________________
काश्यां पुरि श्रीयुतधर्मसूरिपादैः सहैति स्म विहत्य पद्भ्याम् ॥ ५१ ॥ सारखतं व्याकरणं पपाठा. ऽऽरम्भे ततोऽसौ लघुवृत्ति हैमम् । गीर्वाणवाणीनिपुणीबभूवान्
काव्यादिभिः कस्य मुदे स नाऽऽसीत् ॥ ? ५२ ॥ अथ क्रमादाप स यौवनश्रियं - नृलोचनद्वन्द्वचकोरचन्द्रिकाम् ! सुनिर्मलं कान्तितरङ्गि वर्तुलं बभौ तदास्यं रजनीकरः परः ॥ ५३ ॥ अहो ! अहोरात्रसमुन्नतोदयां
शङ्के समालोक्य तदाननश्रियम् । चमत्कृतश्चेतसि लोलुपस्तदाऽऽपाने विरञ्चिश्चतुराननोऽजनि ॥ ५४ ॥ दन्ता बभुः कुन्दसुमेन्दुसुन्दरा
द्युतां वितानैर्ननु रज्जुसन्निभैः । संसारकूपे निपतच्छरीरिणा
मुद्धारणायां किमहो ! समुन्मुखाः ॥ ५५ ॥ मुखे च लावण्यसरःसरोवरे
मीनौ व संरेजतुरस्य लोचने। आकर्णदीर्घ पुनरन्तलोहिते तथाऽन्तराकृष्णसिते समुज्ज्वले ॥ ५६ ॥