________________
( १७ )
मज्जेत् कथं भोगपुरीषपुञ्जे ? ॥ ९२ ॥ ततो नृसिंहोऽपि तमन्वगच्छत् पुरैव संसारविरक्तचेताः ।
स एव बन्धुः स पुनर्वयस्यः श्रेयः पथेनाऽनुसरेद् निजं यः ॥ ९३ ॥ एवं च ते पञ्च महानुभावाः सुशिक्षिताचारुविवेकभाजः । अभूतपूर्वेण महोत्सवेन तत्रत्यभक्ताढ्यविनिर्मितेन ॥ ९४ ॥
त्रिषष्ठ्यभ्यधिके चैकोनविंशतिशताब्दके । चैत्राऽधवलपञ्चम्यां दीक्षामाददिरे मुदा ॥ ९५ ॥
( युग्मम् )
सिंहविजय - गुणविजयौ विद्याविजयो महेन्द्रविजयश्च ।
न्यायविजय इत्याख्याः
पञ्चाऽऽसंस्ते मुनीशितुः शिष्याः ॥ ९६ ॥ महेन्द्रविजयेत्येवं मुनिनाम्ना प्रसिद्धवान् । महेच्छः श्रीमफालालो रेमेऽथ शमसम्पदि ॥ ९७ ॥ नरसिंहः पुनर्न्यायविजयेत्यभिधां गतः । महेन्द्रविजयाभ्यर्णेऽग्रहीद् वैराग्यशिक्षणम् ॥ ९८ ॥
अथ श्रीकलिकातायां कृत्वा मासचतुष्टयम् । ततो विहारं विदधुः सशिष्या धर्मसूरयः ॥ ९९ ॥
३