SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( २४ ) प्रापत पथेऽथ द्वयवर्षजन्मना - Sऽविर्भूतया कुक्षिविपीडयाऽसकृत् । विपीड्यमानोऽपि महेन्द्रपण्डितो महामनाः कर्णपुरं कथञ्चन ॥ १३९ ॥ कालज्वरे तत्र समागतेऽथ महानुभावः स महेन्द्रसाधुः । दिनान्यही पञ्चदश ज्वराति भुक्त्वा प्रयाणं व्यदधात् परत्र ॥ १४० ॥ क्षणं दृष्टो महेन्द्रोऽयं न जाने क क्षणं गतः । क्षणं दृष्टं क्षणं नष्टं संसारे सर्वमेव ही ! ॥ १४१ ॥ प्रेमाणं कुर्महे कुत्र विद्वेषं कुर्महे क वा ? | भस्मावशेषीभावश्चेत् सर्वस्यापि विजृम्भते ॥ १४२ ॥ अतिप्रेमावगाढोऽपि परासुं प्रति किं सृजेत् ? । तावदेव हि सम्बन्धः प्राणा यावच्चकासति ॥ १४३ ॥ एकत्र कुट्यां मिलिता रात्रौ पान्थाः, प्रगे पुनः । स्वस्वमार्गेण गच्छन्ति भवरूपं तथैव हि ॥ १४४ ॥ वृथैव मूढा विषये प्रतिक्षणविभङ्गुरे । रज्यन्ति भवनैर्गुण्यमीक्षमाणा अपि स्फुटम् || १४५ || अवश्यमेते यातारो विषया नो तथाप्यमून् । जहाति जहतोऽप्येष कीदृशी निर्विवेकता ? ॥ १४६॥ स्वयमेव परित्यक्ता विषयाः शिवशर्मदाः । स्वातन्त्र्येण व्रजन्तस्तु दातारो दुःखमुच्चकैः ॥ १४७ ॥
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy