SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ( १९ ) महामुनिः श्रीलमहेन्द्र पण्डितो - ऽपरिस्पृशन् लोकयशःपरिस्पृहाम् ॥ १०५ ॥ नम्रखभावः परिगृह्य तद्वचस्ताभ्यां प्रयाति स्म महेन्द्रपण्डितः । परोपकाराय सतां हि चेष्टितं को वा महेन्द्रं न सहायमीहते ? ॥ १०६ ॥ अष्टषष्ठ्यधिके चैकोनविंशतिशताब्दकेः । मृगशीर्षतृतीयायां धवलायां तिथौ पुनः ॥ १०७ ॥ मध्याह्नसमये चैकवादने मुनयस्त्रयः । काशीतो निर्गता आसन् व्यहार्षुश्चाग्रतः क्रमात् १०८ ( युग्मम् ) अथ तत्र पथप्राप्तं तीर्थ सम्मेतभूभृतम् । आरुह्यार्हन्महादेवान् प्रणेमुर्मुनयो मुदा ॥ १०९ ॥ अत्येक रभसः श्रीमहेन्द्रो मुनीश्वरः । पार्श्वनाथं जगन्नाथमुच्चकैरेत्रमस्तवीत् ॥११०॥ अद्य प्रभातं समभूत् सुमङ्गलं महोदयो वासर एष मे पुनः । सौभाग्यसिन्धुर्नियमादयं क्षणो जातोऽद्य कल्याणतरुः सुपल्लवः ॥ १११ ॥ अभूदहो ! कामगवी च सम्मुखा शशयालुः किल कल्पवल्लरी । किमेभिराप्तैरथवानुषङ्गिक
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy