________________
( ११ ) स्निग्धौ कपोलफलको विमलौ च मांसलौ वाणी-श्रियोर्व मुकुरौ ददतुः परां मुदम् । ओष्ठौ च तस्य परिपाकिम-बिम्बसन्निभौ वक्रप्रभाजलनिधौ बभतुः प्रवालवत् ॥ ५७ ॥ लोला तदीया च यथार्थवस्तु
व्याकारदाक्षीं दधती दिदीपे। मन्ये प्रसर्पदशनांशुरज्जुनियन्त्रिता वाग्रमणैकदोला ॥ ५८ ॥ सदान्तरावर्तमनोज्ञरूपा
वास्कन्धदी? कुमरस्य तस्य । मुखप्रभावारिनिधिप्रतीरे
शुक्ती व कर्णौ परिदिद्युताते ॥ ५९ ॥ ध्रुवावभातां कुटिले च मेचके
लते व दृक्पुष्करिणीतटोद्भवे । नासाप्रदीपेन कृतेन वा श्रियोद्गीर्णा मुखे वेश्मनि कज्जलावलिः ॥ ६ ॥ वृत्तं विशालं शरदष्टमीसुधा
करानुकार्यस्य च भालमस्फुरत् । वृत्तः प्रसर्पत्किरणो विशेषकस्तद्भालदेवाध्वनि भानुवद् व्यभात् ॥ ६१ ॥ अधोमुखीभूतसदातपत्रसब्रह्मचारि प्रतिशिश्रियाणम् ।