SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ( ८ ) सम्यग्यशा इह च सांकलचन्द्रनामा श्रद्धागुणाऽमलमना विकसद्विवेकः । तत्स्थैर्जनै गरशेठ इति प्रणीतो न्यायाऽनुपालनपरो वणिगेक आसीत् ॥ ४० ॥ आसीदमुष्य शुचिशीलगुणा झवेरीत्याख्याङ्गना व्रततपोनियमानुरक्ता । कालक्रमेण तनयः परिजायते स्म कल्याणपात्रमनयोः सुकृतोदयेन ॥ ४१ ॥ खवर्गे मिलिते साधुदिवसे पितरावथ । सूनोनाम मफालाल इत्यस्थापयतां मुदा ॥४२॥ अथ क्रमाद् बालक एधमान श्चक्षुर्युगानन्दकरो बभूव । पित्रोः परं नापरपश्यतोऽपि नाऽऽनन्दयत्यम्बुधिमेव हीन्दुः ॥ ४३ ॥ नियुज्य भूमौ निजपाणियामलं पृष्ठं मृगारातिरिवोन्नमय्य च । कुर्वन् क्रमाभ्यां गमनं शनैः शनैर्मुखाब्जिनीतः प्रथयन् स्मिताम्बुजम् ॥ ४४ ॥ असौ किमीयं मुदितं न बालको मनश्चकारेन्दुविकासिभूधनः। सुकोमलस्तस्य च पाणिपल्लवः संस्पृष्टमात्रो मुदमार्पिपत् पराम् ॥ ४५ ॥
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy