________________
( १५ ) त एव धन्या विषयामिषेभ्यः
प्रत्यागतं बुद्धिमतां यकेषाम् । सज्ज्ञानसदर्शनसद्यमात्मरत्नत्रितय्यामनुरागि चेतः ॥ ८१ ॥ भ्रातः ! प्रणीतेऽपि भृशं विषादे
जनः परासुन पुनः समेयात् । कथं वृथा तत्खलु मोहनीय
व्याधं समुत्तेजितमातनोषि ? ॥ ८२ ॥ निपुणोऽसि समर्थोऽसि शिक्षितोऽसि विवेक्यसि । मा विषीद महाभाग ! दुर्वारा भवितव्यता ॥ ८३ ॥
स्मर च सत्पद्येविपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाऽभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः
सतां केनोद्दिष्टं विषममसिधारा व्रतमिदम् ॥ ८४ ॥ उदेति सविता ताम्रस्ताम्र एवाऽस्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ८५ ॥ विवेकदीपं किल धैर्यपात्रे
देदीप्यमानं पुरतो विधाय । शोकान्धकारं जहि सत्त्वशालिन् !
स्फारं परिस्फारय पौरुषं स्वम् ॥ ८६ ॥ सद्बोधपीयूषकिरा गिरैवं