७९ ॥ भवार्णवस्यैष किल स्वभावः स्थिरं न किञ्चित् शरदभ्रवत्खे | अभीप्सिताऽनिष्टवियोगयोगो
तार्तिपुत्रो भवकूप एषः ॥ ८० ॥
Page #18
--------------------------------------------------------------------------
________________
( १५ ) त एव धन्या विषयामिषेभ्यः
प्रत्यागतं बुद्धिमतां यकेषाम् । सज्ज्ञानसदर्शनसद्यमात्मरत्नत्रितय्यामनुरागि चेतः ॥ ८१ ॥ भ्रातः ! प्रणीतेऽपि भृशं विषादे
जनः परासुन पुनः समेयात् । कथं वृथा तत्खलु मोहनीय
व्याधं समुत्तेजितमातनोषि ? ॥ ८२ ॥ निपुणोऽसि समर्थोऽसि शिक्षितोऽसि विवेक्यसि । मा विषीद महाभाग ! दुर्वारा भवितव्यता ॥ ८३ ॥
स्मर च सत्पद्येविपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाऽभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः
सतां केनोद्दिष्टं विषममसिधारा व्रतमिदम् ॥ ८४ ॥ उदेति सविता ताम्रस्ताम्र एवाऽस्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ८५ ॥ विवेकदीपं किल धैर्यपात्रे
देदीप्यमानं पुरतो विधाय । शोकान्धकारं जहि सत्त्वशालिन् !
स्फारं परिस्फारय पौरुषं स्वम् ॥ ८६ ॥ सद्बोधपीयूषकिरा गिरैवं
Page #19
--------------------------------------------------------------------------
________________
( १६ )
प्रबोधनात् शान्तिपथाऽध्वगीसन् । संसारनैर्गुण्यमवेक्षमाणो नृसिंह ऐच्छत् शिवशर्ममार्गम् ॥ ८७ ॥
इतो मफालालमहानुभावः श्रीधर्मसूरीन्द्रनिदेशमाप्य | भावि प्रयाणं न पुनर्मदीय
-
मितीव मन्वान इयाय देशे ॥ ८८ ॥ यात्रामकुर्वन् विमलाऽचलस्या
प्रणीतपूर्वी प्रबलान्तरायात् । सम्मेतशैले प्रभुधर्मसूरि
पदारविन्दे पुनराजगाम ॥ ८९ ॥
ततः सहैभिः कलकत्तिकाया
मगाद् मफालालमहानुभावः । सत्सङ्गतो हि प्रभवत्प्रमोदं
सत्सङ्गभागेव पुमानवैति ॥ ९० ॥ तत्राऽथ पुर्या मुनिशेखराणां साधूपदेशाद् भवतो विरागाः । ये त्वरन्ते स्म महानुभावाः श्रामण्यसाम्राज्यरमामुपेतुम् ॥ ९१ ॥ ततो मफालालमहानुभावोऽप्येभिस्त्रिभिदीक्षितुमभ्यवाञ्छत् ।
निरन्तरायो हि विविक्तबुद्धि
Page #20
--------------------------------------------------------------------------
________________
( १७ )
मज्जेत् कथं भोगपुरीषपुञ्जे ? ॥ ९२ ॥ ततो नृसिंहोऽपि तमन्वगच्छत् पुरैव संसारविरक्तचेताः ।
स एव बन्धुः स पुनर्वयस्यः श्रेयः पथेनाऽनुसरेद् निजं यः ॥ ९३ ॥ एवं च ते पञ्च महानुभावाः सुशिक्षिताचारुविवेकभाजः । अभूतपूर्वेण महोत्सवेन तत्रत्यभक्ताढ्यविनिर्मितेन ॥ ९४ ॥
त्रिषष्ठ्यभ्यधिके चैकोनविंशतिशताब्दके । चैत्राऽधवलपञ्चम्यां दीक्षामाददिरे मुदा ॥ ९५ ॥
( युग्मम् )
सिंहविजय - गुणविजयौ विद्याविजयो महेन्द्रविजयश्च ।
न्यायविजय इत्याख्याः
