Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
Catalog link: https://jainqq.org/explore/022270/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ १७४ मागणास्थानसंकलि कायस्थितिप्रकरणम् ATION संशोधक-भार्गदर्शकआचार्यदेव-श्रीमद् विजयप्रेमसूरीश्वराणां शुभप्रेरणया, 'प्रयोता मूलगीधामा । সৗন সসসসীরীক্ষায়: मुनिराजधी कोरशेखरविजयः मुनिराजश्री गुणरत्नविजयः - प्रकाशिका :भारतीय-प्राच्य-तत्त्व-प्रकाशन-समितिः पिंडवाडा राजस्थाने] Page #2 -------------------------------------------------------------------------- ________________ १७४ मार्गणास्थानसंकलितं कायस्थितिप्रकरणम् _ संशोधक-भार्गदर्शकआचार्यदेव-श्रीमद् विजयप्रेमसूरीश्वराणां शुभप्रेरणया সয়না মুলমাখনা সনা সমসমালোয়া: मुनिराजश्री वीरशेखरविजयः मुनिराजश्री गुणरत्नविजयः -: प्रकाशिका :भारतीय-प्राच्य-तत्त्व-प्रकाशन-समितिः [[पडवाड़ा राजस्थान] मूल्यं २-०० yogeypregegory g ey Page #3 -------------------------------------------------------------------------- ________________ ॐ शुद्धिकरण पत्रांक पंक्त्यंक अशुद्धं १ २३ सागरोम २ २१ वृत्त कारा० २ २३ सारोपम ३ २० -यमवद्व ४ २३ तस्यां तु ४ २५ सहस्रणि सागरोपम वृत्तिकारा० सागरोपम भवदया. तस्यां सहस्राणि पत्रांक पंक्त्यंक अशुद्धं १३ १६ सम्बध १ भवति २२ १३ हत्य २२ १३ वपरान्ि २३ २९ नरपेक्ष २५ ९ पमप्रति २६ १६ श्च्युत्वा ३१ ४ वहिता ३१ ५ कम्मलात ३२ २५ निखेक्खा ३८ १८ मत्या० ५ मव्योः ४२ १६ परिणम्य (६४१ १० सम्बन्ध भवन्ति रुत्पद्य परावर्त्तान नरापेक्ष यमप्रति घ्युत्वा विहिता ०लम्मात् निरवेक्खा मत्य० भब्ययोः परिणमय्य १. विशोधयि ५ १२ विशोधियि९ ४ कायकाय १० ९ 'महार० १० २६ परिणम्य १२ २१ तद्दवीनां तु काय 'भाहार परिणमय्य तद्देवीनां - विमस्त सबनमत सजनजतिशास - -- Page #4 -------------------------------------------------------------------------- ________________ कायस्थितिप्रकरणम् प्रणम्य जिनं पार्श्वेशं, पार्श्ववक्षसेवितम् । ध्यात्वा श्रीप्रेमसूरीशं, कायस्थितिं विवर्णये ॥ १ ॥ इह खलु दुरन्त संसारकाननमुल्लङ्घयितुकामानां भव्यानां संबोधाय नरकगत्यादिचतुःसप्तत्युत्तरशतमार्गणानां कार्यस्थितिं प्राह काठ कोसा णिरयसुराणं विभंगणाणस्स । किण्हसुइलखइयाणं तेत्तीसा सागरा णेया ॥१॥ (प्रे०) 'कायटिई' इत्यादि, 'काय स्थितिः' काय इह पर्यायः परिगृह्यते, काय इव काय इत्युपमानात् । स च द्विविधः, सामान्यरूपो विशेषरूपश्चेति तत्र सामान्यरूपो निर्विशेषणो जीवस्वलक्षणः, विशेषरूपस्तु नैरयिकत्वादिलक्षणः । तस्य स्थितिः = अवस्थानं कार्यस्थितिः । सामान्यरूपेण विशेषरूपेण वा पर्यायेणाऽऽदिष्टस्य जीवस्य याऽव्यवच्छेदेन वृत्तिः, सा कायस्थितिरित्यर्थः, यथा जीवत्वरूपेण सामान्यपर्यायेण नैरयिकत्वकृष्णलेश्यादिरूपविशेषपर्यायेण वाऽऽदिष्टस्य जीवस्य याऽव्यवच्छेदेन वृत्तिः सर्वाद्वालक्षणा त्रयस्त्रिंशत्सागरोपमादिरूपा च सा कार्यस्थितिः, यतो जीवो न कदाचिदपि जीवत्व पर्यायं जहाति, मुक्तावस्थायामपि ज्ञानादिभावप्राणसद्भावेन जीवत्वोपपत्तेः । नैरयिकत्वकृष्णादिलेश्यापर्यायं तु त्रयस्त्रिंशत्सागरोपमादिप्रमाणकालमनुभूय जहाति । सा च कार्यस्थितिर्द्विधा जघन्योत्कृष्टभेदात् । तत्र नैरथिकत्वादिपर्यायाऽऽदिष्टस्य जीवस्या व्यवच्छेदेनोत्कृष्टतस्तत्तत्पर्यायेणऽवस्थानम् उत्कृष्टा कायस्थितिः, नैरयिकत्वादिपर्यायाssदिष्टस्य जीवस्या - Soयवच्छेदेन जघन्यतस्तत्तत्पर्यायेणाऽवस्थानं जघन्यकायस्थितिः । इहादौ तावदेकजीवमाश्रित्योत्कृष्टकायस्थितिं निरूपयितुकामो नरकगत्यादिमार्गणाः संगृह्य प्राह - 'उक्कोस्सा' इत्यादि, उत्कृष्टा 'सुरनिरयोः ' सुरस्य = देवगतेः, निरयस्य = नरकगतेश्च 'विभङ्गज्ञानस्य' विभङ्गज्ञानमार्गणायाः 'कृष्णशुक्लक्षायिकाणां ' कृष्णलेश्या - शुक्ललेश्या - क्षायिकसम्यक्त्वलक्षणानां मार्गणानां सर्वसंख्यया षण्णां मार्गणानां 'त्रयस्त्रिंशत् ' त्रयस्त्रिंशत्संख्याकाः 'सागराः ' महच्चसाम्यात् सागरोपमाः 'ज्ञेया' बोद्धव्या । इयमत्र भावना - नारकास्तथास्वाभाव्यात् स्वकीयभवाच्च्युत्वा तदनन्तरं न पुननरकवेन समुत्पद्यन्ते तस्मात् कारणात् सप्तमपृथिवीनारकाणां चोत्कृष्टायुष्कस्य त्रयस्त्रिंशत्सागरोममात्रत्वादुत्कृष्टकाय स्थितिरपि तावन्मात्र्येव भवति, उक्तं चाssर्यश्यामपादैः प्रज्ञापनासूत्रे - "नेरइए णं भंते । नेरइए त्ति कालओ केचिचरं होइ ? गोयमा ! जहन्नेणं दसवाससहस्साइं उक्को सेणं तेत्तीसं सागरोवमाई ।” इति । एवमेकजीवमाश्रित्य देवगतेरपि त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टकायस्थितिर्निश्चेतव्या, देवभवतश्च्युस्वाऽनन्तरभवे देवत्वेनानुत्पादाद् अनुत्तरसुरस्य चोत्कृष्टत स्त्रयस्त्रिंशत्सागरोपमस्थितिकायुष्कत्वात् । कृष्णलेश्या -शुक्ललेश्ययोरुत्कृष्ट काय स्थितिर्यथासंख्यं नारकत्रिदशौ समाश्रित्य सामान्येन त्रयस्त्रिशत्सागरोपमाणि, विशेषतः पुनरन्तर्मुहूर्ताभ्याधिकानि, प्रज्ञापनादिसूत्रेषु तथोक्तत्वात्, तथा चात्र Page #5 -------------------------------------------------------------------------- ________________ कायस्थितिप्रकरणम् [विभङ्गज्ञानस्योत्कृष्टकायस्थितिः श्रीप्रज्ञापनासूत्रम्-"कण्हलेसे णं भंते । कण्हलेसे त्ति कालतो केवचिरं होइ ? गो ? जह० अंतो० उक्को० तेत्तीसं सागरोवमाइं अंतोमुहूत्तमब्भहियाई । xxx सुक्कलेसे णं पुच्छा०, गो० । जह० अंतो०, उक्को० तेत्तीसं सागरोवमाइंअंतोमुहूत्तमब्भहियाइं।" इति । भावना त्वित्थं कार्या-कश्चिद् मनुष्यस्तिर्यड् वाऽन्तमुहृतं कृष्णलेश्यया परिणतो जीवः सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिकनारकत्वेनोत्पन्नः, स स्वायुः परिपाल्य नारकस्तियक्षत्पद्यते, तत्र प्रथमाऽन्तर्मुहूर्त कृष्णलेश्याकत्वेन तिष्ठति । ततो लेश्यान्तरं लभते । इत्थं पूर्वोत्तरभवगतमन्तमुहर्तद्वयं नारकाणां चाऽवस्थितलेश्याकत्वाद् नारकभवस्य त्रयस्त्रिंशत्सागरोपमाणि, अन्तर्मुहूर्तकालस्य त्वसंख्येयभेदभिन्नत्वेनाऽन्तमुहूर्तद्वयस्याऽप्यन्तर्मुहूर्तत्वाद् अन्तर्मुहूर्ताभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि कृष्णलेश्याया उत्कृष्टकायस्थितिः। शुक्ललेश्याया उत्कृष्टकायस्थितिरन्तमुहूर्ताभ्यधिकत्रयस्त्रिंशत्सागरोपमाण्यनुत्तरसुरमाश्रित्य भावनीया, अनुत्तरसुराणां शुक्ललेश्याकत्वात् तेषां चोत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमस्थितिकत्वात् । विभङ्गज्ञानस्योत्कृष्टकायस्थिति.रयिकाणामुत्कृष्टभवस्थितिप्राधान्येन त्रयस्त्रिंशत्सागरोपमाणि भणिता,किन्तु तत्तन्मतानुसारेण यथागमं विबुधजनहींनाऽधिका परिभावनीया । तथाहि-प्रज्ञापनासूत्रकारमतेन देशोनपूर्वकोटिवर्षाधिकत्रयस्त्रिंशत्सागरोपमाणि विभङ्गज्ञानस्योकृत्ष्टकास्थितिः । अक्षराणि त्वेवम्-"विभंगणाणी णं भंते । पुच्छा, गो । जहण्णेणं एगं समयं उक्कोसेणं तेत्तीसं सागरो. वमाई देसूणाते पुवकोडीते भब्भहिताइ ॥” इति । भावना वित्थं कार्या-कश्चिन्मिथ्यादृष्टिर्मनुष्यस्तिर्यङ्वा पूर्वकोटयायुष्कः कतिपयवर्षातिक्रमे विभङ्गज्ञानी बायते, जातश्चा-ऽप्रतिपतितविभङ्गज्ञान एवाऽविग्रहगत्या सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिकनैरयिकत्वेनोत्पद्यते, तदा भवति यथोक्तमुत्कृष्टं मानम् । तत ऊवं तु सम्यक्त्वलाभेना-ऽवधिज्ञानोत्पत्तितः सर्वथा वाऽपगमात् तद्विभङ्गज्ञानं व्यवच्छिद्यते।। इदमत्राऽवधेयम- प्रज्ञापनाव सकाराभिप्रायेणा-ऽप्रतिपतितविभङ्गज्ञाना जीवा मनुष्यतिर्यश्चः सप्तमपृथविनारकेषु संजायन्ते , नारकाः पुनस्तिर्यसूत्पद्यन्त इति । नन्वे तर्हि विभङ्गज्ञानस्य कायस्थितिः किश्चिन्यूनपूर्वकोटिद्वयाधिकत्रयस्त्रिंशत्सारोपमप्रमाणा स्यात् ? इति चेत्, न, देशोनपूर्वकोटथधिकत्रयस्त्रिंशत्सागरोपमत ऊर्ध्वमवश्यं सम्यक्त्वप्राप्त्या सर्वथा वाऽपगमेन विभङ्गज्ञानाभावात् । व्याख्याप्रज्ञप्तिसूत्राऽभिप्रायेण तु स्वभवपरित्यागकाले नारको विभङ्गज्ञानं जहाति। कथमेतदवसीयते ? इति चेत् , उच्यते-विभङ्गज्ञानी नारको नोद्वर्ततेन परिच्यवते, यदुक्तं व्याख्याप्रज्ञप्तौ-"विभंगनाणी ण उववटुंति ।" इति । किश्च पञ्चसंग्रहादिकारैर्विभङ्गज्ञान औदारिकमिश्रकाययोगो निषिद्धः, यदुक्तं पञ्चसंग्रहे Page #6 -------------------------------------------------------------------------- ________________ क्षायिकसम्यक्त्वस्योत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम "मणनाणविभंगेसु मीसं उरलं पि नारयसुरेसु । केवलथावरविगले वेउठियदुर्ग न संभवइ ॥१॥” इति । तेन नरकत उत्पद्यमानानां जीवानां मनुष्यतिरश्चां विभङ्गज्ञानं न भवतीति सिद्धयति ।। अन्ये पुनराहुः-अप्रतिपतितविभङ्गज्ञानो जीवो नरकतोऽन्यत्राऽन्यतो वा नरके न समुत्पद्यत इति । कथमेतदवसीयते ? इति चेत् , उच्यते-पञ्चसंग्रहमूलटोकाकारेण कार्मणकाययोगं विवर्णयता विभङ्गज्ञाने कार्मणकाययोगः प्रतिषिद्धः, तत्र हेतुस्तु विभङ्गज्ञानस्य तद्भविकत्वमिन्यु. पन्यस्तः । तथा च तद्ग्रन्थ:-xxxxचक्षुर्दर्शन-मनःपर्यायज्ञान-विभङ्गाहारकद्वारेषु न भवति, कथं ? विग्रहगतौ कार्म-गशरीरसद्भावात् तत्र चक्षुर्दर्शनाभागत् । यद्यपि लब्धिमङ्गीकृत्य तद्विद्यते, तथापि न तदाद्रियते यतो लळ्यपर्याप्रकानामुग्योगवयमेवोतम । मनःपर्यायज्ञानं तु सुमाधुषु भवति, तत्र तस्याऽसद्भाव एक, विभङ्गस्य तु तद्भविकत्वात् आदारककार्मणयोर्विरोधात् कार्मणशरीरं न भवति।" इति । - किश्च पञ्चसंग्रहमूलकारणोऽपि विभङ्गज्ञान एक एव पर्याप्तजीवभेदो दर्शितः । तथा च तदग्रन्थ:-"एक मणनाणकेवलं विभङ्गो" इति । तदेवं सिद्धयति-अपर्याप्ता-ऽवस्थायां मनःपर्यायकेवलज्ञानवद् विभङ्गज्ञानमपि न भवतीति । ततश्च सप्तमनरकपृथिव्यामपर्याप्ता-ऽवस्थाप्रथमा ऽन्तमहतं व्यतिक्रम्य जीवो विभङ्गज्ञानी भवति, स च विभङ्गज्ञानमाभवं परिपालयति । इत्थमन्तमुहूतैन्यूनत्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टकायस्थितिरन्येषां मतेन संभवति, नारकतदितरलक्षणभवद्वयस्थाऽपर्याप्तावस्थायां विभङ्गज्ञानाभावात् । यत्पुनः पञ्चसंग्रहमूलवृत्तिकृता उपयोगद्वारेऽ. नाहारकमिथ्यादृष्टेभिङ्गज्ञानं दर्शितम् , तथा तद्ग्रन्थ 'अनाहारकस्य मिथ्यादृषेश्चत्वारस्त्रयः प्रागवत् , विभङ्गः कालमौकर्यस्येव ।" इति । विभङ्गज्ञाने च कामणकाययोगो निषिद्धो योगद्वारे । तत्कि वृत्ति कृता मतद्वयसंग्रहार्थ द्वारान्तरे भिन्नमुक्तम् , उताऽभिप्रायान्तरेण, तचं केवलिनो बहुश्रुता वा विदन्ति । क्षायिकसम्यक्त्वस्योत्कृष्टकायस्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणि किश्चिन्यूनमनुष्या-यभवत धिकानि द्रष्टव्या । भावना वित्थम्-कश्चित् चतुर्विंशतिमोहनीयसत्कर्मा सम्यग्दृष्टिर्मनुष्यः क्षायिकसम्यक्त्वं लब्धवान् , ततः संघमं प्रतिपद्य क्रमेण च स्वायुः परिपाल्या-ऽनुत्तरेषूलद्यते, ततोऽनुत्तरदेवतो मनुष्यत्वेन समुत्पद्यते । मनुष्यभवे स्वक्षपकणिप्रतिपत्तियोग्यजघन्यकालमात्र आयुष्के शेष क्षपकणिं प्रतिपद्यते, प्रतिपन्नश्च क्रमेण सयोगिकेवलिगुणस्थानकं प्राप्याऽयोगिकेवलिगुणस्थानकं लभते । तदेवं किश्चिन्यूनमनुष्यभवद्वयेनाधिकानि त्रयस्त्रिंशत्सागरोपमाणि कायस्थितिलभ्यते नन्वयोगिकेवलिगुणस्थानकप्राप्तौ सत्यामप्ययोगिकेवलिनां सिद्धानां च क्षायिकसम्यक्त्वस्याऽविनाशात् क्षायिकसम्यकत्वमार्गणाया उत्कृष्टकायस्थितिः साधनन्तकालो लभ्यत इति, तत्कथं सातिरेकत्रयस्त्रिंशत्सागरोपमकाल उच्यते ? इति चेत् , भण्यते, मा त्वरिष्ठाः, इयं कायस्थितिः प्रकृतिबन्धमाश्रित्य प्रोक्ता, प्रकृतिबन्धश्च सयोगिकालिगुणस्थानकाज़ न भवति । अअन्धकमाश्रित्य Page #7 -------------------------------------------------------------------------- ________________ ४] कायस्थितिप्रकरणम् [प्रथमादिनरकाणामुत्कृष्टकायस्थितिः त्वग्रे वक्ष्यते “साइअपज्जवसाणा" इत्यादिना । एवमन्यत्रापि यथास्थानं प्रकृतिबन्धमाश्रित्य बोधनीया मार्गणानां कायस्थितिः ॥१॥ सम्प्रति नरकगतेरवान्तरभेदानामेकजीवाश्रितामुत्कृष्टकायस्थितिं वक्तुकाम आहपढमाइगनिरयाणं कमसो एगो य तिण्णि सत्त दस। सत्तरह य बावीसा तेत्तीसा सागरा णेया ॥२॥ (०) 'पढमाइ.' इत्यादि, 'प्रथमादिनिरयाणां प्रथम आदौ येषाम् , ते प्रथमादिकाः, ते च ते निरयाश्च प्रथमादिकनिरयाः,, तेशाम्, रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा-धूमप्रभातमःप्रभा-महातमःप्रभागतानां सप्तानां निरयभेदानामित्यर्थः, 'क्रमश:' क्रमेण एकः; चकारः पादपूत्य, एवमग्रेऽपि, त्रयः, सप्त दश सप्तदश द्वाविंशतिस्त्रयस्त्रिंशत् ‘सागराः' पदैकदेशे पदसमुदायोपचारात् सागरोपमाः, 'ज्ञेया" प्रस्तुतत्वाद् एकजीवाश्रयोत्कृष्टा कायस्थितिर्बोध्या । इदमुक्तं भवति-प्रथमपृथिवीनरकस्यैकजीवविषयोत्कृष्टकायस्थितिरेकः सागरोपमः, "अर्थवशाद् वचनविपरिणामः" इति न्यायेन बहुवचनान्तसागरोपमशब्दस्यैकवचनान्तत्वेन विपरिणामः, द्वितीयपृथिवीनरकस्य त्रिसागरोपमाः, तृतीयपृथिवीनरकस्य सप्तसागरोपमा, चतुर्थपृथिवीनरकस्य दशसागरोपमाः, पञ्चमथिवीनरकस्य सप्तदश सागरोपमाः, षष्ठपृथ्वीनरकस्य द्वाविंशतिः सागरोपमाः, सप्तमपृथिवीनरकस्य च त्रयस्त्रिंशत्सागरोपमाः, यतो नारकाणां तद्भवतश्च्युत्वा-ऽनन्तरभवे नारकत्वेना-ऽनुत्पादादुत्कृष्ट भवस्थितिरेवोत्कृष्ट कायस्थितिर्भवति । उत्कृष्टभवस्थितिश्च रत्नप्रभादिषु जीवानां वाचकमुख्यैस्तत्त्वार्थसूत्रे यथोक्तप्रमाणैवा-ऽभिहिता । तथा च तद्ग्रन्या-"तेष्वेक-त्रि-सप्त-दशसप्तदश-द्वाविंशति त्रयस्त्रिंशत्मागरोपमाः सत्त्वानां परा स्थितिः।" इति । अत्र 'तेषु'-रत्नप्रभादिनरकेषु । इयं तूत्कृष्टकायस्थितिरेकजीवाश्रिता सामान्यत उक्ता। विशेषतः पुनस्तत्तत्पृथिवीप्रस्तटेषु भिन्ना भिन्ना नारकाणामुत्कृष्टकायस्थितिर्भवति, उत्कृष्टभवस्थितेस्तथात्वाद् नारकाणां च भवस्थितेरेव कायस्थितित्वात् । एतदुक्तं भवति-प्रथमपृथिव्यां त्रयोदश (१३) नरकप्रस्तटाः। द्वितीयस्यां पृथि. व्यामेकादश (११), तृतीयस्यां नव (७)। ततो द्वाभ्यां द्वाभ्यां हीनास्तावद् वक्तव्याः, यावत् सप्तमी नरकपृथिवी । तस्यां तु त्वेक एवं प्रस्तटः । उक्तं श्रीजिनभद्रगणिक्षमाश्रमणैः"तेरिकारस नव सत्त पंच तिन व हुंति इको य । पत्थडसंखा एसा, सत्तसु वि कमेण पुढवीसु ॥१॥” इति तत्र प्रथमपृथिव्या रत्नप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टकायस्थितिर्नवतिवर्षसहस्रणि (९०,०००)द्वितीयप्रस्तटे वर्षाणां नवतिलक्षाः, (९००००००)तृतीये क प्रस्तटे पूर्वकोटिवर्षाणाम् ॐ धवलाकारास्तु प्राहुर संख्येयपूर्वकोटीप्रमाणामुत्कृष्टकायस्थितिं प्रथमनरकतृतीयप्रस्तटे। अक्षराणि त्वेवम्-"तदियपत्थडे xxxx उक्कोस्समसंखेज्जाओ पुन्यकोडीओ।" इति । Page #8 -------------------------------------------------------------------------- ________________ प्रतिप्रस्तटं रत्नप्रभाशर्कराप्रभानारकाणां स्थितिः ] काय स्थितिप्रकरणम् [ ५ चतुर्थे प्रस्तट एकः सागरोपमस्य दशभागः (११) पञ्चमे प्रस्तटे द्वौ सागरोपमस्य दशभागौ (२ ४ १ सा.) षष्ठे प्रस्तटे त्रयः सागरोपमस्य दशभागा: ( १ सा.) सप्तमे प्रस्तटे चत्वारः सागरोपमस्य दशभागाः (१) अष्टमे प्रस्तटे पञ्च सागरोपमस्य दशभागाः (४ X ' सा.) नवमे प्रस्तटे षट् सागरोपमस्य दशभागा: ( *. १ सा.) दशमे प्रस्तटे सप्त सागरोपमस्य दशभागाः (X 'सा.) एकादशे प्रस्तटेष्ट सागरोपमस्य दशभागाः, (१) द्वादशे प्रस्तटे नव सागरोपमस्य दशभागाः (* 'सा), त्रयोदशे प्रस्तट एकं सागरोपमं भवति, यतो नारकाणां पुनरनन्तरभवे नारकत्वेनाऽनुत्पादादुत्कृष्टभवस्थितिरेवोत्कृष्टकाय स्थितिर्भवति, तत्तप्रस्तरस्थानां च नारकाणामुत्कृष्टभवस्थितिश्च यथोक्तप्रमाणा, यदुक्तं श्रीमज्जिन भद्रगणिक्षमाश्रमणपादैवृहत्संग्रहण्याम् "दस नउई य सहस्सा, पढमे पयरम्मि ठिइ जहन्नियरा । सा सयगुणिआ बिइए, तइयम्मिः पुणो इमा होइ ॥ १॥ नई लक्ख जना, उक्कोसा पुव्वकोडि निद्दिट्ठा | आईल्लपुत्रकोडी दसभागो सावरस्थियरा ||२|| दसभागो पंचमए दो दसभागा य होइ उक्कोसा। एगुत्तरवुड्ढीए दसेव भागा भवे जाव ||३||" इति । द्वितीयादिनरकपृथिवीषु पुनः पूर्वपृथिवोगतोत्कृष्टस्थितिः स्वोत्कृष्टस्थितितो विशोधियितव्या । विशोधने च कृते यदवशिष्यते, तत् स्वप्रस्तटैर्विभज्यते, तदा यद् लभ्यते, तदिष्टप्रस्तटमानेन गुण्यते, गुणिते च सति यदागच्छति, तेन सहिता पूर्वपृथिवीगतोत्कृष्ट स्थितिस्तत्प्रस्तट उत्कृष्टा स्थितिर्भवति । यथा शर्कराप्रभायामुत्कृष्टस्थितिस्त्रीणि सागरोपमाणि, तेभ्यो रत्नप्रभोत्कृष्टस्थितिरेकसागरोपमप्रमिता विशोध्यते । तदा द्वे सागरोपमे अवशिष्येते । ते च शर्करा प्रभागतैरेकादशप्रस्तटैर्विभज्येते, तदा लभ्येतां द्वौ सागरोपमस्यैकादशभागौ (३६), तौ चेष्टप्रस्तटमानेनैकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावेव द्वौ सागरोपमस्यैकादशभागौ जातौ, ताभ्यां च सहिता पूर्व - पृथिवीलक्षणरत्नप्रभागतोत्कृष्टस्थितिः शर्कराप्रभायाः प्रथमे प्रस्तट उत्कृष्ट स्थितिरेकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ । यदि पुनर्द्वितीयप्रस्तट उत्कृष्ट स्थितिर्ज्ञातुमिष्यते, तर्हि तौ द्वौ सागरोपमस्यैकादशभागौ द्वाभ्यां गुण्येते, जाताश्चत्वारः सागरोपमस्यैकादशभागाः, तैर्युक्ता रत्नप्रभा - पृथिव्युत्कृष्ट स्थितिः शर्कराप्रभाया द्वितीयप्रस्तट उत्कृष्ट स्थितिश्चतुर्भिः सागरोपमस्यैकादश भागेरधिकमेकसागरोपमं भवति । एवमग्रेऽपि भावनीयम् । अनेन करणेन शेषपृथिवीनां प्रस्तटेषूत्कृष्टस्थितिर्निश्वेतव्या । तथाहि - शर्कराप्रभायाः प्रथमप्रस्तट उत्कृष्टा स्थितिरेकजीवाश्रिता एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ (१२५), द्वितीय प्रस्तटे चतुर्भिः सागरोपमस्यैकादशभागैरधिकमेकं सागरोपमम् (१६१), तृतीय एकं सागरोपमं षट्सागरोपमस्यैकादशभागा : (११६), चतुर्थ एकं सागरोपममष्टौ च सागरोपमस्यैकादशभागाः (१६), पञ्चम एकं सागरोपमं दश च सागरोपमस्यैकादशभागाः (१११ ), षष्ठ एकेन सागरोपमस्यैकादशभागेनाऽधिके द्वे सागरोपमे (२१), सप्तमे त्रिभिः सागरोपमस्यैकादशभागैरधिके द्वे सागरोपमे (२११), अष्टमे पञ्चभिः Page #9 -------------------------------------------------------------------------- ________________ कायस्थितिप्रकरणम् । प्रतिप्रस्तट वालुकाप्रभादिनारकाणामुत्कृष्टस्थितिः सागरोपमस्यैकादशभागैरधिके द्वे (२११) सागरोपमे. नवमे सप्तभिः सागरोपमस्यैकादशभागैरधिके द्वे (२१) सागरोपमे, दशमे नवभिः सागरोपमस्यैकादशभागैयुक्त द्वे (२६) सागरोपमे, एकादशे च प्रस्तटे त्रीणि (३) सागरोपमाणि परिपूर्णानि । वालुकाप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि चत्वारश्च सागरोपमस्य नवभागाः (३) , द्वितीयप्रस्तटे त्रीणि सागरोपमाण्यष्टौ च सागरोपमस्य नव. भागाः (३), तृतीये प्रस्तटे चत्वारि सागरोपमाणि त्रयश्च सागरोपमस्य नवभागाः (४) चतुर्थे सप्तभिः सागरोपमस्य नवभागैरधिकानि चत्वारि (४) सागरोपमाणि, पञ्चमे द्वाभ्यां सागरोपमस्य नवभागाभ्यामधिकानि पञ्च (५१) सागरोपमाणि, पष्ठे प्रस्तटे पड्भिः सागरोपमस्य नवभागयुक्तानि पञ्च (५१) सागरोपमाणि, सप्तमे प्रस्तट एकेन सागरोपमस्य नवभागेन युतानि षट् (६१) सागरोपमाणि, अष्टमे पञ्चभिः सागरोपमस्य नवभागैर्युक्तानि षट् सागरोपमाणि (६५) नवमे प्रस्तटे सप्त सागरोपमाणि (७) परिपूर्णानि । .. चतुर्थपृथिव्याः पङ्कप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टस्थितिस्त्रिभिः सागरोपमस्य सप्तभागैरधिकानि सप्त (७१) सागरोपमाणि, द्वितीयप्रस्तटे षड्भिः सागरोपमस्य सप्तभागैरभ्यधिकानि सप्त (७१) सागरोपमाणि, तृतीयप्रस्तटे द्वाभ्यां सागरोपमस्य सप्तभागाभ्यामधिकान्यष्टौ (८३) सागरोपमाणि, चतुर्थप्रस्तटे पश्चभिः सागरोपमस्य सप्तभागैरधिकान्यष्ट (८१) सागरोपमाणि, पञ्चमे प्रस्तट एकेन सागरोपमस्य सप्तभागेना-ऽधिकानि नव (९१) सागरोपमाणि, षष्ठे प्रस्तटे चतुर्भिः सागरोपमस्य सप्तभागैरधिकानि नव (४ सागरोपमाणि, सप्तमे प्रस्तटे परिपूर्णानि दश (१०) सागरोपमाणि। धूमप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टा स्थितिाभ्यां सागरोपमस्य पञ्चभागाभ्यामधिकान्येकादश (११३) सागरोपमाणि, द्वितीयप्रस्तटे चतुर्भिः सागरोपमस्य पञ्चभागैरधिकानि द्वादश (१२५) सागरोपमाणि, तृतीयप्रस्तट एकेन सागरोपमस्य पश्चभागेन युक्तानि चतुर्दश (१४१) सागरोपमाणि, चतुर्थे प्रस्तटे त्रिभिः सागरोपमस्य पञ्चभागैरधिकानि पञ्चदश (१५३) सागरोपमाणि, पञ्चमप्रस्तटे सप्तदश (१७) सागरोपमाणि परिपूर्णानि । षष्ठपृथिव्यास्तमःप्रभाया प्रथमप्रस्तटे द्वाभ्यां सागरोपमस्य त्रिभागाभ्यामधिकान्यष्टादश (१८३) सागरोपमाणि, द्वितीयप्रस्तट एकेन सागरोपमस्य त्रिभागेनाधिकानि विंशतिः (२०१) सागरोपमाणि, तृतीयप्रस्तटे द्वाविंशतिः सागरोपमाणि (२२) परिपूर्णानि । __सप्तमपृथिव्या महातमःप्रभायामेक एव प्रस्तटः । तत्रोत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि (३३) भवति । नारकाणां चाऽनन्तरभवे नारकत्वेनोत्पत्तेरयोगादुत्कृष्टकायस्थितिरपि यथोक्तप्रमाणैव । तदेवं प्रसङ्गो नरकगतेः प्रस्तटेषत्कृष्टकायस्थितिर्व्याख्याता, तद्वयाख्याने च समाते नरकगतेरुत्कृष्टकायस्थितेव्याख्यानं परिसमा भवति ।।२।। Page #10 -------------------------------------------------------------------------- ________________ तिर्यग्गत्यादीनामुत्कृष्टकायस्थितिः ] काय स्थितिप्रकरणम् सम्प्रति तिर्यग्गतेरेकजीवाश्रयां कार्यस्थितिं प्ररूपयितुकामो वक्तव्यतासाम्यादेकेन्द्रियादि मार्गणा अपि संगृह्य प्राह या उ असंखेज्जा परियट्टा पुग्गलाण तिरियस्स । एगिंदियहरिआणं कायणपुं सगअसण्णीणं ॥३॥ [ ७ (प्रे०) 'या' इत्यादि, 'ज्ञेया' एकजीवाश्रितोत्कृष्ट कार्यस्थितिर्बोध्या, किती ? इत्याह- 'असं खेज्या' इत्यादि, ‘असंख्येयाः’ असंख्याताः 'परावर्ताः पुद्गलानां' पुद्गलपरावर्ताः 'तिरथः ' तिर्यग्गतिसामान्यमार्गणायाः 'एकेन्द्रियहरितयोः ' एकेन्द्रियस्य = एकेन्द्रिय सामान्य मार्गणाया हरितस्य = वनस्पतिसामान्यमार्गणायाश्च, 'कायनपुंसकाऽसंज्ञिनां' कायस्य = काययोगसामान्यमार्गणाया नपुंसकवेदमार्गणाया असंज्ञिनः = असंज्ञिमार्गणायाश्च । गाथायाः प्रथमपादे प्रोक्तस्तुकारो विशेषार्थः । स चावलिकाया असंख्येयतमभागे यावन्तः समयाः, तावत्प्रमाणा असंख्येयाः पुद्गलपरावर्ता बोध्या इति विशिनष्टि । अयं भावः - कविजीवः मृत्वा पुनः पुनस्सामान्येन तिरश्च्येवोत्पद्यमानः क्षेत्रत आवलिका-ऽसंख्येयभागगतस मयप्रमाणपुद्गलपरावर्तान् यावदवतिष्ठते, कालतः पुनरनन्तानन्तोसर्पिण्यवसर्पिणीलक्षणं कालं यावदवतिष्ठते, परतोऽवश्यं गत्यन्तरे समुत्पद्यते, तेन यथोक्ता कार्यस्थितिर्लभ्यते । एवमेकेन्द्रियादीनामपि काय स्थितेर्भावना कर्तव्या यदुक्तं प्रज्ञापनासूत्रे - “तिरिक्खजो - freणं भंते! तिरिक्खजोणिए ति कालमो केश्चिरं होइ ! गोयमा ! जह० अतोमुहुत्तं उक्कोसेणं भणतं कालं भनंताओ उस्सप्पिणिभोसप्पिणीभो कालभो, खेत्तभो भनंता लोगा असंखेज्जपोग्गल परियट्टा, ते पुग्गलपरियट्टा, आवलियाए असंखिज्जइभागे । x x x x x x - ए गिंदिए णं भंते ! एगिंदिए त्ति कालतो bafचिरं होइ ! गोयमा ! जहन्नेण अंतोमुहुत्तं, उक्कोसेणं भणतं कालं वणस्सइकालो । XXX X वणस्सइकाइया णं पुच्छा, गोयमा ! जहन्नेणं अ तोमुहुत्तं उक्कोसेणं अनंतं कालं अणंताओ उस्सप्पिणिभवसपि - णि कालभ, खेत्तओ अनंता लोगा असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा भावलियाए असंखे इभागो । X XX X कायजोगी णं भंते ! काल० ? गो० ! जद्दन्नेणं अतो० उक्को० वणफइकालो । XXX नपुंगवे णं भंते ? नपुं सगवेदे त्ति पुच्छा, गो० ! ज० एगं समयं उक्को० वणस्सइकालो ।” इति । अत्र सांव्यवहारिकजीवान् समाश्रित्य कायस्थितिर्बोध्या, अन्यथाऽसांव्यवहारिकजीवान् प्रतीत्य तु तिर्यग्गति-वनस्पतिकायादीनां भूयो भूयो निगोदत्वेनोत्पद्यमानानां कायस्थितिरनापर्यवसानानादिसान्ता चाऽपि स्यात् । इदमुक्तं भवति - निगोदा-वस्थात उद्धृत्य पृथिवीकायिकादिषु ये वर्तन्ते, ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारं लभन्त इति सांव्यवहारिका उच्यन्ते । ये पुनर्निगोदा-वस्थामुपगता एवा - ऽवतिष्ठन्ते, ते व्यवहारपथा ऽतीतत्वादसांव्यवहारिका भण्यन्ते । तत्राऽपि येऽसांव्यवहारिका जीवा जातु कदाचिदपि सांव्यवहारिकराशौ न पति व्यन्ति तानाश्रित्य तिर्यग्गतेः कार्यस्थितिरनाद्यपर्यवसाना सम्पद्यते, एवमेकेन्द्रियादीनामपि, निगो दावस्थायामेकेन्द्रियजाति- काययोग नपुंसक वेदाऽसंज्ञित्वानामुपलम्भात् । येऽसांव्यवहारिका जीवा " Page #11 -------------------------------------------------------------------------- ________________ . तिपाणा कायस्थितिप्रकरणम् [पञ्चेन्द्रियतिर्यगादीनामुत्कृष्टकायस्थितिः आगामिनि काले सांव्यवहारिकराशौ आगमिष्यन्ति, तान् समाश्रित्य तिर्यग्गत्यादीनां कायस्थितिरनादिसान्ता बोध्या । असांव्यवहारिकतः सांव्यवहारिकत्वेनोत्पत्तिस्तु सूत्रसिद्धा, पूर्वमहर्षिभिरुक्तत्वात् , तथा चोक्तं श्रीमजिनभद्रगणिक्षमाश्रमणैःसिज्झन्ति जत्तिया किर इह संववहारजीवरासीओ। एति अणाइवणस्सइरासीओ तत्तिया तम्मि।१॥ इति । इह प्रकृतग्रन्थे तु सांव्यवहारिकजीवराशिमधिकृत्य तिर्यग्गत्यादीनामसंख्येयपुद्गलपरावर्ता उत्कृष्टकायस्थितिरुक्ता ॥३॥ तिर्यग्गतिमार्गणायाः प्रभेदानामेकजीवाश्रितोत्कृष्टकायस्थितिं विभणिषुस्तत्साम्यतोऽन्या अपि मार्गणाः संगृह्य प्राह तिपणिंदियतिरियाणं तिणराणं च पलिओवमा तिण्णि। . अब्भहिया पुवाणं कोडिपुहुत्तेण णायव्या ॥४॥ (प्रे०) 'तिपणिदियः' इत्यादि, 'त्रिपञ्चेन्द्रियतिरश्चाम्' अपर्याप्तपञ्चेन्द्रियतिर्यमार्गणाया अनन्तरगाथया वक्ष्यमाणत्वात् पञ्चेन्द्रियतिर्यक्सामान्य-पञ्चेन्द्रियतिरश्ची-पर्याप्तपञ्चेन्द्रियतिर्यग्लक्षणानां तिसृणां मार्गणानां 'विनराणाम्' अपर्याप्तमनुष्यमार्गणाया अनन्तरगाथया निरूपयिष्यमाणत्वाद् मनुष्यगतिसामान्य-मानुषी-पर्याप्तमनुष्यरूपाणां त्रयाणां मार्गणास्थानानां च प्रत्येक पूर्वाणां कोटीपृथक्त्वेनाऽभ्यधिकानि त्रीणि पन्योपमानि 'ज्ञातव्या' एकजीवविषयोत्कृष्टकायस्थिति!ध्या । कथमेतदवसीयते ? इति चेत् , उच्यते-पञ्चेन्द्रियतिर्यश्वस्तत्रैव तिर्यक्षु, मनुष्यास्तु मनुष्येष्वेव पुनः पुनरुत्पद्यमाना उत्कृष्टतो निरन्तरं सप्ता-अष्टौ वा भवान् गृहन्ति, नाधिकान् , "नरतिरियाणं सगट्ठभवा" । इति पञ्चसङ्ग्रहकारवचनप्रामाण्यात् । तत्र पञ्चेन्द्रियतिर्यश्चो मनुध्याश्च पूर्वकोटिस्थितिकेत्कृष्टतः सप्तसु भवेत्पद्यन्ते, ततो-ऽष्टमे भवे तिर्यश्चस्तिर्यक्ष, मनुष्यास्तु मनुष्येषु त्रिपन्योपमस्थितिकेषु देवकुर्वादिक्षेत्रे समुत्पद्यन्ते, ततो देवेषु, कुतः ? इति चेत् , उच्यतेसंख्येयवर्षायुष्कसानभवग्रहणसमनन्तरं यदि तिर्यश्चस्तिर्यक्त्वेन मनुष्याश्च मनुष्यत्वेन समुत्पद्यन्ते, तर्हि नियमादसंख्येयवर्षायुष्केषु, ततश्च व्युत्वा नियमाद् देवेषूत्पद्यन्ते, युगलिकधर्माणां जीवानां देववर्जगत्यन्तरे समुत्पत्यभावात् । तेन भवति पञ्चेन्द्रियतिर्यग्मार्गणाया मनुष्यमार्गणायाश्चैकजीवाश्रितोत्कृष्टा कायस्थितिः सप्तपूर्वकोट्यधिकत्रिपन्योपममात्री, क यदुक्तं च जीवसमासप्रकरणे जधवलाकारास्तु-"अपणिदिएहितो आगंतूण पचिंदियतिरिक्ख-पंचिंदियतिरिक्खपज्जत्त-पचिंदियतिरिक्खजोणिणीसु उप्पज्जिय जहाकमेण पंचाणउदि-सत्तेत्तालीस-पण्णारसपुव्वकोडीओ परिभमिय दाणेण दाणाणुमोदणेण वा तिपलिदोवमाउढिदिएसु तिरिक्खेसु उपज्जिय सगभाउट्ठिदिमच्छिय देवेसु उप्पण्णस्स एत्तियमेत्तकालस्सुवलंभादो । xxxx अणप्पिदेहितो आगंतूण अप्पिदमणुसे सुवजिय सत्तेतालीस-तेवीस-सत्तपुवकोडीओ जहाकमेण परिभमिय दाणेण दाणाणुमोदेण वा त्तिपलिदोवमाउढिदिमणुस्सेसुपण्णस्स तदुवलंभादो।" इति वदन्ति । Page #12 -------------------------------------------------------------------------- ________________ पर्याप्तपञ्चेन्द्रियतिर्यगादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् तिणि य पल्ला भणिया कोडिपुहुत्तं च होइ पुठवाणं । पंचिंदियतिरियनराणमेव उक्कोसकायठिई ॥१॥"इति . एवं पर्याप्तपञ्चेन्द्रियतिर्यक् पञ्चन्द्रियतिरश्ची-पर्याप्तमनुष्य-मानुषीमार्गणानामपि कायस्थिति भवनीया, उत्कृष्टतो निरन्तरं सप्ताष्टभवग्रहणात् । ननु पर्याप्तपञ्चेन्द्रियतिरश्चः पर्याप्तमनुष्यस्य चोत्कृटकायकायस्थितिरन्तमुहर्तन्यूनानि त्रिपल्योपमानि प्रज्ञापनासूत्रे प्रोक्ता, तथा च तद्ग्रन्थः "तिरिक्खजोणियपज्जत्तए णं भंते ! तिरिक्खजोणियपज्जत्तए त्ति कालतो केवचिरं होइ ? गोया ! जहन्नेणं अतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं अतोमुहुत्तोणाइ, xxxx एवं मणुस्से वि।" इति । तस्मात् प्रकृतग्रन्थोक्तकायस्थितिः कथं न विरुध्यते ? इति चेत् , उच्यते-विवक्षाभेदाद् न कश्चिद् विरोधः । तथाहि-श्रीप्रज्ञापनासूचे करणपर्याप्ताः पर्याप्तत्वेन विवक्षिताः, अत्र तु पर्याप्तनामकोंदयात् पर्याप्ता गृहीताः, करणापर्याप्ता अपि लब्धिपर्याप्ताः पर्याप्तत्वेन विवक्षिता इत्यर्थः, तेन प्रज्ञापनासत्रोक्ता कायस्थितिरन्तमुहर्तन्यूनानि त्रिपन्योपमानि भवति, भवप्रथमान्तमुहर्तकालस्या-ऽपर्याप्तावस्थायां व्यतिक्रान्तत्वात् । भाविता च तवृत्तिकारैरेवमेव श्रीमन्मलय. गिरिपा:-"तिर्यक्सूत्रे जघन्यतोऽन्तर्मुहूर्तभावना प्रागिव, उत्कर्षतस्त्रीणि पल्योपमान्यन्तर्मुहुर्तानानि, एतच्चोत्कृष्टायुषो देवकुर्वादिभाविनः तिरश्चोऽधिकृत्य वेदनीयं, अन्येषामेतावत्प्रमाणायाःपर्याप्ताऽवस्थाया अविच्छेदेनाऽप्राप्यमाणत्वात् ।अत्रा-ऽप्यन्तर्मुहूर्तानत्वमन्तर्मुहूर्तस्याऽऽद्यस्यापर्याप्ताऽवस्थायां गतार्थत्वात् ।" इति । इह ग्रन्थे तु पर्याप्तनामकर्मोदयवतां पर्याप्तत्वेन ग्रहणात् करणा-ऽपर्याप्ताऽवस्था न वज्यंते, यतः पर्याप्तनामकर्मोदयः संख्येयवर्षायुष्केषु सप्तभवेष्वसंख्येयवर्षायुष्केषु चैकस्मिन् तिर्यग्भवे मनुष्यभवे वा निरन्तरं प्राप्यते, तेन यथोक्तप्रमाणा कायस्थितिलभ्यते । अनया रीत्या प्रज्ञापनासूत्रेण सहा-ऽस्य ग्रन्थस्य न विरोध उद्भावनीयो नवा मतान्तरम् , किन्तु विवक्षाभेद एवेत्यलं विस्तरेण ॥४॥ सम्प्रत्यपर्याप्तपञ्चेन्द्रियतिर्यगादीनामेकजीवाश्रितोत्कृष्टकायस्थितिं वक्तुकामस्तत्समानत्वात् सर्वाऽपर्याप्तमार्गणा अन्याश्च पर्याप्तवादरसाधारणवनस्पतिकायादिमार्गणामेदान् संकलय्य निगदति सव्वापजत्ताणं समत्तबायरणिगोअकायस्स । पजत्तगसुहुमाणं पणमणवयउरलमीसाणं ॥५॥ वेउव्वदुगस्स तहा आहारदुगस्स चउकसायाणं । सुहुमुवसममीसाणं भिन्नमुहुत्तं मुणेयव्वा ॥६॥ (प्रे०) 'सव्वापजत्ताण' इत्यादि, 'सर्वा-ऽपर्याप्तानां' सर्वेषां निखिलानाम् अपर्याप्तनामकर्मोदयवशवर्तिनाम् अपर्याप्तपञ्चेन्द्रियतिर्यगपर्याप्तमनुष्या--ऽपर्याप्तसूक्ष्मैकेन्द्रिया-ऽपर्याप्तवादरैकेन्द्रिया-ऽपर्याप्त विकलेन्द्रियत्रिका--ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तमक्ष्मपृथ्वीकाया--ऽपर्याप्तवादरपृथ्वीकायाऽपर्याप्तसूक्ष्माप्कायाऽपर्याप्तवादराऽप्काया-ऽपर्याप्तसूक्ष्मतेजाकाया-ऽपर्याप्तबादरतेजःकाया-ऽपर्यातसूक्ष्मवायुकाया-ऽपर्याप्तवादरवायुकाया--ऽपयांतसूक्ष्मसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तबादरसाधा Page #13 -------------------------------------------------------------------------- ________________ १०] कायस्थितिप्रकरणम् [ अपर्याप्तादिमागणानामुत्कृष्टकायस्थितिः रणशरीरवनस्पतिकाया--ऽपर्याप्तप्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तत्रसकायलक्षणानां विशतिसंख्यानां (२०) मार्गणाभेदानां प्रत्येकं 'समाप्तबादरनिगोदकायस्य' समाप्तस्य पर्याप्तस्य बादरनिगोद कायस्य चादरसाधारणशरीरवनस्पतिकायस्य 'पर्याप्तकसूक्ष्माणां' पर्याप्तसूक्ष्मैकेन्द्रिय-पर्याप्तसूक्ष्मपृथिवी. काय-पर्याप्तसूक्ष्माऽप्काय पर्याप्तसूक्ष्मतेजःकाय-पर्याप्तसूक्ष्मवायुकाय--पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकायरूपाणां षड्मार्गणास्थानानां(६)प्रत्येकं 'पञ्चमनोवचऔदारिकमिश्राणां पञ्चशब्दस्य द्वाभ्यां सहाऽभिसम्बन्धात् पश्चमनसा-मनोयोगसामान्य-सत्यमनोयोगा- ऽसत्यमनोयोग-सत्यासत्यमनोयोगाऽसत्यामृषमनोयोगानां प्रत्येकम् , एवं पञ्चवचनयोगानां प्रत्येकम् , 'औदारिकमिश्रस्य' औदारिकमिश्रकाययोगस्य 'वैक्रियद्विकस्य' वैक्रियकाययोग-तन्मिश्रकाययोगाख्यस्य प्रत्येकं तथाशब्दः समुच्चये 'अहारकद्विकस्य' आहारककाययोगतन्मिश्रकाययोगरूपस्य प्रत्येकं 'चतुष्कषायाणां' क्रोधमानमायालोभलक्षणानां प्रत्येकं 'सूक्ष्मोपशममिश्राणां' पदैकदेशे पदसमुदायोपचारात् सूक्ष्मस्य सूक्ष्मसम्परायस्य उपशमस्य औपशमिकसम्यक्त्वस्य मिश्रस्य-सम्यमिथ्यात्वमार्गणायाश्च प्रत्येकं 'भिन्नमुहूर्तम्' अन्तमुहूर्त 'ज्ञातव्या' प्रस्तुतत्वादेकजीवाश्रितोत्कृष्टकायस्थितिः प्रतिपत्तव्या। "तत्र विंशतिसंख्याकाऽपर्याप्तमार्गणानां प्रत्येकमुत्कृष्टतो-ऽपि कायस्थितिरेकजीवविषया-ऽन्तमुहूर्तमेव भवति, यतो व्यापकभूतस्या-ऽपर्याप्तसामान्यस्याऽपि नानाभवैलभ्यमानोत्कृष्टकायस्थितिरन्तर्मुहूर्तप्रमाणा, यदुक्तं श्रीप्रज्ञापनासूत्रे-"अपजत्तए णं भंते ! अपज्जत्तए त्ति कालतो केवचिरं होइ ? गोयमा ! जहन्नेणं अतोमुत्तं उक्कोसेण वि अंतोमुहुत्तं ।" इति । तेन व्याप्यभूतापर्याप्तपञ्चेन्द्रियतिर्यगादीनामन्तर्मुहूर्ततोऽधिका कायस्थितिर्न संभवति । पर्याप्तवादरनिगोदत्वपर्यायविशिष्टोऽविच्छेदेनोत्कृष्टतो नानाभवैरप्यन्तमुहुर्तकालमवतिष्ठते, परतो नियमेन पर्यायान्तरं भजते, तेन पर्याप्तवादरनिगोदस्यकजीवाश्रयोत्कृष्टकायस्थितिरन्तर्मुहूर्तप्रमाणा लभ्यते, यदुक्तं श्रीप्रज्ञापनासून्ने-"निगोयपज्जत्तते बादरनिगोदपज्जत्तते, बादरनिगोदपज्ज. त्तए पुच्छा, गो० । दोण्ह वि० ज० अन्तो० उक्को अतो।" इति । . यद्यपि निर्विशेषणानां सूक्ष्मपृथिवीकायादीनामेकैकस्योत्कृष्टकायस्थितिरसंख्येयलोका वक्ष्यते, तथापि पर्याप्तत्वविशेषणविशिष्टानां सूक्ष्मकायिकानां पर्याप्तसूक्ष्मैकेन्द्रियपर्याप्तसूक्ष्मपृथिवीकायादिलक्षणानां षण्णां प्रत्येकं नानाभवैरुत्कृष्टकायस्थितिरन्तमुहूर्तमेव भवति, परतो-ऽवश्यं तदन्यत्वेनो. त्पादात्, यदुक्तं श्रीप्रज्ञापनासूत्रे-"सुहुमे णं भंते ! अपज्जत्तए त्ति पुच्छा, गो० ज० उ० अतोमुहुत्तं, पुढविकाइय-आउकाय-तेउकाय-वाउकाय-वणप्फइकाइयाण य एवं चेव,पज्जत्तियाण वि एवं चेवxxx।" इति । अत्र 'पर्याप्तानामप्येवं चैव' इति कथनेन पर्याप्तसूक्ष्माणां पर्याप्तसूक्ष्मपृथिवीकायादीनां च ग्रहणम् । मनोयोगसामान्यस्य वचनयोगसामान्यस्य चोत्कृष्टतो.ऽप्यन्तमुहूर्तमेवोत्कृष्टकायस्थितिः, यतस्तथाजीवस्वाभाव्यादेव मनोयोग्यवर्गणागतपुद्गलानादाय मनस्त्वेन परिणम्य परित्यजन मनो. योगी भाषायोग्यवर्गणागतपुद्गलांश्च गृहीत्वा वचनत्वेन परिणमय्य विमुञ्चन् - वचनयोग्यु Page #14 -------------------------------------------------------------------------- ________________ मनोयोगादीनामुत्कृष्टकायस्थितिः ] काय स्थितिप्रकरणम् [-११ त्कृष्टतो - ऽन्तमुहूर्तादूर्ध्वं नियमेन तादृशग्रहणमोक्षत उपरमते, यदुक्तं श्रीप्रज्ञापनासूत्रे - "मणजोगी णं भंते ! मणजोगो त्ति कालतो० ? गो० ! ज० एक्कं समयं, उक्को० अतो० एवं वइजोगी वि।” इति । तदेवं मनोयोगसामान्यस्य वचनयोगसामान्यस्य चोत्कृष्टकाय स्थितेरन्तर्मुहूर्तत्वेन तद्वयायभूतानां सत्यादियोगानामन्तर्मुहूर्ततो ऽधिका कायस्थितिर्न संभवति, व्यापकं विना व्याप्यस्यादर्शनात् वह्निमृते धूमादर्शनवत् । इदमत्राऽवधेयम् - सत्यमनोयोगस्य काय स्थितिः स्वल्पा, ततोऽसत्यमनोयोगस्य संख्येयगुणा, ततः सत्यासत्यमनोयोगस्य संख्येयगुणा, ततोऽसत्यामृषमनोयोगस्य संख्येयगुणा, ततो मनोयोगसामान्यस्य विशेषाधिका । एवं पञ्चवचनयोगानामप्युत्कृष्ट काय स्थितेरल्पबहुत्वं वाच्यम् । औदारिकमिश्रकाययोगः करणा-ऽपर्याप्त जीवाना लब्ध्यपर्याप्तजीवानां च भवति । तत्र करणापर्याप्त जीवानामन्तर्मुहूर्तेन शरीरपर्याप्ति निष्पन्पौदारिककाययोगः सम्पद्यते, लब्ध्यपर्याप्तकजीवानां तूत्कृष्टतः काय स्थितिरप्यन्तर्मुहूर्त प्रमाणा श्रीप्रज्ञापनासूत्रे ऽभिहिता । तेनौदारिकमिश्रकाययोगस्योत्कृष्टैकजीवविषया कायस्थितिरन्तर्मुहूर्तप्रमाणा भवि वैक्रियद्विकाहारकद्विकलक्षणेषु चतुषु' योगेषु प्रत्येकं मरणादिव्याघाताभावेऽपि तथास्वाभाव्यादुत्कर्षेणा-मुहूर्तादूर्ध्व जीवा नाऽवतिष्ठन्ते । तेन कायस्थितिर्यथोक्तप्रमाणैव लभ्यते । चतुष्कषायाणां क्रोधादीनां प्रत्येकमुत्कृष्टकायस्थितिरेक जीवाश्रिताऽन्तमुहूर्तमानैव भवति, उत्कर्षेणापि क्रोधादीनामेकैकस्योदयस्याऽन्तमुहूर्त भावित्वात् । इहोदयमाश्रित्यैव क्रोधादीनां कायस्थितिरुक्तप्रमाणा, अन्यथा सत्तामधिकृत्य सदैव क्रोधाद्युपलब्धेरनाद्यपर्यवसाना - ऽनादिसपर्यवसिता च स्यात् । सूक्ष्मसम्पराय मार्गणायाः श्रेणा एव लाभेन तस्या उत्कृष्टकायस्थितिरन्तमुहूर्तमेव, उक्तं च पञ्चसंग्रहे- 'समयाभ अ तमुहू अपुव्वकरणाउ जाव उवसंतो ।” इति । मिथ्यात्वतः क्षायोपशमिकसम्यक्त्वत औपशमिकसम्यक्त्वतो वाऽऽगतः सम्यमिध्यादृष्टिजवस्तद्भाव उत्कृष्टतोऽविच्छेदेना- ऽन्तमुहूर्त भवतिष्ठते, परतस्तथाजीव स्वाभाव्याद् मिथ्यात्वरूपं क्षायोपशमिकसम्यक्त्वलक्षणं वा भावान्तरं प्रतिपद्यते, उक्तं च श्रीप्रज्ञापनासूत्री - " सम्मामिच्छादि - ट्ठी पुच्छा, गो० ! जह० अ तो० उक्को० अतो० ।” इति । तेन मिश्रस्योत्कृष्टकाय स्थितिरेकवाश्रितान्तमुहूर्तमात्री समुपपद्यते । औपशमिकसम्यक्त्वयुत्कर्षतोऽन्तमुहूर्तमवतिष्ठते नीवः, परतो भावान्तरं भजते, तेनौपशमिकसम्यक्त्वमार्गणाया अन्तर्मुहूर्तमुत्कृष्टकाय स्थितिर्लभ्यते, यदुक्तं पञ्चसंग्रहे - "मीसुत्रसम मुहू" इति । तदेवं निगदिता तिर्यग्गतिभेदानामुत्कृष्टकायस्थितिः, तत्समानात्वाच्चाऽन्यासामपि मार्गणानाम् ॥५,६ ॥ Page #15 -------------------------------------------------------------------------- ________________ १२] कायस्थितिप्रकरणम् ( देवगतितद्भदानामुत्कृष्टकास्थितिः सम्प्रति देवगतिमार्गणाया उत्तरभेदानामेकजीवाश्रयामुत्कृष्टकायस्थितिं वक्तुकामो गाथात्रयमाह भवणस्स साहियुदही पल्लं वंतरसुरस्स विण्णेया। पलिओवममब्भहिअं जोइमदेवस्स णायब्बा ॥७॥ सोहम्माईण कमा अयरा दो साहिया दुवे सत्त । अब्भहिया सत्त य दस चउदस सत्तरह णायव्वा ॥८॥ एत्तो एगेग-ऽहिया णायव्वा जाव एगतीसुदही। उवरिमगेविजस्स उ तेतीमा-ऽणुत्तराण भवे ॥९॥ (प्रे० ) 'भवणस्स' इत्यादि, 'भवनस्य' पदवाच्यार्थस्य पदैकदेशेनाऽप्यभिधानदर्शनाद् भवनपतिसुरस्य साधिकोदधिः' सातिरेकसागरोपमम् उत्कृष्टकायस्थितिरेकजीवाश्रया भवति । कथम् ? इति चेत् , उच्यते-देवाः पुनर्देवत्वेन नोत्पद्यन्ते, उक्तं च “नो देवो देवेसु उववजइ।" इति । तेन भवनपतिदेवानां यद् भवस्थितेः प्रमाणम् , तदेव कायस्थितेरपि, भवस्थितिश्च यथोक्तप्रमाणा । इदमत्रावधेयम्-इहोक्तकायस्थितिरुत्तरार्धाधिपतिवलीन्द्राख्या-ऽसुरकुमारतत्सामानिकदेवा. पेक्षया द्रष्टव्या । इदमुक्तं भवति-भवनपतयो दशविधाः, असुरकुमारा नागकुमाराः सुवर्णकुमारा विद्युत्कुमारा अग्निकुमारा द्विपकुमारा उदधिकुमारा दिक्कुमाराः पवनकुमाराः स्तनितकुमाराश्चेति । ते च प्रत्येकं द्विधा मेरोदक्षिणदिग्भागवर्तिन उत्तरदिग्भागवर्तिनश्चेति । तथा-ऽसुरकुमारवर्जानां नागकुमारादोनां नवानां दक्षिणदिग्भागवर्तिनामुत्कृष्टा भवस्थितिः सार्धपल्योपममात्री, तद्देवीनां त्वर्ध पन्योपमम् । उत्तरदिग्वर्तिनां पुनर्नागकुमारादीनामुत्कृष्टस्थितिर्देशोनपल्योपमद्वयम्, तद्देवीनां देशोनं पल्योपमं भवति । दक्षिणदिग्भाविनामसुरकुमाराणामिन्द्रश्चमरः, तस्योत्कृष्टस्थितिः सागरोपमं भवति, तद्देवीनां तु सार्धपल्योपमत्रयम् । उत्तरदिग्भाविनामसुरकुमाराणामिन्द्रो बलीन्द्रः तस्य तत्सामान्यदेवानां चोत्कृष्टस्थितिः सातिरेकसागरोपमप्रमाणा, तद्देवीनां तु त्वर्धपञ्चमपल्योपमानि, उक्तं च बृहत्संग्रहण्यां श्रीमजिनभद्रगणिक्षमाश्रमणैः"चमर बलि सारमहिलं सेसाण सुराण आउअं वुच्छं । दाहिणदिवड्ढपलिदो देसूणुत्तरिल्लाणं ॥१॥ अद्भुट्टअद्धपंचमपलिओवम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणद्धपलियमुक्कोसं ॥२॥" इति । एवं प्रज्ञापनासूत्रकारादिभिरप्युक्तम् । इह भवनपतिसुरस्योत्कृष्टकायस्थितेः प्रस्तुतत्वादुतरदिग्वर्तिनामसुरकुमाराणामिन्द्रं बलीन्द्रं तत्सामानिकदेवांश्चाभित्य सातिरेकसागरोपमं प्रकृतकायस्थितिर्वक्तव्या, उत्तरदिग्वय॑सुरकुमारेन्द्रतत्सामानिकदेवानामेव भवनपतिषु सर्वोत्कृष्ट भवस्थितिकन्वात् , देवानां चानन्तरभवे देवत्वेनाऽनुत्पादात् । Page #16 -------------------------------------------------------------------------- ________________ ज्योतिष्यादिदेवानामुत्कृष्टकास्थितिः ] कायस्थितिप्रकरणम् [ १३ _ 'पल्लं' इत्यादि, 'पल्य' पल्योपमं 'व्यन्तरसुरस्य' व्यन्तरदेवमार्गणाया 'विज्ञेया' एकजीवाश्रितोत्कृष्टकायस्थितिनिश्चेतव्या, देवानामनन्तरभवे देवत्वेना-ऽनुत्पादाद् व्यन्तराणाश्चोत्कृष्टभवस्थितेः पल्योपममात्रत्वात् । इदन्त्ववधेयम्-व्यन्तरदेवीनां तु भवस्थितिरर्धपल्योपमं भवति । तेन व्यन्तरीणां कायस्थितिरपि तावन्मात्री बोध्या । अथ ज्योतिष्कस्योत्कृष्टकायस्थिति दर्शयति-'पलि०' इत्यादि,तत्र'ज्योतिष्कस्य ज्योतिष्कसुरमार्गणायाः पल्योपममभ्यधिक लक्षवरिति व्याख्यानाद् गम्यते, ज्योतिष्काणामुत्कृष्टभवस्थितेस्तावन्मात्रत्वात् , तदुक्तं श्रीप्रज्ञापनासूत्रे-"जोइसियाणं देवाणं पुच्छा । गोयमा ! जहन्नेण पलिभोवमट्ठभागो, सक्कोसेण पलिओवमं वाससयसहस्सब्भहियं ।" इति । इयश्चोत्कृष्टकायस्थितियोतिष्केषु चन्द्रापेक्षया ज्ञातव्या, यतः सूर्यस्योत्कृष्टस्थितिवर्षसहस्रणाधिकं पन्योपमम् , ग्रहाणां पन्योपमम् , नक्षत्राणामर्धपल्योपमम् , तारकाणां च पल्योपमस्य चतुर्भागः,चन्द्रसूर्यग्रहदेवीनां चोत्कृष्टस्थितिर्देवापेक्षया-ऽर्धम् , नक्षत्रतारकदेवीनां तु साधिकमर्धम् । तथाचोक्तं बृहत्संग्रहण्याम्"पलियं पाससहस्सं आइच्चाणं ठिई वियाणिज्जा । पलिभं च सयसहस्सं चंदाण वि भाउयं जाण॥१॥ पनिओवमं गहाणं नक्खत्ताणं च जाण पलियद्धं । ताराण चउ जहन्नट्ठमो य देवीण विन्नेओ ॥२॥ पन्नाससहस्साइं पलियद्धं पंचवाससयमहियं । ससिरविगहदेवीण पलिभद्धं चउ जहन्नेणं ॥३॥ पलिभचउत्थं जहण्णुक्कोसं सविसेसं होड नक्खत्ते । तारट्ठभाग सविसेस जहण्णुक्कोसगं अहवा ॥४॥" इति। सम्प्रति वैमानिकदेवानामुत्कृष्टकायस्थितिमेकजीवविषयां वक्तुमनाः प्राह- 'सोहम्माईण' इत्यादि, सौधर्मादीनां सौधर्मप्रभृतिसप्तकल्पसुराणां'क्रमात्' क्रमेण अतरौ द्वौ'द्वौ सागरोपमौ साधिकौ। 'सप्त' "डमरूकमणिः"न्यायेन 'अयरा' इत्यस्य सर्वत्र सम्बन्धात् सप्तसंख्याकाः सागरोपमाः, 'अभ्यधिकाः सप्त' पन्योपमाऽसंख्येयभागाधिकसप्तसागरोपमाः, चकारः समुच्चयार्थो व्यवहितसम्बधश्च, सच सप्तदश चेत्युत्तरत्र योज्यः, । 'दश दशसंख्याकाः सागरोपमाः, चतुर्दश सागरोपमाः, सप्तदश च सागरोपमाः 'ज्ञेया' एकजीवाश्रितोत्कृष्टकास्थितिर्योध्या, देवानामनन्तरभवे देवत्वेनानुत्पादादुक्तसुराणां चोत्कृष्टभवस्थितेर्यथोक्तप्रमाणत्वात् । इदमुक्तं भवति-सौधर्मसुरस्य. द्वे (२) सागरोपमे उत्कृष्टा भवस्थितिः, ऐशानसुरस्य साधिके द्वे (२) सागरोपमे, सनत्कुमारदेवस्य सप्त (७) सागरोपमाणि, माहेन्द्रसुरस्य साधिकानि सप्त (७) सागरोपमाणि, - ब्रह्मलोकसुरस्य दश (१०) सागरोपमाणि, लान्तकदेवस्य चतुर्दश (१४) सागरोपमाणि, महाशुक्रदेवस्य च सप्तदश (१७) सागरोपमाणि, यदुक्तं जीवसमासे-“दो साहि सत्त साहिय दस चउदस सत्तरेवxxxx I" इति । देवानां च स्वभवप्रच्यवनादनन्तरभवे देवत्वेनानुत्पादादनन्तरोक्तोत्कृष्टभवस्थितिरेवैकजीवाश्रयोत्कृष्टकायस्थितिर्भवति । सम्प्रति सहस्रारादिसुराणां कायस्थितिप्रख्यापनाय प्राह-एत्तो' इत्यादि 'इतः' महाशुक्रदेवस्योत्कृष्टकायस्थितिभणनादूर्ध्वम् 'एकैकाऽधिकाः' 'एकैकेन सागरोपमेण अधिका=वृद्धाः Page #17 -------------------------------------------------------------------------- ________________ १४ ] काय स्थितिप्रकरणम् [ मैवेयकादीनामुत्कृष्टकार्यस्थितिः सागरोपमाः 'ज्ञातव्या' यत्तदोर्मिथः सापेक्षत्वादुत्तरत्र यावच्छब्दोपादानात् तावद् एकजीवाश्रयोत्कृष्टकाय स्थितिर्योध्या, यावद् 'एकत्रिंशदुदधयः' एकत्रिंशत्सागरोपमाणि 'उपरितनग्रैवेयकस्य' सर्वेषामुपरि स्थितस्य नवमस्याऽऽदित्याख्यस्य ग्रैवेयकसुरस्योत्कृष्टकाय स्थितिः । अयं भावः - महाशुक्रसुराsपेक्षया सहस्रारसुरस्यैकेन सागरोपमेणा - ऽधिकानि सप्तदश सागरोपमाण्यष्टादश सागरोपमाणीत्यर्थः, एकजीवाश्रयोत्कृष्ट काय स्थितिर्भवति, अनया रीत्या - ऽऽनतदेवस्यैकोनविंशतिः ( १९ ) सागरो - पमाणि, प्राणतत्रिदशस्य विंशतिः (२०) सागरोपमाणि, आरणसुपर्वण एकविंशतिः (२१), अच्युता-मरस्य द्वाविंशतिः (२२) । सुदर्शनाख्य- प्रथमग्रैवेयकसुरस्य त्रयोविंशतिः (२३), सुप्रतिबद्धा ऽभिधानद्वितीय ग्रैवेयक देवस्य चतुर्विंशतिः (२४), मनोरमनामतृतीय ग्रैवेयकसुपर्वणः पञ्चविंशतिः (२५), सर्वभद्राख्यचतुर्थग्रैवेयकदेवस्य षड्विंशतिः (२६), विशालाख्यपञ्चम ग्रैवेयकविबुधस्य सप्तविंशतिः (२७), सुमनसाऽभिधषष्ठग्रैवेयक त्रिदशस्या -ऽष्टाविंशतिः ( २८ ) सौमनसाख्य सप्तमग्रैवेयकसुरस्यैकोनत्रिंशत् (२९), प्रीतिकरनामाऽष्टमग्रैवेयकसुरस्य त्रिंशत् (३०), आदित्या ऽभिधाननवमग्रैवेयकगीर्वाणस्य चैकत्रिंशत् (३१) सागरोपमाणि, यतो देवानामानन्तरभवे देवत्वेना- ऽनुत्पादाद् भवस्थितिरेव काय स्थितिर्भवति । भवस्थितिचैतावती बृहत्संग्रहण्यां श्रीमज्जिन भद्रगणिक्षमाश्रमणपादैरभिहिता - "सोहम्मा जा सुक्को तदुवरि इक्किकमारोवे ।" इति । 1 अथाऽनुत्तराणां प्रस्तुतकाय स्थिति भणति - 'तेत्तीसा' इत्यादि, 'अनुत्तराणां' बहुवचननिर्देशात् पञ्चानामनुत्तरसुराणां= विजय - वैजयन्त जयन्ता ऽपराजित- सर्वार्थसिद्धसुराणां प्रत्येकमेकजीवाश्रयोत्कृष्टकायस्थितिः 'त्रयस्त्रिंशत् ' 'भयरा' इत्यनुवर्तते, त्रयस्त्रिंश त्सागरोपमाणि भवति, भवस्थितेस्तावन्मात्रत्वात् । उत्कृष्टभवस्थितिश्च श्रीप्रज्ञापनादिसूत्रेषु यथोक्तप्रमाणा समर्थिता आर्यश्यामपादादिभिः । तथा चात्र श्रीप्रज्ञापनासूत्रम्- “विजय-वे जयंत जयंत अपराजितेसु ण भंते! देवा ण' केवइयं कालं ठिई पन्नता ? गोयमा ! जत्रेण एकतीसं सागरोवमाई, उक्कोसेण तेत्तीसं सागरोमाई। सब्वट्टसिद्धगदेवाणां भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! अजहन्नमणुक्कोसं तेत्तीस सागरोबमाइ ं ठिई पन्नत्ता।” इति । गाथोक्तस्तुशब्दो ऽधिकार्थ संसूचकः, स चात्र तत्त्वार्थ सूत्र- तद्भाष्यकारादोन । मभिप्रायेणाऽऽद्यानां चतुर्णां विजयादिसुराणामुत्कृष्ट भवस्थितेर्द्वात्रिंशत्सागरोपमप्रमाणत्वाद् आद्यानां चतुर्णामनुत्तरसुराणां कार्यस्थितिरपि तत्त्वार्थ सूत्रकारादीनामभिप्रायेण ताव्रती वक्तव्येति संसूचयति । तथा चात्र श्रीतस्वार्थसूत्रम् - "भारणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।” इति । तथैव तद्भाष्येऽप्युक्तम्- "विजयादिषु चतुर्ष्वप्येकेना-ऽधिका द्वात्रिंशत्, साप्येकेनाधिका सर्वार्थसिद्धे त्रयस्त्रिंशदिति । ” इति । अनन्तरोक्ता कायस्थितिः सामान्येन सौधर्मादिदेवानां बोध्या, विशेषतः पुनः सौधर्मकल्पेऽपि प्रथमप्रस्तटस्थसुराणामुत्कृष्टकायस्थितिर्द्वे सागरोपमे न भवति, किन्तु द्वौ सागरोपमस्य त्रयोद Page #18 -------------------------------------------------------------------------- ________________ सौधर्मेशानयोः प्रतिप्रग्नटमुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् शभागौ (3 सा०), द्वितीयप्रस्तटस्थसुराणां चत्वारः सागरोपमस्य त्रयोदशभागाः ( सा०) भवति, एवं शेषप्रस्तटस्थसुराणामपि वक्तव्या, ऐशानादिकल्पानामपि तत्तत्प्रस्तटस्थानां देवानामुत्कृष्टा कायस्थितिर्भिन्ना भिन्ना वाच्या, न तु तत्तत्कन्पोक्ता । तथाहि-सौधर्मेंशानयोः समभूमिकयोरेकवलयाकारकतया त्रयोदश प्रस्तटाः । इह यद्यपि सौधर्म ऐशाने च कल्पे प्रत्येकं त्रयोदश प्रस्तटाः, तथापि सौधर्मेशानकल्पो एकवलयाकारतया व्यवस्थितौ इति तयोर्द्वयोः समुदितयोरपि त्रयोदश प्रस्तटाः, एवमग्रेऽपि सनत्कुमारमाहेन्द्रयोरानतप्राणतयोरारणाऽच्युतयोश्च प्रस्तटभावना कार्या। सनत्कुमारमाहेन्द्रयोदश प्रस्तटाः, ब्रह्मलोके षट् , लान्तके पश्च, महाशुक्रकल्पे चत्वारः, सहस्रारे चत्वारः, आनतप्राणतयोः समुदितयोश्चत्वारः, आरणाच्युतयोश्च समुदितयोश्चत्वारः । अवेयकेषु प्रत्येकमेकैकः प्रस्तटः, समुदितेषु पश्चा-ऽनुत्तरेष्वेकः प्रस्तटः । तदेवं सर्वसंख्यया द्वाषष्टिः प्रस्तटा भवन्ति, यदुक्तं वृहत्संग्रहण्यां जिनभद्रगणिक्षमाश्रमणपादःदुसु तेरस दुसु बारस छप्पण चउ चउ दुगे दुगेय चऊ । गेविज्जाइसु दसगं बावट्ठीं उढलोगम्मि ||१||"इति। सत्र सौधर्मकल्पतत्तत्प्रस्तटे सुराणामुत्कृष्टकायस्थितिपरिज्ञानायेदं करणम्-सौधर्मकल्पसुरस्यो. स्कृष्टकायस्थितिः सांगरोपमद्वयमिता त्रयोदशप्रस्तटैविभज्यते, तदा यद् लभ्यते, तत् , इच्छया= यतिसंख्यप्रम्तटस्थसराणामुत्कृष्टकायस्थितिआतुमिष्यते तत्संख्ययकद्वयादिरूपया गुण्यते, गुणिते घेष्टप्रस्तटस्थसुराणामुन्कृष्टा कायस्थितिलभ्यत इति । अनेन करणेन सौधर्मकल्पे प्रथमप्रस्तटे सुराणामुत्कृष्टकायस्थितिद्वौं सागरोपमस्य त्रयोदशभागौ (१३), द्वितीयप्रस्तटसुराणां चत्वारः सागरोपमस्य त्रयोदशभागाः (1), तृतीयप्रस्तटे षट् सागरोपमस्य त्रयोदशभागाः (१), चतुर्थप्रस्तटे देवानामष्ट सागरोपमस्य त्रयोदशभागाः (5), पञ्चमप्रस्तटे दश सागरोपमस्य त्रयोदशभागाः (१), षष्ठप्रस्तटे द्वादश सागरोपमस्य त्रयोदशभागाः (73), सप्तम एकं सागरोपममेकश्च सागरोपमस्य त्रयोदशभागः (११), अष्टमे सागरोपमं त्रयश्च सागरोपमस्य त्रयोदशभागाः (१३३) नवमे पञ्चभिः सागरोपमस्य त्रयोदशभागैरधिकमेकं (१,३), सागरोपमम् ,दशमे सप्तभिः सागरोपमस्य त्रयोदशभागैरधिकमेकं (१७) सागरोपमम् , एकादशे नवभिः सागरोपमस्य त्रयोदशभागरधिकमेकं (१,७) सागरोपमम् , द्वादशे प्रस्तट एकादशभिः सागरोपमस्य त्रयोदशभागैरधिकमेकं (११३) सागरोपमम् , त्रयोदशे द्वे (२) सागरोपमे परिपूर्णे । कथमेतदवसीयते ? इति चेत् , उच्यते-देवानामनन्तरभवे देवत्वेनाऽनुत्पादादुत्कृष्टभवस्थितिरेवोत्कृष्टकायस्थितिः, भवस्थितिश्चैतावती बृहत्संग्रहण्यादौ समर्थिता पूज्यवरैः । तथा चाऽत्र धृहत्संग्रहणी"पलिओवमं जहन्ना दो तेरसभागा उदहिनामस्स । उक्कोसठिई भणिया सोहम्मे पत्थडे पढमे ॥१॥ एव दुगवुड्ढीए नेभव्वं जाव अंतिमं पयरं । भागेहि तमो करणं जा तेरसमे दुवे भयरा ॥२॥"इति । एवमैशानकल्पप्रस्तटेष्वप्येकजीवाश्रयोत्कृष्टकायस्थितिर्वाच्या, नवरं किश्चित्समधिका प्रतिपाद्या, तेषां भवस्थितेः समधिकत्वात् । २ब Page #19 -------------------------------------------------------------------------- ________________ १६ ] कायस्थितिप्रकरणम् [ सनत्कुमारमाहेन्द्रब्रह्मलोकेषु प्रतिप्रस्तटमुत्कृष्टकायस्थितिः ___अथ सौधर्मेशानयोर्दैवीनामुत्कृष्टकायस्थितिरभिधीयते,शेषकल्पेषु देवीनामुत्पत्यभावात् । देव्यः खलु द्विविधाः परिगृहीता अपरिगृहीताश्चेति । तत्र कुलभार्यादेश्याः परिगृहीताः,गणिकासमानाश्चेतराः। सौधर्म परिगृहीतानां देवीनामुत्कृष्टकायस्थितिरेकजीवाश्रिता सप्त (७)पल्योपमानि, अपरिगृहीतानां च पञ्चाशत् (५०)पल्योपमानि। ऐशानकल्पे परिगृहीतानां नव (९) पन्योपमानि,अपरिगृहीतानां च देवीनां पञ्चपञ्चाशत् (५५) पल्योपमानि, यत उत्कृष्टभवस्थितिस्तावन्मात्री, उक्तं च श्रीप्रज्ञापनासत्रे- सोहम्मे कप्पे परिग्गहियाण देवीण पुच्छा,गोयमा ! जहन्नेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाइं । xxxxx सोहम्मे कप्पे अपरिग्गहियाणं देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं पन्नासं पलिओवमाई । xxxx ईसाणकप्पे परिग्गहियाणं देवीणं पुच्छा, गोयमा ! जहन्नेण साइरेगं पलिओवमं उक्कोसेणं नव पलिओवमाई| xxxx ईसाणे कप्पे अपरिग्गहियदेवीण पुच्छा, गोयमा ! जहन्नेण साइरेगं पलिओवमं उक्कोसेण पणपन्नाइपलिओवमाइ । इति । ___ सनत्कुमारप्रस्तटस्थसुराणामुत्कृष्टकायस्थितिं ज्ञातुमिदं करणम्-या सौधर्म उत्कृष्टा कायस्थितिः, सा सनत्कुमारदेवानामुत्कृष्टकायस्थितितो विशोधयितव्या, विशोधने च कृते यद् लभ्यते, तत् सनत्कुमारप्रस्तटैविभज्यते, विभक्ते च तस्मिन् यद् लभ्यते, तद् इच्छया यतिसंख्ये सनत्कुमार. प्रस्तट उत्कृष्टकायस्थितिओतुमिष्यते, तत्संख्यया गुणयितव्यम् , गुणिते च यद् लभ्यते, तत् सौधर्मदेवोत्कृष्टकायस्थित्या सहितं तत्तत्प्रस्तटे सनत्कुमारसुराणामुत्कृष्टस्थितिर्भवति। अनेन करणेन सनत्कुमारस्य प्रथमप्रस्तटे सुराणामुत्कृष्टकायस्थिति। सागरोपमे पञ्च च सागरोपमस्य द्वादशभागाः (२१३), द्वितीये प्रस्तटे द्वे सागरोपमे दश च सागरोपमस्य द्वादशभागाः (२१३) तृतीये त्रीणि सागरोपमाणि त्रयश्च सागरोपमस्य द्वादशभागाः (३१३), चतुर्थे त्रीणि सागरोपमाण्यष्टौ च सागरोपमस्य द्वादशभागाः (३६), पञ्चमे चत्वारि सागरोपमाण्यकश्च सागरोपमस्य द्वादशभागः (४३), षष्ठे चत्वारि सागरोपमाणि षट् च सागरोपमस्य द्वादशभागाः(४१३), सप्तमे चत्वारि सागरोपमाण्येकादश च सागरोपमस्य द्वादशभागाः (४१३), अष्टमे पश्च सागरोपमाणि चत्वारश्च सागरोपमस्य द्वादशभागाः (५१३), नवमे पञ्च सागरोपमाणि नव च सागरोपमस्य द्वादशभागाः (५६३), दशमे द्वाभ्यां सागरोपमस्य द्वादशभागाभ्यामधिकानि षट् (६३) सागरोपमाणि, एकादशे सप्तभिः सागरोपमस्य द्वादशभागैरधिकानि षट् (६१) सागरोपमाणि, द्वादशे च परिपूर्णानि सप्त (७) सागरोपमाणि । एवं माहेन्द्र कल्पेऽपि प्रतिप्रस्तटमुत्कृष्टकायस्थितिर्वाच्या, नवरं किश्चित्समधिका वाच्या । ___ अथाऽनन्तरोक्तकरणेन ब्रह्मलोककल्पेऽपि प्रतिप्रस्तटमुत्कृष्टकायस्थितिः साध्या, नवरं सौधर्मस्थाने सनत्कुमारकल्पो वक्तव्यः, सनत्कुमारस्थाने च ब्रह्मलोको वक्तव्यः । अनेन करणेन या लभ्यते, सा सविस्तरमभिधीयते-ब्रह्मलोकस्य प्रथमप्रस्तट उत्कृष्टकायस्थितिः सप्त सागरोपमाणि त्रयश्चसागरोपमस्य षड्भागाः (१), द्वितीयप्रस्तटेऽष्टौ (८)सागरोपमाणि, तृतीये त्रीभिः Page #20 -------------------------------------------------------------------------- ________________ लान्तकप्रभृतिषु प्रतिप्रस्तटमुत्कृष्टकाय स्थितिः ] काय स्थितिप्रकरणम् [ १७ सागरोपमस्य षड्भागैरधिकान्यष्टौ (८३) सागरोपमाणि, चतुर्थे नत्र ( ९ ) सागरोपमाणि, पञ्चमे नव सागरोपमाणि त्रयश्च सागरोपमस्य