________________
( २० )
प्रयोजनैजन्मविवृद्धिहेतुभिः ॥ ११२ ॥ प्राप्तो ध्रुवं मुक्तिविवाहमङ्गला
ऽऽलयो मयाल्पेतरपुण्यढौकितः। लोकेऽधुना शारदपूर्णचन्द्रमः
सहोदरं यन्मुखमेतदर्हतः ॥ ११३ ॥ तुभ्यं देव ! नमोऽर्हते भगवते विश्वत्रयीस्वामिने
सर्वज्ञाय जगद्धिताय पुरुषश्रेष्ठाय भूभानवे । लोकोद्योतकृतेऽभयं प्रददते स्याहादिने ब्रह्मणे
मुक्तायादिकराय तीर्थपतये कारुण्यपाथोधये ११४ निर्यामकाय परमाय भवाम्बुराशौ
रागादिरोगशमकर्मभिषग्वराय । संसारकूपनिपतज्जनरजवे च
तुभ्यं नमः परमपूरुषपुण्डरीक ! ॥ ११५ ॥ तुभ्यं नमोऽखिलविपत्तिनिकुञ्जदन्तिने
तुभ्यं नमो भुवनवाञ्छितकल्पभूरुहे । तुभ्यं नमः स्मरकरीन्द्रभिदामृगहिषे
तुभ्यं नमः पुरुषपुङ्गवगन्धहस्तिने ॥ ११६ ॥ नमोऽस्तु तुभ्यं पुरुषोत्तमाय वा स्वयम्भुवे वा परमेष्ठिनेऽथवा । अगम्यरूपाय विशुद्धयोगिनां
नमोऽस्तु तुभ्यं सुगताय शम्भवे ॥ ११७ ॥ पारं स्वयम्भूरमणाम्बुराशेः