पञ्चाऽऽसंस्ते मुनीशितुः शिष्याः ॥ ९६ ॥ महेन्द्रविजयेत्येवं मुनिनाम्ना प्रसिद्धवान् । महेच्छः श्रीमफालालो रेमेऽथ शमसम्पदि ॥ ९७ ॥ नरसिंहः पुनर्न्यायविजयेत्यभिधां गतः । महेन्द्रविजयाभ्यर्णेऽग्रहीद् वैराग्यशिक्षणम् ॥ ९८ ॥
अथ श्रीकलिकातायां कृत्वा मासचतुष्टयम् । ततो विहारं विदधुः सशिष्या धर्मसूरयः ॥ ९९ ॥
३
Page #21
--------------------------------------------------------------------------
________________
( १८ )
काशीपुरीं मुनिवराः समुपागमन् पुन
विद्याऽऽलयं पथमनेषत चोन्नतिश्रियः । श्रीमान् महेन्द्रविजयोऽपि कुशाग्रतुल्यधीविद्याविनोदमकरोद् गुरुभक्तिबन्धुरः ॥१०॥ श्रीसिद्धहेमाभिधशब्दशास्त्रप्रासादमारोहत आशु तस्मै । शश्लाघिरे विस्मयमाश्रयन्तः सर्वे सहाध्यायिजना नितान्तम् ॥ १०१ ॥ मुक्तावलीप्रभृतितर्कनिबन्धमादौ
कृत्वा स्वबुद्धिविषयं सततश्रमेण । जैनेन्द्रतर्कमधिगन्तुमथो निसर्गगम्भीरमैहत स सम्मतितर्कमुख्यम् ॥ १०२ ॥ न्यायोऽप्यसौ मुनिशिशुः प्रतिपद्य तस्य
साहायकं प्रतिदिनं श्रमतो यथाधि । व्युत्पत्तिलेशमधिलक्षणशास्त्रमाप
जैने पुनस्तदितरत्र च तर्कशास्त्रे ॥ १०३ ॥ गुरोगिराथो कलिकातिकायां
श्रीन्यायशास्त्रे ददितुं परीक्षाम् । श्रीमङ्गलः प्राज्ञमुनीश्वरश्च न्यायो मुनिश्च प्रकृतौ विहारम् ॥ १०४ ॥ ताभ्यां तदानीं विनिवेदितः सहागमे यथौचित्यसहायताकरः।
Page #22
--------------------------------------------------------------------------
________________
( १९ )
महामुनिः श्रीलमहेन्द्र पण्डितो - ऽपरिस्पृशन् लोकयशःपरिस्पृहाम् ॥ १०५ ॥
नम्रखभावः परिगृह्य तद्वचस्ताभ्यां प्रयाति स्म महेन्द्रपण्डितः ।
परोपकाराय सतां हि चेष्टितं
को वा महेन्द्रं न सहायमीहते ? ॥ १०६ ॥ अष्टषष्ठ्यधिके चैकोनविंशतिशताब्दकेः । मृगशीर्षतृतीयायां धवलायां तिथौ पुनः ॥ १०७ ॥ मध्याह्नसमये चैकवादने मुनयस्त्रयः । काशीतो निर्गता आसन् व्यहार्षुश्चाग्रतः क्रमात् १०८ ( युग्मम् )
अथ तत्र पथप्राप्तं तीर्थ सम्मेतभूभृतम् । आरुह्यार्हन्महादेवान् प्रणेमुर्मुनयो मुदा ॥ १०९ ॥ अत्येक रभसः श्रीमहेन्द्रो मुनीश्वरः । पार्श्वनाथं जगन्नाथमुच्चकैरेत्रमस्तवीत् ॥११०॥ अद्य प्रभातं समभूत् सुमङ्गलं महोदयो वासर एष मे पुनः । सौभाग्यसिन्धुर्नियमादयं क्षणो
जातोऽद्य कल्याणतरुः सुपल्लवः ॥ १११ ॥
अभूदहो ! कामगवी च सम्मुखा शशयालुः किल कल्पवल्लरी । किमेभिराप्तैरथवानुषङ्गिक
Page #23
--------------------------------------------------------------------------
________________
( २० )
प्रयोजनैजन्मविवृद्धिहेतुभिः ॥ ११२ ॥ प्राप्तो ध्रुवं मुक्तिविवाहमङ्गला
ऽऽलयो मयाल्पेतरपुण्यढौकितः। लोकेऽधुना शारदपूर्णचन्द्रमः
सहोदरं यन्मुखमेतदर्हतः ॥ ११३ ॥ तुभ्यं देव ! नमोऽर्हते भगवते विश्वत्रयीस्वामिने
सर्वज्ञाय जगद्धिताय पुरुषश्रेष्ठाय भूभानवे । लोकोद्योतकृतेऽभयं प्रददते स्याहादिने ब्रह्मणे
मुक्तायादिकराय तीर्थपतये कारुण्यपाथोधये ११४ निर्यामकाय परमाय भवाम्बुराशौ
रागादिरोगशमकर्मभिषग्वराय । संसारकूपनिपतज्जनरजवे च
तुभ्यं नमः परमपूरुषपुण्डरीक ! ॥ ११५ ॥ तुभ्यं नमोऽखिलविपत्तिनिकुञ्जदन्तिने
तुभ्यं नमो भुवनवाञ्छितकल्पभूरुहे । तुभ्यं नमः स्मरकरीन्द्रभिदामृगहिषे
तुभ्यं नमः पुरुषपुङ्गवगन्धहस्तिने ॥ ११६ ॥ नमोऽस्तु तुभ्यं पुरुषोत्तमाय वा स्वयम्भुवे वा परमेष्ठिनेऽथवा । अगम्यरूपाय विशुद्धयोगिनां
नमोऽस्तु तुभ्यं सुगताय शम्भवे ॥ ११७ ॥ पारं स्वयम्भूरमणाम्बुराशेः
Page #24
--------------------------------------------------------------------------
________________
( २१ )
सम्प्राप्नुवानो वियदध्वनोऽन्तम् । सम्पश्यमानोप्यथवा महौजाः
स्तोतुं कमीशीत गुणांस्तवान् ! ? ॥ ११८ ॥
त्रैलोक्यसाम्राज्यरमानुभाविनो
भवन्ति दासाः खलु यस्य वज्रिणः ।
तथाप्यहो ! अद्भुतवीतरागतां
विभ्रत् सकस्त्वं नहि कस्य चित्रकुत् ? ॥ ११९ ॥ त्रैलोक्यरक्षा - प्रमयक्षमं बलं
शक्राच्च कीटावधि बिभ्रतोऽद्भुतम् । साम्यं क्षमावारिनिधेः क्षमेत क
स्तव स्वरूपं प्रतिपत्तुमेव वा ? ॥ १२० ॥ अभूतां काणादा-ऽक्षचरणमते नैगमनयात् तथा साङ्ख्याद्वैते समुद्भवतां सङ्ग्रहनयात् । दृशो बौदध्याः प्रादुर्भवनमृजुसूत्रात्प्रकटयन् किलैकस्त्वं दृष्टिं समसमनयां नन्दसि जिन !|| १२१ || यन्नाम त्रिजगत्त्रिभेदविपदम्भोराशि कुम्भोद्भवो यद्वाचश्चितिमच्चकोरनिचये चाचण्डरोचीरुचः । यन्मेधासलिलेऽखिलेन युगपल्लोकेन मीनायितं स श्रीमन् ! भगवन् ! सदा विजयसे त्रैलोक्यचिन्तामणे ! ॥ त्वां स्तुमोऽभिनमामस्त्वां त्वामेवोपास्महे सदा । त्वां प्रपद्यामहे नाथ! निदेशय करोमि किम् ?१२३ यद्यस्ति कोऽपि निष्कर्मा सर्वज्ञो यदि कश्चन ।
Page #25
--------------------------------------------------------------------------
________________
( २२ ) मोक्षमार्गप्रकाशी चेत् त्वमेव परमेश्वर ! ॥१२॥ सर्वविन्मूलकत्वेन विरोधानवकाशतः।। सुधीपरिगृहीतेश्च प्रमाणं नस्त्वदागमः ॥१२५॥ दुर्जनेऽपि नृशंसेऽपि त्वद्दासम्मन्यता मयि । परिस्फुरति चेन्नाथ! तदा खल्वस्मि निर्भयः॥१२६॥ नरेन्द्रश्रीः सुरेन्द्रश्रीर्मुक्तिश्रीश्चेद् भविष्यति । त्वत्सेवयैव दासस्य शङ्का नात्रावकाशते ॥१२७॥ निदाने प्रतिषिद्धेऽपि भगवन् ! तब शासने ।। भवे भवेऽस्तु त्वत्पादसेवेत्येतन्निदान्यते ॥ १२८ ॥ कृताञ्जलि नमस्कृत्यान्तिम विज्ञपयाम्यदः । मराल सततं स्वामिन् ! मम मानसमानसे ॥१२९॥ इत्येवमानयत पार्श्वपरेशितारं
सम्मेतशैलतिलकं स्तवनैकपद्याम् । श्रीमान् महेन्द्रविजयो मुनिरार्हताग्यः
सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागः ॥१३०॥ अग्रतस्तत आतेनुः प्रयाण मुनयस्त्रयः । कलिकातां प्रति ज्ञानसम्पदं ददतोऽन्वहम् ॥१३१॥ मासमेकं विहारेण काशीतः कलिकातिकाम् ।। पौषशुक्लतृतीयायां प्राविक्षन्नष्टवादने ॥ १३२ ॥ योगश्रिया चाद्भुतया महेश्वरी
भूतस्य तीर्थस्य च जङ्गमात्मनः । जनान् समस्तान् पुनतः प्रसन्नया
Page #26
--------------------------------------------------------------------------
________________
U
( २३ ) दृशा च संतोषसुधाकिरा गिरा ॥ १३३ ॥ अभीष्टकल्पद्रुमपादपङ्कजस्पर्शस्य चिन्तां नत ईक्षयैव च । मूर्तस्य वा पुण्यसमुच्चयस्य च प्रातः प्रणम्यस्य सदा कृताञ्जलि ॥ १३४ ॥ श्रीमन्महेन्द्रस्य महेश्वरस्य
सान्निध्यतोऽमू श्रमणौ व्यधाताम् । असम्भवद्विनकथौ विहारे सम्यक् परीक्षादिकमिष्टकार्यम् ॥ १३५ ॥ अचिन्तितं न्यायविशारदेति
सत्काररूपं समवापतां च । बङ्गज्ञवर्गात् कलिकातिकायां चिन्तामणौ सन्निहिते कथा का ? ॥ १३६ ॥
(चतुर्भिः कुलकम् ) मासत्रयं तत्र कृतस्थितिः सा
मुनित्रयी श्रीगुरुदर्शनेच्छुः । ततो विहारं कृतवत्यमन्दं
काशीपुरीमागमदेकमासम् ॥ १३७ ॥ श्रमापनोदाय च तत्र कश्चित् कालं त्रयस्ते श्रमणा अतिष्ठन् । ग्रीष्मर्तुतापाभिविवृद्धिभीत्या ततो व्यहार्दुस्त्वरया पुनस्ते ॥ १३८ ॥
Page #27
--------------------------------------------------------------------------
________________
( २४ )
प्रापत पथेऽथ द्वयवर्षजन्मना - Sऽविर्भूतया कुक्षिविपीडयाऽसकृत् । विपीड्यमानोऽपि महेन्द्रपण्डितो महामनाः कर्णपुरं कथञ्चन ॥ १३९ ॥
कालज्वरे तत्र समागतेऽथ महानुभावः स महेन्द्रसाधुः । दिनान्यही पञ्चदश ज्वराति
भुक्त्वा प्रयाणं व्यदधात् परत्र ॥ १४० ॥ क्षणं दृष्टो महेन्द्रोऽयं न जाने क क्षणं गतः । क्षणं दृष्टं क्षणं नष्टं संसारे सर्वमेव ही ! ॥ १४१ ॥ प्रेमाणं कुर्महे कुत्र विद्वेषं कुर्महे क वा ? | भस्मावशेषीभावश्चेत् सर्वस्यापि विजृम्भते ॥ १४२ ॥ अतिप्रेमावगाढोऽपि परासुं प्रति किं सृजेत् ? । तावदेव हि सम्बन्धः प्राणा यावच्चकासति ॥ १४३ ॥ एकत्र कुट्यां मिलिता रात्रौ पान्थाः, प्रगे पुनः । स्वस्वमार्गेण गच्छन्ति भवरूपं तथैव हि ॥ १४४ ॥ वृथैव मूढा विषये प्रतिक्षणविभङ्गुरे । रज्यन्ति भवनैर्गुण्यमीक्षमाणा अपि स्फुटम् || १४५ || अवश्यमेते यातारो विषया नो तथाप्यमून् । जहाति जहतोऽप्येष कीदृशी निर्विवेकता ? ॥ १४६॥ स्वयमेव परित्यक्ता विषयाः शिवशर्मदाः । स्वातन्त्र्येण व्रजन्तस्तु दातारो दुःखमुच्चकैः ॥ १४७ ॥
Page #28
--------------------------------------------------------------------------
________________
( २५ )
एको धनी दरिद्रोऽन्यो विद्वानेको जडोऽपरः । स्वाम्येकः सेवकोऽन्यश्च कश्चित्क्षुत्क्षामकुक्षिकः ॥ १४८॥ इत्येवं तद्विजातीयमन्योन्यं भवकानने । पश्यन्तोऽपि न तद्धेतुं लोका लोकामहे जडाः || १४९|| शुभकर्मवशं सौख्यं विपरीताद् विपर्ययम् । अस्माभिः सम्यगालोच्याभ्युपेयं तदिदं ध्रुवम् ॥ १५० ॥ तन्निरुध्य द्विधा कर्म पूर्वकर्म निहत्य च । शेरते सुखमद्वैतं धन्या योगप्रभावतः ॥ १५१ ॥ अष्टषष्ट्यधिके चैकोनविंशतिशताब्दके । द्वादश्यां प्रथमाषाढधवलायां तिथौ पुनः ॥ १५२ ॥ प्रष्टवादनाकाले श्रीमहेन्द्रमुनीशितुः । शोभनं ध्यायतः पञ्चपरमेष्ठिनमस्क्रियाम् ॥१५३॥ पञ्चविंशतिवर्षायुः समापितवतः पुनः । वेगात प्रास्थिषत प्राणा लोचनाम्भोरुहाध्वना ॥१५४॥ ( त्रिभिर्विशेषकम् )
पुरेऽत्र च श्राद्धगणैः सुभक्तितः महोत्सवात् खिन्नमनस्कमादृतात् ।
स्मशानभूमावुपनीय तद्वपुः
सुसंस्कृतं केवलचन्दनाग्निना ॥ १५५ ॥
समाद्रियेते स्म च देववन्दनं
श्रीमङ्गल - न्यायमुनी सखेदकम् । सरागचारित्ररमानुभाविनः
Page #29
--------------------------------------------------------------------------
________________
( २६ )
खिद्यन्त्यहो ! सहिरहेऽपि साधवः ॥ १५६ ॥ ततो व्यतीत्य त्रिदिनीममू मुनी मुक्त्वा पुरं कर्णपुरं समागतौ । आग्रापुरं श्रीगुरुदर्शनोद्भवामोदौ पयोदमतिष्ठतामिह ॥ १५७ ॥
आशास्महे ऽन्तःकरणेन निर्भरं महानुभावः स मुनिर्महेश्वरः । अस्मत्परोक्षं परलोकमाश्रितः
प्रपद्यतां निर्मलसातसंततिम् ॥ १५८ ॥
अतः परं त्वन्मुखदर्शनं गतं कथाप्रसङ्गस्य कथा तु का भवेत् ? । संबन्ध एवैत् किमनल्पमुच्यते
विभीषणा हन्त ! भवस्य पद्धतिः ॥ १५९ ॥
अभ्यर्थनां कुर्म इमां महेश्वर !
स्वशक्तिलब्धे परलोकवैभवे ।
आकण्ठमनोऽपि कृपां विधाय नः
कदाचनानेष्यसि वर्त्मनि स्मृतेः ॥ १६० ॥
कृतिरेषा शास्त्रविशारदजैनाचार्यश्रीविजय धर्मसूरीश्वरचरणकमलमधुकरायमाणमुनिशिशुन्यायविजयस्य ।
Page #30
--------------------------------------------------------------------------
________________
अधावाबमुदिता अपना
१. प्रमाणनयतत्वालोकालङ्कारः-जैनन्यायदर्शनस्यापूर्वोऽयं
भवेशग्रन्या, को चास्य श्रीवादिदेवसरिः। मूल्यम् ०-८-० १२. हेमलिङ्गानुशासनम्-अवचूरिसहितम् । रिङ्गबोधकोऽयं
मनोहरो ग्रन्या । कर्ताऽस्य श्रीहेमचन्द्राचार्यः। ,,०-५-० ३. सिद्धहेमशब्दानुशासनम् लघुत्तिधातुपाठादिसहितम् । कोऽस्य श्रीहेमचन्द्राचार्यः।
३-०-० ४. गुर्वावली (द्वितीयाचिः) श्रीमुनिसुन्दरमरिविरचिता०-४-0 ५, रत्नाकरावतारिकायाः टिप्पणपञ्जिकासहितायाः परिच्छे
दयम्-प्रमाणनयतचालोकालझारस्य व्याख्यानरूपं रनप्रभाचायविरचितम्।
-०-० ६ सिद्धहमशब्दानुशासनम्-मूलमात्रम्। -4-0 - स्तोत्रसंग्रहस्य प्रथमोभागः । (द्वितीयादृचि) -६-.
८. मुद्रितकुमुदचन्द्रप्रकरणम्-श्रीधावकयशचन्द्रकृतम्,०-८-० ९ स्तोत्रसंग्रहस्य द्वितीयो भागः । (द्वितीयात्तिः)" १-०-० १०. क्रियारत्नसमुचयः-गुणरत्नमरिरचितः। ।२०-० ११, श्रीसिद्ध हेमशब्दानुशासनसूत्रपाठस्याकारादिक्रमेण
सूचीपत्रम्। १२. कविकल्पद्रुमः । कर्ता चास्य श्रीहर्षकुलगणिः।,, ०-४-० १३. सम्मतितकोख्यमकरणस्य प्रथमो विभागः, श्रीसिद्धसेन
दिवाकररचितः । श्रीराजगच्छीयाभयदेवसरिरचितया
तत्वबोधविधायिन्या व्याख्यया विभूषितः ।। ३-०-० १४. जगद्गुरुकाव्यम्-धीपासागरगणिविरचितम् । ०४-० १५. श्रीशालिभद्रचरितम्-टिप्पणसहित, श्रीधर्मकुमारसुधिया
विरचितम् । अपूर्वोऽयं कथाग्रन्थः, (पत्राकार), १-४-० १६. पर्वकथासंग्रहस्य प्रथमो विभागः, (पत्राकार, ०-४-० १७. पदर्शनसमुच्चय:-श्रीराजशेखरहरिविरचितः,, ०-४.० १८. शीलदूतम् श्रीचारित्रसुन्दरगाणिविनिर्मितम् ।, ०-४-० १९. निर्भयभीमव्यायोगः-श्रीरामचन्द्रमरिविरचितः, ०-४-०
Page #31
--------------------------------------------------------------------------
________________ 20. श्रीशान्तिनाथमहाकाव्यम्-श्रीमुनिभद्रशारिविरचितम 21. रत्नाकरावतारिका-धीरत्नमभाचार्यकृता- तृतीय छेदादारभ्याऽष्टमपरिच्छेदपर्यन्ता / 22, आगपरिच्छेदयस्य / 1000 मयमांबष्टमान्तस्य संपूर्णस्य / / 3-0-0 उपदेशतरङ्गिणी, (पत्राकारे) 3-0-0 न्यायार्थपञ्जूषा खोपजलघुग्याससहिता / / 3-00 23, गुरुगुणरत्नाकरकाव्यम्-अस्मिन् लालित्यमये खण्डका व्ये तपागच्छाचार्यश्रीलक्ष्मीसागरसूरीणां चरित्रमैतिहासिकदृष्ट्या सरसमुपवर्णितम् / कोऽस्य श्रीसोमचारित्रगणिः / -8-0 24. विजयमशस्तिमहाकाव्यम्, सटीकम्-आस्मिन् महाकाव्ये श्रीहीरविजयमूरि-श्रीविजयसेनसरि-श्रीविजयदेवशरीणां चरित्राणि सम्यगनिवर्णितानि नियोताऽस्य कविपुरन्दर श्रीहेमविजयगणिः। मूल्यम्-५-०-० 26. गद्यपाण्डवचरित्रम् श्रीदेवविजयगणिगुम्फितम् / एतच व्याख्यातॄणां विद्यार्थिनां च बहुपयोगि। 4-0-0 29. मल्लिनायचरित्रम्-श्रीविनयचन्द्रमाररचितम् / एतच्चाती वसरलम्, व्याख्यातॄणां पुनीनामुपयोगार्थ पत्राकारेणापि मुद्रितम् / 30. स्याहादपञ्जरी-श्रीमल्लिषेणमूरिविरचिता जैनन्यायप्रन्यो ऽयं जैनन्यायमध्यमपरीक्षायां समस्ति, (पत्राकारे) 1-0-0 32. पार्श्वनाथचरितम्-कालिकाचार्यसतानीयमावदेवमूरिविरचितम् ( पत्राकारेऽपि) 3-0-0 प्राप्तिस्थानम्शा. हर्षचन्द्र-भूराभाई. अंग्रेजीकोठी बनारस सिटी