________________
क्लिष्टे तपश्चरणवमनि सञ्चरिष्णुः । एवंविधोऽप्युपहतो न कषायचौरैः
स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ ५ ॥ क्रोधो हि योजनशतं किल दूरमासीत् तस्माच्छमैकसुहृदं परिषेवमाणात् । नो जातु नाम मनसा वचसाऽङ्गतश्चाऽवष्टम्भलेशमपि दर्शयिता बभूव ॥ ६ ॥ आक्रोशितोऽप्यतितरां कटुजल्पधारया
कुर्याद् रुषं तु कथमेष मुनिर्महेश्वरः । किन्तु प्रभूतपरितोषसुधाभिपूरितै
राक्रोशमानयत शान्तिपथे गवां गणैः ॥ ७ ॥ सत्यं समस्य पुरतः परिघोषयामः
शत्रुखभावपतितेऽपि हि नम्रतोच्चैः। एकः क्षमाश्रमणतां क्षमितागुणोऽस्य
श्रीलस्य तत्रभवतः प्रकटीचकार ॥ ८ ॥ दम्भस्य तु प्रणयने न कदाप्यमुष्य प्राप्तः प्रसङ्ग उपघातितसंयमस्य । खाध्यायमेव हि सदा विजने स्थलेऽसौ
धीमान् समाद्रियत बाह्यविरक्तचेताः ॥ ९ ॥ संबिभ्रतोऽस्य शरणं परितोषराजो
नित्यं विवेकसदलङकृतिमण्डितस्य । सम्यक्परिग्रहयमाऽऽत्मरमागृहीतौ