________________
( १४ )
किं सर्वसाधारण आगतेऽस्मिन् पित्रोर्विषण्णी कुरुषे मनः स्वम् ॥ ७५ ॥
?
सदा परिस्फूर्जति भूत्रयेऽपि दुर्वावसरे कृतान्ते । ततो विगूढः किमु कोऽपि दृष्टः श्रुतोऽथवा येन स वञ्चितः स्यात् ? || ७६ ||
जनिर्विकारः प्रकृतिश्च मृत्युः कस्तत्र शोकः प्रकृतौ विधेयः ? |
भिन्नेन मार्गेण समे समेता
यास्यन्ति भिन्नेन यथा तथैव ॥ ७७ ॥
संबन्धवान् कोऽत्र समस्ति तादृशः
खिन्नीभवामः खलु यद्वियोगतः । तथाविधं साधयिताऽपि कोऽत्र नः स्वार्थं च संबन्धितयोच्यतेऽङ्ग ! यः ॥ ७८ ॥
न वास्तवं कोऽपि ददाति कस्यचिद् न वास्तवं कोऽपि कुतोऽपि लाति च । विना प्रदानं ग्रहणं च वास्तवं
को नाम संबन्धितयाऽभिधीयते ? ॥ ७९ ॥ भवार्णवस्यैष किल स्वभावः स्थिरं न किञ्चित् शरदभ्रवत्खे | अभीप्सिताऽनिष्टवियोगयोगो
तार्तिपुत्रो भवकूप एषः ॥ ८० ॥