________________
( २५ )
एको धनी दरिद्रोऽन्यो विद्वानेको जडोऽपरः । स्वाम्येकः सेवकोऽन्यश्च कश्चित्क्षुत्क्षामकुक्षिकः ॥ १४८॥ इत्येवं तद्विजातीयमन्योन्यं भवकानने । पश्यन्तोऽपि न तद्धेतुं लोका लोकामहे जडाः || १४९|| शुभकर्मवशं सौख्यं विपरीताद् विपर्ययम् । अस्माभिः सम्यगालोच्याभ्युपेयं तदिदं ध्रुवम् ॥ १५० ॥ तन्निरुध्य द्विधा कर्म पूर्वकर्म निहत्य च । शेरते सुखमद्वैतं धन्या योगप्रभावतः ॥ १५१ ॥ अष्टषष्ट्यधिके चैकोनविंशतिशताब्दके । द्वादश्यां प्रथमाषाढधवलायां तिथौ पुनः ॥ १५२ ॥ प्रष्टवादनाकाले श्रीमहेन्द्रमुनीशितुः । शोभनं ध्यायतः पञ्चपरमेष्ठिनमस्क्रियाम् ॥१५३॥ पञ्चविंशतिवर्षायुः समापितवतः पुनः । वेगात प्रास्थिषत प्राणा लोचनाम्भोरुहाध्वना ॥१५४॥ ( त्रिभिर्विशेषकम् )
पुरेऽत्र च श्राद्धगणैः सुभक्तितः महोत्सवात् खिन्नमनस्कमादृतात् ।
स्मशानभूमावुपनीय तद्वपुः
सुसंस्कृतं केवलचन्दनाग्निना ॥ १५५ ॥
समाद्रियेते स्म च देववन्दनं
श्रीमङ्गल - न्यायमुनी सखेदकम् । सरागचारित्ररमानुभाविनः