________________
धीमन् ! तवाऽद्भुतनतिर्मनसो न याति
धीमन् ! तवाऽद्भुतमतिर्मनसो न याति । धीमन् ! त्वदीयमुदितं मनसो न याति
धीमन् ! त्वदीयगमनं मनसो न याति ॥२७॥ किं नाम कर्म परिसाधयितुं समीहसे यत्सत्त्वरं प्रगतवाननिवेद्य सुन्दर ! । अप्यस्मदा चरितुमिच्छसि गुप्तरूपतो यादृङ्मतिर्वद परञ्च कदा मिलिष्यसि ? ॥२८॥ स्पष्टं निवेदय महेन्द्र ! महानुभाव !
कुत्र प्रयाणमकृथाश्च किमर्थकं च । अन्वेषणाय सहसा गुणरत्नसिन्धो !
श्रीलस्य तत्रभवतः प्रयतामहे यत् ॥ २९ ॥ पूर्णः शशाङ्क उदितश्च तमोगृहीतो
जातस्तरुश्व फलदः करिणा च भग्नः । अभ्युन्नतश्च जलदः पवनाद् विकीर्णः
तीरं तरी गतवती च तटाद्रिभन्ना ॥ ३० ॥ निष्पन्नवद् व्रीहिवणं दवाग्निना
दग्धं हहा ! दैववशेन सत्वरम् । वैदुष्यचारित्रगुणैकसुन्दरीभूतो महेन्द्रो यमरक्षसा हतः॥ ३१ ॥
(युग्मम् ) नाऽस्मन्मनस्तिष्ठति सुस्थभावे
।