षड्भागाः (९३), षष्ठे च दश (१०) सागरोपमाणि । • अतः परं लान्तकप्रभृतिकल्पसुराणां प्रतिप्रस्तटमुत्कृष्टकाय स्थितिं ज्ञातु ं वक्ष्यमाणं करणमुपयोजनीयम् - पूर्वपूर्वकल्पस्योत्कृष्टकायस्थितिरुत्तरोत्तरकल्पकायस्थितितो विशोध्येत, विशोधने च कृते यल्लभ्यते, तद् उत्तरकल्प प्रस्तटैर्विभज्यते, विभक्ते च सति यल्लभ्यते, तद् इच्छया = यति संख्ये प्रस्तट उत्कृष्टकायस्थितिर्ज्ञातुमिष्यते, तत्संख्यया गुण्यते । गुणिते च यल्लभ्यते, तत् पूर्वकल्पोत्कृष्टकायस्थित्यासहितमिष्टप्रस्तटे देवानामुत्कृष्ट काय स्थितिर्भवति । अनेन करणेन लान्तकस्य प्रथम प्रस्तटे सुराणामुत्कृष्ट काय स्थितिर्दश सागरोपमाणि चत्वारश्च सागरोपमस्य पञ्चभागाः (१०३), द्वितीयप्रस्तटे त्रिभिः सागरोपमस्य पञ्चभागैरैरधिकानि एकादश (११३) सागरोपमाणि, तृतीये द्वाभ्यां सागरोपमस्य पञ्चभागाभ्यामधिकानि द्वादश (१२३) सागरोपमाणि, चतुर्थे त्रयोदशसागरोपमाण्येकश्च सागरोपमस्य पञ्चभागः (१३३), पञ्चमे च सम्पूर्णानि चतुर्दश (१४) सागरोपमाणि । तथा महाशु प्रथमप्रस्तटे सुराणामुत्कृष्टकाय स्थितिश्चतुर्दश सागरोपमाणि त्रयश्च सागरोपमस्य चतुर्भागाः (१४३), द्वितीयप्रस्तटे पञ्चदश सागरोपमाणि द्वौ च सागरोपमस्य चतुर्भागौ (१५), तृतीयप्रस्तटे षोडश सागरोपमाण्येकेन सागरोपमस्य चतुर्भागेनाधिकानि (१६४), चतुर्थप्रस्तटे सम्पूर्णानि सप्तदश (१७) सागरोपमाणि । तथा सहस्रारे प्रथमप्रस्तटे सुराणामुत्कृष्टकाय स्थितिः सप्तदश सागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः (१७३), द्वितीयप्रस्तटे सप्तदश सागरोपमाणि द्वौ च सागरोपमस्य चतुभांगौ (१७३), तृतीयप्रस्तटे सप्तदश सागरोपमाणि त्रयश्च सागरोपमस्य चतुर्भागाः (१७३), चतुर्थे चाऽष्टादश (१८) सागरोपमाणि परिपूर्णानि । तथा - Sऽनतकल्पस्य प्रथमप्रस्तटे सुराणामुत्कृष्टकाय स्थितिरष्टादशसागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः (१८३), द्वितीय प्रस्तटे ऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य चतुर्भागौ (१८३), तृतीये त्रिभिः सागरोपमस्य चतुर्भागैरधिकान्यष्टादश (१८) सागरोपमाणि, चतुर्थ एकोनविंशतिः (१९) सागरोपमाणि परिपूर्णानि । तथा प्राणतकल्पस्य प्रथम प्रस्तट एकोनविंशतिसागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः ( १९४), द्वितीय स्तटे द्वाभ्यां सागरोपमस्य चतुर्भागाभ्यामधिकान्ये कोनविंशतिसागरोपमाणि, ( १९३) तृतीयप्रस्तटे त्रिभिः सागरोपमस्य चतुर्भागैरधिकान्येकोनविंशतिसागरोपमाणि (१९३३), चतुर्थप्रस्तटे विंशतिः (२०) सागरोपमाणि परिपूर्णानि । तथा - SSरणकल्पस्य प्रथम प्रस्तटे विंशतिः सागरोपमाण्येकच सागरोपमस्य चतुर्भागः (२०), द्वितीयप्रस्तटे द्वाभ्यां सागरोपमस्य चतुर्भागाभ्यामधिकानि विंशतिसागरोपमाणि (२०) Page #21 -------------------------------------------------------------------------- ________________ १८ ] काय स्थितिप्रकरणम् [ बादरै केन्द्रियादीनामुत्कृष्टकाय स्थितिः तृतीयप्रस्तटे त्रिभिः सागरोपमस्य चतुर्भागैरधिकानि विंशतिसागरोपमाणि ( २० ) । चतुर्थप्रस्तटे चैकविंशतिः (२१) सागरोपमाणि परिपूर्णानि । तथाऽच्युतकल्पस्य प्रथमप्रस्तट एकविंशतिः सागरोपमाण्येकश्च सागरोपमस्य चतुर्भागः, द्वितीयस्तर एकविंशतिसागरोपमाणि द्वौ च सागरोपमस्य चतुर्भागौ (२१३), तृतीयप्रस्तट एकविंशतिसागरोपमाणि त्रयश्च सागरोपमस्य चतुर्भागाः (२१), चतुर्थप्रस्तटे च द्वाविंशतिः (२२) सागरोपमाणि । नव ग्रैवेयकेषु प्रत्येकमेक एव प्रस्तटो भवति, तेन तत्र पूर्वोक्तैव त्रयोविंशतिसागरोपमादीनि क्रमेणोत्कृष्टकापस्थितिर्भवति । पञ्चानुत्तराणां तु सम्मुदितानामेकप्रस्तटत्वात् तेषां सर्वेषामुत्कृष्टकायस्थितिस्त्रयस्त्रिंशत् (३३) सागरोपमाणि भवति । तदेवमभिहिता देवगतेरेकोनत्रिंशतो भेदानामेकजीवाश्रितोत्कृष्टकायस्थिति:, प्रसङ्गतश्च टीकायां सैव प्रतिप्रस्तटं निरूपिता ॥७,८,९ ॥ सम्प्रतीन्द्रियमार्गणाया भेदप्रभेदानामुत्कृष्टकाय स्थितिर्निरूपणीया । तत्रैकन्द्रियसामान्यमार्ग णायाः प्रागभिहिता, तेन बादरै केन्द्रियमार्गणायाः सूक्ष्मैकेन्द्रियादीनां च तां वक्तुकामः समानवक्तव्यत्वादन्या अपि मार्गणाः संगृह्य आह अंगुल असंखभागो बायरएगिंदियस्स सुहुमाणं । तह पुहवाइ उन्हं या लोगा असंखेजा ॥ १० ॥ (प्रे०) 'अंगुल०' इत्यादि, 'अड्गुला संख्यभागः' क्षेत्रतोऽङ्गुलस्याऽसंख्येयभागो 'बादरैकेन्द्रियस्य' बादरैकेन्द्रियमार्गणाया एकजीवाश्रितोत्कृष्ट कावस्थितिर्भवति । इदमत्र तात्पर्यम् - अड्गुलमात्रक्षेत्रस्याऽसंख्येयतमे भागे य आकाशप्रदेशाः तेषां प्रतिसमयमेकैकप्रदेशा- पाहा रे क्रियमाणे यावत्यो-ऽसंख्येया उत्सर्पिण्यवसर्पिण्यो व्यतिक्रामन्ति, उत्कृष्टतस्तावतीरुत्सर्पिण्य वसर्पिणीर्यावद् बादरनामकर्मोदयवर्ती एकेन्द्रियजीवः पुनः पुनर्बादरैकन्द्रियत्वेनोत्पद्यमानोऽवतिष्ठते, ततः परं तद्भावं परित्यज्य भावान्तरं भजते । न चाऽङ्गुला - ऽसंख्येयतमभागस्य प्रतिसमय मे कैक प्रदेशा-पहारे-ऽसंख्येया उत्सर्पिण्यवसर्पिण्यः कुतो व्यतिक्रामन्तीति वाच्यम्, क्षेत्रस्य सूक्ष्मत्वात् उक्तं च "सुहुमो य होइ कालो तत्तो सुहुमयरयं हवइ वित्तं" इत्यादि । न चैतावत्युत्कृष्टकायस्थितिर्नादरैकेन्द्रियमार्गणायाः स्वमनीषिकयाऽभिहिता, श्रीजीवसमासादावभिहितत्वात् तथा चात्र जीवसमास:-‘“अंगुलअसंखभागो बादर एगिंदियतरूण" इति । तदवचूरि :- तथांगुला संख्येयभागप्रदेशापहरणकालं यावद् बादरै केन्द्रियस्तरुपर्यवसान तद्भावमपरित्यजन्तास्ते असंख्येया उत्सर्पिण्यवसर्पिण्य इत्युक्त भवति । , , Page #22 -------------------------------------------------------------------------- ________________ सूक्ष्मैकेन्द्रियादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् [ १९ 'सुहमाणं' इत्यादि, 'सूक्ष्माणां' "व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम् ।" इति न्यायेन षण्णां सूक्ष्मसामान्यानां पर्याप्ताऽपर्याप्तत्वविशेषणविरहितानां सूक्ष्मैकेन्द्रिय सूक्ष्मपृथिवीकाय-सूक्ष्माऽकाय-सूक्ष्मतेजःकाय-सूक्ष्मवायुकाय-सूक्ष्मसाधारणशरीरवनस्पतिकायानामित्यर्थः, 'तथा' तथाशब्दः समुच्चये, 'पृथिव्यादिचतसृणाम्'अविवक्षितपर्याप्ता-ऽपर्याप्तत्वभेदानां सूक्ष्मवादरविशेषणविरहितानां च पृथिवीकाया-ऽप्काय-तेजःकाय-वायुकायलक्षणचतुर्मार्गणानां प्रत्येकं ज्ञेया' एकजीवाश्रयोत्कृष्टकायस्थितिर्बोध्या, कियती ? इत्याह-'लोका असंखेजा'त्ति, 'लोका असंख्येयाः क्षेत्रतोऽसंख्येयलोकाः, असंख्येयलोकाकाशप्रदेशेषुप्रतिसमयमेकैकप्रदेशा-ऽपहारेणा-ऽपह्रियमाणेषु यावत्यो ऽसंख्येया उत्सर्पिण्यवसर्पिण्यो व्यतिकामन्ति, तावतीर्यावत् सूक्ष्मैकेन्द्रियादयो जीवाः पुनः पुनस्तत्रैवोत्पद्यमानास्तद्भावममुश्चन्तो-ऽवतिष्ठन्ते, यदुक्तं श्रीप्रज्ञापनासो-"सुहुमे णं भंते ! सुहुमे त्ति कालतो केवचिरं होति ? गो० ! जह० अंतो०, उ. असंखेज्जकालं असंखेज्जामो उस्सप्पिणितो ओसप्पिणीओ कालतो, खेत्ततो असंखेज्जा लोगा,सुहुमपुढविकाइते सुहुमाउका० सुहुमतेउका सुहुमवायुका० सुहुमवणप्फइकाइते० गोदे विज0 अंतोमहत्तं उक्को० असंखेज्जकालं असंखिज्जा लोगा। xxxx पुढविकाइएणं पुच्छा गोयमा ! जहन्नेण अंतोमुहुत्तं उक्कोसेणं असंखेज्जकालं असंखेज्जाओ उस्सप्पिणितो मोसप्पिणीओ कालतो, खेत्ततो भसंखेज्जा लोगा, एवं उ-तेउ-वा उकाइया वि।" इति । इह यद्यपि पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्माणां चैकेन्द्रियाणां प्रत्येकमुत्कृष्ट कायस्थितिरन्तर्मुहूर्तमिता प्रागुक्ता, तथापि कृष्णशुक्लपक्षाभ्यां यथा वर्षादयो निष्पद्यन्ते, तथैव सूक्ष्मपर्याप्ततः सूक्ष्मा-ऽपर्याप्तेषु सूक्ष्मा-ऽपर्याप्ततश्च सूक्ष्मयप्तिषु च पुनः पुनरुत्पद्यमानाः सूक्ष्मैकेन्द्रियजीवा उत्कृष्टतोऽसंख्येयलोकान् यावत् सूक्ष्मभावं न परित्यजन्ति । एवं सूक्ष्मपृथिवीकायादीनामपि प्रस्तुतकायस्थितिर्भावनीया, नवर पृथिवीकायादिसामान्यमार्गणानां बादरत्वमाश्रित्याऽपि कायस्थितेर्भावना कार्या ॥१०॥ ___ सम्प्रति पर्याप्तवादरैकेन्द्रियमार्गणाया एकजीवाश्रयामुत्कृष्टकायस्थितिमभिधातुकामस्तत्सा. म्यादन्या अपि मार्गणाः संगृह्य प्राह बायरपज्जेगिंदिय-भू-दग-पत्तेअ-वाउ-विगलाणं। संखेज्जसहस्ससमा समत्तबेइंदियस्स संखसमा ॥११॥ (गोतिः) ___ (प्रे०) वायर०'इत्यादि, 'शादरपर्याप्तकेन्द्रिय-भू-दग-प्रत्येक-वायु-विकलानाम् एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, बादरपर्याप्तविशेषणं वाय्वन्तैः पञ्चभिः सह युज्यन्ते । तत्राऽपि प्रत्येकवनस्पतिकायस्य यद् बादरत्वं विशेषणम् , तत् स्वरूपदर्शनपरम् , प्रत्येकवनस्पतिकायजीवानां सूक्ष्मत्वाभावात् , ततश्था ऽयमर्थः-बादरपर्याप्तैकेन्द्रियस्य पर्याप्तबादरैकेन्द्रियमार्गणाया बादरपर्याप्तभुवः= पर्याप्तवादरपृथिवीकायमार्गणाया वादरपर्याप्तदकस्य-पर्याप्तवादराऽप्कायमार्गणास्थानस्य बादरपर्याप्तप्रत्येकस्य बादरविशेषणस्य स्वरूपदर्शनपरत्वात् पर्याप्तप्रत्येकवनस्पतिकायमार्गणाया बादरपर्याप्त वायोः पर्याप्तवादरवायुकायमार्गणाया विकलानां विकलेन्द्रियाणाम् , विकलानि असम्पूर्णानि इन्द्रि Page #23 -------------------------------------------------------------------------- ________________ २० । कायस्थितिप्रकरणम् [पर्याप्तबादरैकेन्द्रियादीनामुत्कृष्टकायस्थितिः याणि येषाम् ; ते विकलेन्द्रियाः द्वित्रिचतुरिन्द्रियाः, तेषां पर्याप्ताऽपर्याप्तविशेषणवियुक्तानां प्रत्येकमित्यर्थः, 'संख्येयवर्षसहस्रसमाः' संख्येयानि वर्षसहस्राण्येकजीवाश्रयोत्कृष्टा कायस्थितिज्ञेया । एतदुक्तं भवति-पर्याप्तवादरैकेन्द्रियस्तद्भावमपरित्यजन्नुत्कृष्टतः संख्येयसहस्रवर्षाणि यावदुत्पद्यते, परतो भावान्तरं भजते, उक्तं च पञ्चसंग्रहवृत्तौ-"बादरपर्याप्तानामेकेन्द्रियाणांभूयो भूयः पर्याप्तबादरैकेन्द्रियत्वेनोत्पद्यमानानां कायस्थितिजघन्यतोऽन्तमुहर्त उत्कर्षतः संख्येयानि वर्षसहस्राणि । उक्त च-"चादरेगिंदियपज्जत्तएणं भंते ! बादरेगिरियपज्जत्तए त्ति कालओ केवचिरं होइ ? गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सखेजाई वाससहस्साइ।" इति ।। इयं च बादरपर्याप्तकेन्द्रियकायस्थितिचिन्ता बादरपर्याप्तकेन्द्रियत्वं सामान्यमात्रमधिकृत्य कृता । अथ विभागतो बादरपर्याप्तपृथिवीकायिकत्वाद्यधिकृत्य कायस्थितिश्चिन्त्यते, वादरपर्याप्तथिवीकायिकस्य भूयो भूयः पर्याप्तवादरपृथिवीकायिकत्वेनोत्पद्यमानस्योत्कर्षतश्च संख्पेयानि वर्षसह. स्राणि गच्छन्ति । एवं वादरपर्याप्ताप्कायिकप्रत्येकशरीरवनस्पतिकायिकानामपि भाव्योत्कृष्टकायस्थितिः, बादरपर्याप्ततेजःकायिकानां पुनर्जघन्यतोऽन्तमुहूर्तमुत्कर्षतश्च संख्येयानि रात्रिदिनानि । उक्तं च श्रीप्रज्ञापनायाम्-"बायरपुढविकाइयपज्जत्तए त्ति कालओ केवचिरं होइ ? गोयमा ! जहनेण अंतोमुहुत्तं, उक्कोसेणं संखेज्जाई वाससहस्साई, एवं आउकाए वि। बायरतेउकाइयपज्जत्तए णं भंते ! बायरतेउकाइयपज्जत्तए त्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जा राइ दियाई। याउकाइए पत्तेयसरीरवादरवणप्फइकाइये पुच्छा, गो० ! ज० अंतो०, उ० संखे. ज्जाइ वाससहस्साई।" इति। तथा विकलेन्द्रियाणां द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियरूपाणां प्रत्येकं कायस्थितिरुन्कर्षतः संख्येयानि वर्षसहस्राणि । तथा चोक्तं श्रीप्रज्ञापनासूत्रे-“बेइंदिये णं भंते ! बेइंदिए त्ति कालो केवचिरं होइ ? गोयमा ! जहन्नेण अंतोमुहुत्तं उक्कोसेणं संखेज्जाई कालं, एवं तेइंदियचरिदिए वि । इति ।” एवं पञ्चसङ्ग्रहेऽप्युक्तम्-बायरपज्जेगिंदियविगलाण य वाससहस्ससंखेज्जा ।" इति । पर्याप्ताऽपर्याप्तनामकर्मोदयविरहितानां विकलेन्द्रियाणां कायस्थितिरभिहिताऽस्यामेव गाथायाम् ,अपर्याप्तनामकर्मोदयवर्तीनां तु“सबापज्जताणं इत्यादि गाथाद्वयेनाऽभिहिता। सम्प्रति पर्याप्तनामकर्मोदयविशेषितानां विकलेन्द्रियाणां-तां वक्तुकाम आदौ तावत् पर्याप्तद्वीन्द्रियस्य भणति-'समत्त.' इत्यादि, 'समाप्तद्वीन्द्रियस्य' पर्याप्तद्वीन्द्रियमार्गणायाः 'संख्यसमाः' संख्यातवर्षाण्येकजीवाश्रितोत्कष्टकायस्थितिः, उक्तं च श्रीप्रज्ञापनासूत्रे-"बेइदियपज्जत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सखेज्जा वासाइ'' इति ॥