________________
( १६ )
प्रबोधनात् शान्तिपथाऽध्वगीसन् । संसारनैर्गुण्यमवेक्षमाणो नृसिंह ऐच्छत् शिवशर्ममार्गम् ॥ ८७ ॥
इतो मफालालमहानुभावः श्रीधर्मसूरीन्द्रनिदेशमाप्य | भावि प्रयाणं न पुनर्मदीय
-
मितीव मन्वान इयाय देशे ॥ ८८ ॥ यात्रामकुर्वन् विमलाऽचलस्या
प्रणीतपूर्वी प्रबलान्तरायात् । सम्मेतशैले प्रभुधर्मसूरि
पदारविन्दे पुनराजगाम ॥ ८९ ॥
ततः सहैभिः कलकत्तिकाया
मगाद् मफालालमहानुभावः । सत्सङ्गतो हि प्रभवत्प्रमोदं
सत्सङ्गभागेव पुमानवैति ॥ ९० ॥ तत्राऽथ पुर्या मुनिशेखराणां साधूपदेशाद् भवतो विरागाः । ये त्वरन्ते स्म महानुभावाः श्रामण्यसाम्राज्यरमामुपेतुम् ॥ ९१ ॥ ततो मफालालमहानुभावोऽप्येभिस्त्रिभिदीक्षितुमभ्यवाञ्छत् ।
निरन्तरायो हि विविक्तबुद्धि