________________
तदर्पसर्पपरिपन्थिगुणप्रसाद बिभ्रत् कदा स परिपावयिता महेन्द्रः ॥ २१ ॥ सम्भावनामपि न कुर्म इमां कदाऽपि
यन्नाम तं मुनिवरं परिचिन्वतोऽत्र ।। संपश्यतोऽपि खलु दुर्जनदृष्टिरूपाद्
दोषो विलोचनपथेऽवततार तत्र ॥ २२ ॥ किं कुर्महे तनुमहे गमनं क वा वयं
कं वा भुवीह पुरुषेश्वरमाश्रयामहे । कस्याग्र आपदमिमा परिदर्शयामहे
प्राप्येत येन पुनरेष मुनिमहेश्वरः ? ॥ २३ ॥ भो भोः ! प्रदर्शयत तादृशमुच्चमन्त्रं
यज्जापतः सुमनसा सहसा नयामः । श्रीमन्महेश्वरमहोदयशारदेन्दुनीहारहारधवलाननमक्षिमार्गम् ॥ २४ ॥ तस्मिन् गते मुनिपतौ महनीयकी - वस्माकमाकलयतां विषयानुरागम् । साधूपदिश्य हृदयं गतगा_पत कुर्याच्चिरं रहसि को मधुरैर्वचोभिः ? ॥ २५ ॥ लोकेऽत्र किं स परिभावितवान् महेन्द्रो
नैर्गुण्यमाशु परिहाय यतो जगाम । अत्र प्रयाम्यहकमित्यपि यन्न चोचे कस्माद् गतोऽपि पुनरेष्यति वा नवाऽथ ? ॥२६॥