११॥ . एतर्हि पर्याप्तत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तवादरवायुकायमार्गणाश्च प्रस्तुतकायस्थितिं भणितुकाम आह पजतगतेइंदियबायरतेऊण होइ संखेज्जा। दिवसा संखियमासा समत्तवउइंदियस्स भवे ॥१२॥ Page #24 -------------------------------------------------------------------------- ________________ पर्याप्तत्रीन्द्रियादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् [ २१ (०) 'पज्जत०' इत्यादि, 'पर्याप्तकत्रीन्द्रियवायर तेजसोः ' पर्याप्तस्य प्रत्येकं योजनात् पर्यासत्रीन्द्रियमार्गणायाः पर्याप्तबादर तेजः काय मार्गणायाश्च ' संख्येयाः' संख्याताः 'दिवसाः ' अहोरात्राः 'भवति' एकजीवाश्रयोत्कृष्टकाय स्थितिः सम्पद्यते यदुक्तं श्रीप्रज्ञापनासूत्रे - " तेइ दियपज्जत्तए णं पुच्छा, गोयमा ! जहन णं तोमुहुत्तं उक्कोसेणं संखेजाई राइ दियाई । xxx ते उकाइयपज्ज० पुच्छा, गो० ! ज० अंतो०, उ० संखेज्जाइ राइ दियाइ ।" इति । 9 पुच्छा, अथ पर्याप्त चतुरिन्द्रियस्य प्रकृतकाय स्थिति भणति - संखिय ० ' इत्यादि, ' संख्यमासाः ' संख्यातमासाः 'समाप्तचतुरिन्द्रियस्य' पर्याप्तचतुरिन्द्रियमार्गणास्थानस्य ' भवेत्' एकजीवाश्रितोत्कृष्टकाय स्थितिः स्यात् उक्तं च श्रीप्रज्ञापनासूत्र आर्यश्यामपादैः - "चडरिंथिपज्जत्तए णं भंते ! गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जा मासा ।" इति ॥ १२ ॥ सम्प्रति पञ्चेन्द्रियादिमार्गणास्थानानामेकजीवाश्रितोत्कृष्टकायस्थितिं वक्तुकामः प्राहपंचिंदियचक्खूण- ऽहियुदहिसहस्सं तसस्स तं दुगुणं । पज्जपणिदितसपुरिससण्णीणा - ऽयरसयपुहुत्तं ॥ १३॥ (प्रे०) 'पंचिंदिय०' इत्यादि, 'पञ्चेन्द्रियचक्षुषोः' पञ्चेन्द्रियसामान्यमार्गणायाश्चक्षुदर्शनमार्गणायाश्च प्रत्येकम् 'अधिकोद घिसहस्र' पूर्वकोटिपृथक्त्वेनाऽधिकम् उदधीनां = सागरोपमाणां सहस्रमेकजीवश्रितोत्कृष्टकाय स्थितिर्भवति, यदुक्तं श्रीप्रज्ञापनासूत्रे - 'पंचिदिएणं भंते ! पंचिदिए त्ति कालतो केवचिरं होइ ? गोयमा ! जहन्नणं भतोमुहुत्तं उक्कोसेण सागरोषमसहस्सं साइरेगं । xxxx चक्खुदंसणी णं भंते! पुच्छा, गो० ! जह० अंतो० उक्कोसेणं सागरोवमसहस्सं सातिरेगं ॥” इति । 'तसस्स' इत्यादि, 'सस्य' पर्याप्ताऽपर्याप्तविशेषणरहितस्य त्रसकायसामान्यमार्गणास्थानस्य 'तत्' तच्छब्दस्य पूर्ववस्तुपररामर्शित्वात् साधिकसागरोपम सहस्रं द्विगुणं, साधिकं सागरोपमसहस्रद्वयमित्यर्थः, एकजीवाश्रयोत्कृष्ट कार्यस्थितिरिति गम्यते । साधिकत्वं च संख्येयवषैर्बोध्यम्, उक्तं च प्रज्ञापनासूत्र काय स्थितिपदे - " XX X तसकाइय त्ति कालओ केवचिरं होइ ? गोयमा ! जद्दण्णेणं अंतोमुहुत्तं एक्कोसेणं दो सागरोवमसह साइं संखेज्जवास - Sब्नहियाई ।” इति । 'पज्ज' ० इत्यादि, 'पर्याप्तपञ्चेन्द्रियत्र स पुरुषसंज्ञिनां' कृतद्वन्द्वा एते षष्ठ्या निर्दिष्टाः, पर्याप्तशब्दस्य च द्वाभ्यामभिसम्बन्धात् पर्याप्तपञ्चेन्द्रियस्य = पर्याप्त पञ्चेन्द्रियमार्गणायाः पर्याप्तसस्य = पर्याप्तत्रस काय मार्गणायाः पुरुषस्य - पुरुषवेदमार्गणाया: संज्ञिन: - संज्ञिमार्गणायाश्च प्रत्येकम् 'अतरशतपृथक्त्वं' सागरोपमशतपृथक्त्वमेकजीवाश्रयोत्कृष्टकायस्थितिर्भवति, उक्तं च प्रज्ञापनासूत्रे - " पंचिदियपज्जतए त्ति कालतो केवचिर होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण सागरोमसयपुहुत्तं । इति । इह पर्याप्तत्र सकायादिमार्गणानां तु सागरोपमशतपृथक्त्वं सातिरेकं वक्तव्यं ग्रन्थान्तरेषु तथोक्तत्वात् । तथा चात्र प्रज्ञापनासूत्रम् २८ अ Page #25 -------------------------------------------------------------------------- ________________ २२ ] काय स्थितिप्रकरणम् [ निगोदादीनामुत्कृष्टकायस्थितिः "तसकाइयपज्जत्तर पुच्छा, गोयमा । जहन्नेणं अतोमुहुतं, उक्को सेणं सागरोवमसयपुहुत्तं सातिरेगं " xxxx पुरिसवेदे णं भंते ! गो० ! जह० भतो०, उक्को० सागरोबमसतपुहुत्तं सातिरेगं । xxxx सणी णं भंते! पुच्छा, गो० ज०भ तो०, उ० सागरोवमसयपुहुत्तं सातिरेगं ।" इति । एवं जीवसमासे. ऽपि— पुरिसन्तं सण्णित्तं च सय ुहुत्तं च उयहीणं ॥ १||" इति । तदेवमभिहिता इन्द्रियमार्गणाया अन्यासां च कियतीनाश्चित् कायभेदादिमार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिः ॥१३॥ सम्प्रत्यवशिष्टानां कायभेदानामेकजीवाश्रयामुत्कृष्टकायस्थितिं वक्तुकाम आहअद्धत अपरिअट्टा भवे णिगोअस्स होइ कम्मठिई । बायरपुहवाइचउगणि गोअपत्ते अहरिआणं ॥ १४ ॥ (प्रे०) 'अडतइअ०' इत्यादि, 'अर्धतृतीयपरावर्ताः' पदैकदेशेन पदसमुदायस्य गम्यमानत्वात् परावर्तशब्देन पुद्गलपरावर्तस्य ग्रहणं कर्तव्यम्, अर्धस्तृतीयो येषाम् तेऽर्धतृतीयाः, अर्धतृतीयाच ते पुद्गल परावर्ताच अर्धतृतीयपुद्गलपरावर्ता:= सार्धपुद्गलपरावर्तद्वयमित्यर्थः, 'निगोदस्य' साधारणशरीरवनस्पतिकाय मार्गणायाः प्रक्रमाद् एकजीवाश्रयोत्कृष्टकायस्थितिः 'भवेत्' स्यात् । साधारणशरीरवनस्पतिकायत्वेन पुनः पुनरुत्थमानस्तद्भावम परित्यजन्नुत्कृष्टतोऽर्धतृतीयान् पुद्गलवपरार्तान् यावदवतिष्ठते, ततः परमन्यत्राऽवश्यमुत्पद्यत इति तात्पर्यम्, यदुक्तं श्री प्रज्ञापनासूत्रकायस्थितिपदे - "निगोदे णं भंते ! निगोए त्ति के चिर होति ? गो० ! जह० अतो०, उक्कोसेणं अणताओ उस्सपिणीमसप्पिणीओ कालतो, खेत्ततो भड्ढाइज्जा पोग्गलपरियट्टा ।" इति । " ननु साधारण वनस्पतिकायस्योत्कृष्ट कार्यस्थितिर्यथोक्तप्रमाणा भवति, तर्हि निगोदसामान्यतः पृथग्भूतानां बादरनिगोदानां कियती भवति सा १ इति शङ्काऽपनोदाय बादरसाधारणवनस्पतिकायस्य प्रस्तुतकायस्थितिं वक्तुकामोऽन्या अपि मार्गणाः संगृह्य प्राह - 'होइ' इत्यादि, 'भवति' विद्यते एकजीवाश्रितोत्कृष्ट काय स्थितिः 'कर्मस्थितिः' कर्मशब्देना - ऽत्र मोहनीयं विवक्षितम् तेन मोहनीय कर्मणो योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटी कोटी प्रमिता, सा 'बादरपृथिव्यादिचतुष्कनिगोद प्रत्येकरितानां' बादरविशेषणं प्रत्येकं योज्यम्, नवरं प्रत्येकहरितेन सह न योज्यम्, व्यभिचाराभावात्, ततश्चाऽयमर्थः - बादरपृथिव्यादिचतुष्कस्य = चादरपृथिवी काथ-बादराष्काय-वायर तेजः काय- बादरवायुकायलक्षणस्य प्रत्येकं बादरनिगोदस्य = वादरसा वारणशरीरवनस्पतिकायमार्गणाभेदस्य प्रत्येक हरितस्य = पर्याप्ताऽपर्याप्तविशेषणरहितस्य प्रत्येकशरीरवनस्पतिकाय सामान्यमार्गणास्थानस्य च । बादरपृथिवीकायादयः प्रत्येकं स्वस्वकाये पुनः पुनरुत्पद्यमानाः सप्ततिसागरोपमकोटीकोटीर्यावदासते, ततः परमन्यत्रोत्पद्यन्त इति भाव:, यदुक्तं प्रज्ञापनासूत्रे - "बादर 5 षट्खण्डागमे तु - ' पुरिसवेदा केवचिर कालादो होंति, जहणणेणं अंतोमुहुत्तं उक्कस्सेण सागरोपमसदपुधत्तं xxx सणियाणुवादेणं सण्णी केवचिर कालादो होंति । जद्दण्णेण खुद्दाभवग्गणं उक्कस्सेणं सागरोपमसदपुधत्तं ।” इत्युक्तम् । Page #26 -------------------------------------------------------------------------- ________________ भौदारिकयोगादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् [ २३ पुढविकाइए णं भंते ! पुच्छा, बायरपुढविकाइए त्ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण सत्तरि सागरोवमकोडाकोडीतो, एवं बादरआउक्काइए वि जाव बायरतेउकाइए वि, बादरवाउकायइए वि | xxxx पत्तेयसरीरबायरवणप्फइकाइए णं भंते ! पुच्छा, गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ । बादरनिगोदे णं भते ! बायरनिगोए त्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तरि सागरोवमकोडाकोडीतो।" इति । तदेवं भणिता कायमार्गणाभेदानां कायस्थितिस्तत्साम्याच्चान्यासामपि मार्गणानाम् ॥१४॥ सम्प्रत्यवशिष्टानां योगमार्गणानां स्त्रीवेदमार्गणायाश्च कायस्थिति वक्तकाम आहबावीससहस्ससमा देसूणुरलस्स तिसमया णेया। कम्माणाहाराणं पल्लसयपुहुत्तमित्थीए ॥१५॥ (प्रे०) 'बावीस.' इत्यादि, 'द्वाविंशतिसहस्रसमा देशोनाः' अन्तर्मुहूर्तन्यूना द्वाविंशतिसंहस्रवर्षा औदारिकस्य' औदारिककाययोगस्योत्कृष्टकायस्थितिर्भवति । इयमत्र भावना-कश्चिद् द्वाविंशतिसहस्रवस्थितिकखरबादरपृथिवीकायिकेपत्पद्यते, पृथिवीकायिकस्योत्कृष्टतो भवस्थितेविंशतिसहस्रवर्षप्रमाणत्वात् , यदुक्तं श्रीप्रज्ञापनासो-"पुढविकाइया णं भंते केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बाबीसं वाससहस्साई" इति । उत्पादकाले चाऽन्तर्मुहूतं यावत् करणा-ऽपर्याप्ता-ऽवस्थायां तस्यौदारिकमिश्रकाययोगो भवति, ततः परमाजीवनमौदारिककाययोगो भवति, मरणानन्तरं चौदारिकमिश्रकाययोगः कार्मणकाययोगो वा सम्पद्यते, तेनौदारिककायस्यैकजीवाश्रयोत्कृष्ट कायस्थितिरन्तर्मुहूर्त न्यूनद्वाविंशतिसहस्रवर्षाणि लभ्यते ।। न चा-ऽसंख्येयवर्षायुष्कान् नरतिरश्चोऽधिकृत्यौदारिककाययोगस्योत्कृष्टकायस्थितिरन्तर्मुहूर्तन्यूनत्रिपल्योपमाणि कुतो न लभ्यते, तेषां भवस्थितेस्तावन्मात्रत्वादिति वाच्यम् , तेषां प्रत्यन्तमहतं योगपरावृत्तेः । तथाहि-असंख्येयवर्षायुष्काणां जीवानां स्वपर्याप्तिषु पूरितासूत्कृष्टतोऽन्तर्मुहूर्तावमौदारिककाययोगतो मनोयोगो वचनयोगो वा भवति, मनोयोगत औदारिककाययोगो वचनयोगो वा भवति, एवं वचनयोगतो योगान्तरं भवति । इत्थमसंख्येयवर्षायुषां जीवानां मनोयोगवचनयोगयोरपि सद्भावादुत्कृष्टत औदारिककाययोगस्योत्कृष्टकालो देशोनत्रिपल्योपमानि न लभ्यते, किन्त्वन्तमुहूर्तम् । एकेन्द्रियाणां तु मनोवचनयोगाभावात् केवल औदारिककाययोगो देशोनद्वाविंशतिसहस्रवर्षाणि यावदवतिष्ठते । 'तिसमया' इत्यादि,त्रिसमयाः 'ज्ञेया' एकजीवाश्रितोत्कृष्टकायस्थितिः, कयोः १ इत्याह'कम्माणाहाराणं' ति, 'कार्मणाऽऽनाहारयोः' कार्मणकाययोगमार्गणाया अनाहारकमार्गणायाश्च प्रत्येकम् । ननु सिद्धानाश्रित्या-ऽनाहारकमार्गणाया उत्कृष्टकायस्थितिः साद्यपर्यवसिता लभ्यते, तत्कथं त्रिसमयप्रमाणैवोच्यत इति वाच्यम् ,बन्धक नरपेक्षकायस्थितेरग्रेक्ष्यमाणत्वादिह प्रकृतिबन्धापेक्षया कार्यास्थतेरुक्तत्वात् , सिद्धानां च प्रकृतिबन्धा-ऽभावात् । सयोगिकेवलिनः समाश्रित्या३ब Page #27 -------------------------------------------------------------------------- ________________ २४ ] कायस्थितिप्रकरणम् [स्त्रीवेदादीनामुत्कृष्टकायस्थितिः ऽनाहारककामणकाययोगमार्गणयोस्त्रिसामयिककालः समुद्घातावस्थायां लभ्यते, छअस्थान् प्रतीत्य तु विग्रहगतौ लभ्यते, चतुःसामयिक्या विग्रहगतेः प्रकृतग्रन्थे विवक्षितत्वात् । अथ स्त्रीवेदस्योत्कृष्टकायस्थिति भणति-'पल्ल.' इत्यादि, पल्योपमशतपृथक्त्वं 'स्त्रियः' स्त्रीवेदमार्गणाया एकजीवाश्रयोत्कृष्टकायस्थितिर्भवति , यदुक्तं जीवसमासे-"इत्थिणं पल्लसयपुहुत्तं तु।" इति । स्त्रीवेदकायस्थितेनिरूपणमनेकधा प्रन्थान्तरेषु दृश्यते । तद्यथा-"द्रव्यस्त्रीवेदोदयः पल्योपमशतपृथक्त्वं यावदुत्कृष्टतो भवति ।" इति पञ्चसंग्रहमूलवृत्तौ,एवं श्रीशीलाचार्यकृतजीवसमासवृत्तावपि । पञ्चसंग्रहमलयगिरीयवृत्तौतु"तथा'थी पलियसयपुहुत्त' त्ति स्त्रीवेदो जघन्यत एकं समय, उत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च।" इति । सिद्धान्ते पुनः प्रज्ञापनासूत्रे स्त्रीवेदस्योत्कृष्टकायस्थितिचिन्तायामार्यश्यामपादैः पञ्चादेशाः प्ररूपिताः । तथाहि-"इस्थिवेदे णं भंते ! इत्थिवेदे त्ति काल० ? गो० ! एगेणं आदेसेणं जह० एक्कं समयं, उक्को० दसुत्तरं पलिभोवमसतं पुव्वकोडिपुहुत्तमन्भहियं ॥१।। एगेणं आदेसेणं जह• एगं समयं, उक्को० अट्ठारसपलितोवमाइं पुषकोडिपुहुत्तमम्भहियाई ॥२॥ एगेणं आदेसेणं ज० एगं समय, उक्को० चउहस पलिओवमाई पुत्वकोडिपुहुत्तभन्महियाई ॥३॥ एगेण आदेसेणं ज० एगं समयं, उक्को पलिओवमसतं पुवकोडिपुहुत्तमम्भहियं ॥४॥ एगेण भादेसेणं जह• एगं समय, उक्को० पलितोवमपुहुत्त पुव्वकोडिपुहुत्तमब्भहिमं ॥५॥" इति । इह केवलिनामतिशयज्ञानिनां चैक एवादेशः प्रमाणम् ,अतिशयज्ञानशक्तिविकलानां छमस्थानां तु पञ्चाऽपि, यतोऽनन्तरोक्तपञ्चानामादेशानां मध्ये ऽन्यतमादेशसमीचीनतानिर्णयः केवलज्ञानिभिर्विशिष्ट. श्रुतलब्धिसम्पन्नैर्वा कर्तुं शक्यते । तेन शेमुषीशालिभिर्विद्वज्जनैः स्त्रीवेदस्य प्रस्तुतकायस्थितिरेकजीवाश्रिताऽऽगमा ऽविरोधेन परिभावनीया ॥१५॥ सम्प्रत्यपगतवेदमार्गणाया उत्कृष्टकायस्थितिं भणितुकामो-ऽन्या अपि मार्गणाः संगृह्य प्राहदेसूणपुवकोडी अवेअअकसायकेवलदुगाणं । मणणाणसंजमाणं सामइआईण पंचण्हं ॥१६॥ (प्रे०) देसूण०' इत्यादि, 'देशोनपूर्वकोटिः'देशेन एकदेशेन ऊना=न्यूना पूर्वकोटिः अवेदा-5कषायकेवलद्विकानाम्' अवेदस्य अपगतवेदमार्गणाया अकषायस्य अकषायमार्गणास्थानस्य केवलद्विकस्य केवलज्ञान-केवलदर्शनलक्षणस्य च 'मनोज्ञानसंयमयोः' मनोज्ञानस्य=मनःपर्यवज्ञानमार्गणास्थानस्य संयमस्य संयमसामान्यमार्गणाभेदस्य च 'सामायिकादीनां पश्चानां' सूक्ष्मसम्मरायस्योक्तत्वेनाऽविरतमार्गणायाश्च वक्ष्यमाणत्वेनाऽत्राऽऽदिशब्देन छेदोपस्थानीयसंयम-परिहारविशुद्धिकसंयमयथाख्यातसंयम-देशसंयमानां ग्रहणात् सामायिकसंयम-च्छेदोपस्थापनीयसंयम-परिहारविशुद्धिकसंयम-यथाख्यातसंयम-देशसंयमानां चैकजीवाश्रयोत्कृष्टकायस्थितिर्भवतीति गम्यते । इयमत्र Page #28 -------------------------------------------------------------------------- ________________ अपगतवेदादीनामुत्कृष्ठकायस्थितिः ] कायस्थितिप्रकरणम् . [ २५ भावना-देवगतितो नरकगतितो वा कश्चित् क्षायिकसम्यग्दृष्टिर्मनुष्येषु पूर्वकोटिवर्षायुष्कत्वेनोत्पद्यते । ततः सातिरेकवर्षाष्टकं व्यतिक्रम्य शीघ्रं क्षपकश्रेणिमारोहति, अनिवृत्तिकरणस्य बहुसंख्येयभागादुर्ध्वमवेदभावं प्राप्य सूक्ष्मसम्परायाचोर्धमकषायभावं यथाख्यातसंयमश्चासाद्य सयोगिकेवलिगुणस्थानके केवलद्विकं लब्ध्वा स्वायुष्कचरमान्तमुहृतं यावत् सयोगिकेवलित्वेन विहरति, तं जीवमाश्रित्याऽपगतवेदा-ऽकषाय केवलद्विक-यथाख्यातसंयमलक्षणानां पश्चानां मार्गणानामेकजीवविषयोस्कृष्टकायस्थितिः सातिरेकाऽष्टवर्षन्यूनपूर्वकोटिवर्षाणि लभ्यते । सयोगिकेवलिगुणस्थानकावं तु प्रकृतिबन्धाभावाद् नेहोपरितनकालः प्रस्तुतः।। तथा यः पूर्वकोटिवर्षायुष्को वर्षाष्टकस्योपरि सर्वसंयममासादयति, तत आस्वभवचरमसमपमप्रतिपतितसंयमः संयतत्वेना-ऽवतिष्ठते, मृत्वा च देवलोकं गच्छति, तमाश्रित्य संयमसामान्यमार्गणाया उत्कृष्टकायस्थितिरेकजीवाश्रिता सातिरेकाष्टवर्षन्यूनपूर्वकोटिवर्षप्रमाणा लभ्यते । एवं सामायिक-च्छेदोपस्थापनीय-मनःपर्यवज्ञान-देशविरतिमार्गणानामप्युत्कृष्टकायस्थिति व्या। परिहारविशुद्धिकसंयमस्य प्रकृतकायस्थितिरेकोनत्रिंशद्वर्षन्यूना पूर्वकोटिवर्षाणां बोध्या, जघन्यतो-ऽपि परिहारविशु. द्धिकस्य यतिपर्यायस्य विंशतिवर्षमात्रत्वस्वीकारात् , यदुक्तम्-"परिहारविशुद्धिए णं भंते ! परिहारविशुद्धिए त्ति कालओ केनिचरं होइ ? गोयमा ! जहण्णेण एक्कं समय, उक्कोसेण देसूणाए एगुणतीसाए वासेहिं ऊणिया पुव्वकोटी।" इति ॥१६॥ सम्प्रत्यज्ञानादिमार्गणानामुत्कृष्टकायस्थितिं भणितुकाम आह दुअणाणा-ऽजयमिच्छाणऽणाइणंता अणाइसंता य । साइसपजवसाणा तइया हीणद्धपरियट्टो ॥१७॥ (प्रे०) 'दुअणाणा०'इत्यादि,'द्वयज्ञाना-ऽयतमिथ्यात्वानाम् एते कृतद्वन्द्वाः पष्टया निर्दिष्टाः, द्वयज्ञानयोः मत्यज्ञानमार्गणा-श्रुताज्ञानमार्गणयोः, अयतस्य अविरतमार्गणास्थानस्य मिथ्यात्वस्य =मिथ्यात्वमार्गणायाश्चैकजीवाश्रिता कायस्थितिः 'अनाद्यनन्ता' अनाद्यपर्यवसिता 'अनादिसान्ता' अनादिसपर्यवसिता, चकारो व्यवहितसम्बन्धः समुच्चयार्थकच, स चोत्तरत्र सादिसपर्यवसाना चेति योजनीयः 'सादिसपर्यवसाना च' सादिसान्ता चेति त्रिविधा भवति । तत्रा-ऽभव्यमाश्रित्या ऽज्ञानद्वयमिथ्यात्वमार्गणानां प्रथमविकल्पः, सम्यक्त्वप्राप्त्यसंभवेन कदाचिदप्युक्तमार्गणाऽपरित्यजनात् । येन भव्येनाऽद्यापि सम्यक्त्वं नासादितम् , तमाश्रित्य द्वितीयविकल्पः, आगामिनि काले सम्यक्त्वप्राप्त्या प्रोक्तमार्गणास्थानानामुच्छेदात् । तृतीयविकल्पस्तु सम्यक्त्वतः प्रतिपतितं जीवं प्रतीत्य संभवति, यतः सम्यक्त्वतः पतितस्य प्रोक्तमार्गणानां कायस्थितेः सादित्वम् , उत्कर्षतो देशोनार्धपुद्गलपरावर्तपर्यन्तेऽवश्यं सम्यक्त्वप्राप्त्या कथितमार्गणानां विच्छेदात् सान्तत्वम् , Page #29 -------------------------------------------------------------------------- ________________ २६ । कायस्थितिप्रकरणम् [ मत्यज्ञानादीनामुत्कृष्कायस्थितिः एवमविरतिमार्गणाया अपि कायस्थितिर्भावनीया, नवरं तत्र देशसंयम-सर्वसंयमयोरन्यतरस्य प्राप्त्या घटना कार्या, न तु केवलसम्यक्त्वप्राप्त्या । इह प्रथमविकल्प आदित्वा-ऽन्तत्वाभावाद् द्वितीयविकल्पे चाऽऽदित्वाभावाद् न संभवति जघन्योष्कृष्टा च कायस्थितिः, तृतीये तु संभवति,सादित्वे सति सान्तत्वात् , तेन मत्यज्ञानादिमार्गणानामुत्कृष्टकायस्थिति भणति-'तइया' इत्यादि, 'तृतीया' सादिसान्तलक्षणा एकजीवाश्रितोत्कृष्टकायस्थितिः, 'हीनापुद्गलपरावर्तः' एकदेशेन हीनोऽर्धपुद्गलपरावर्तो देशोनार्धपुद्गलपरावर्तप्रमाणा भवतीत्यर्थः । इयमत्र भावना-कश्चिदनादिमिथ्यादृष्टिर्जीवो-ऽपार्धपद्गलपरावर्तमात्रशेषसंसारः करणत्रयेणौपशमिकसम्यक्त्वं प्रतिपद्यते, ततः षडावलिकाशेषायामौपशमिकसम्यक्त्वाद्धायां सास्वादनं प्रतिपद्यते । ततः प्रभृत्यज्ञानद्विकस्य सादित्वम् । ततो मिथ्यात्वं गच्छति । ततः संसारचक्रे देशोनार्धपुद्गलपरावन यावत् परिभ्रम्या-ऽन्तमुहूर्त्तमात्रशेषसंसारः सम्यक्त्वं प्रतिपद्यते, तमाश्रित्याऽज्ञानद्विकस्योत्कष्टकायस्थितिः सादिसान्तविकल्पपतिता किञ्चिन्न्यूनार्धपद्गलपरावर्तप्रमाणा, अयमत्र विशेषः-इह देशोनार्धपुद्गलपरावर्तः क्षेत्रतो ग्राह्यः, 'मत्र क्षेत्रपुद्गलपरावर्तो गृह्यते' इति वचनात् । एवं मिथ्यात्वस्याऽपि प्रकृतकास्थितिर्भावनीया, नवरं सम्यक्त्वतः पतित्वा मिथ्यात्वं गतस्य मिथ्यात्वमार्गणायाः कायस्थितेः सादित्वं वाच्यम् । एवमेवाऽविरतमार्गणाया अपि कायस्थितिविवेचनीया, नवरं प्रथमौ. पशमिकसम्यक्त्वेन सहैव देशविरति सर्वसंयम वा प्राप्नोति, ततो देशविरतितः सर्व वरतितो वा श्च्युत्वा-ऽविरतिमभ्युपगम्य संसारकानने परिभ्राम्यतीति वाच्यम् , यदुक्तं श्रीप्रज्ञापनासूत्र"मिच्छादिट्ठी गंभंते ! पुच्छा०, गो० ! मिच्छादिट्ठी तिविधे पं० तं०-अणाइए अपज्जवसिए वा भणादीए वा सपजवसिए, सादिए वा सपज्जवसिए, तत्थ णं जे से सादीए सपज्जवसिते, से जह० अतो०, उक्को० अणतं कालं अणंताओ उस्सप्पिणिोसप्पिणीओ कालतो, खेत्ततो अवडढं पोग्गलपरियट्ट देसूणं । xxxxxxxxx अण्णाणी मतिअण्णाणी सुतअण्णाणी पुच्छा, गो. अण्णाणी मइअण्णाणी सुयअण्णाणी तिविधे पं०, तं० अणाइए वा अपज्जवसिए, अणादीए वा. सपज्जवसिते, सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते, से जह० अंतो० उको० अणतं काल, अणंताओ उस्सप्पिणिओसप्पिणीओ कालतो, खेत्तो अवड्ढपोग्गलपरियट्टे देसूण | xxxxx असंजते ण भंते ! असंजए त्ति, पुच्छा, गो० ! असंजते तिविधे पं०, तं0-अणातीए वा अपज्जवसिते अणातीए वा सपज्जवसिते सातीए वा सपज्जवसिते, तत्थ णं जे से सातीए सपज्वसिते, से जह० अं० उक्को० अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तो अवड्ढं पोग्गललपरियÉ देसूर्ण।" इति ॥१७॥ सम्प्रति मतिज्ञानादिमार्गणानामेकजीवाश्रितामुत्कृष्टकायस्थितिं विभणिपुराह. साहिअछसट्ठिजलही तिणाणसम्मत्तवेअगोहीणं । दुविहा अणाइणंता अणाइसंता अचक्खुस्स ॥१८॥ . (प्रे०) 'साहिअ.' इत्यादि, तत्र 'त्रिज्ञान सम्यक्त्व-वेदका-ऽवधीनाम्' एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, त्रिज्ञानानां केवलज्ञानमार्गणा-मनःपर्यवज्ञानमार्गणयोरुक्तत्वाद् मतिज्ञान-श्रुतज्ञानाऽव Page #30 -------------------------------------------------------------------------- ________________ सम्यक्त्वादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् २७ धिज्ञानलक्षणानां त्रयाणां मार्गणास्थानानां सम्यक्त्वस्य सम्यक्त्वसामान्यमार्गणायाः 'वेदकस्य= क्षायोपशमिकसम्यक्त्वमार्गणाया अवधेः अवधिज्ञानस्या-ऽनन्तरमेवोक्तत्वाद् अवधिदर्शनमार्गणायाश्च प्रत्येकं 'साधिकषट्षष्टिजलधयः' सातिरेकाणि षट्षष्टिसागरोपमाण्येकजीवाश्रितोत्कृष्टकायस्थितिभवति । तथाहि-कश्चिन्मनुष्यः सम्यक्त्वेन सहैव मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञानवान् भूत्वा देशोनपूर्वकोटिं यावजीवित्वा त्रयस्त्रिंशत्सागरोपमस्थितिकेषु विजयाद्यनुत्तरेणूत्पद्यते, ततो निर्गत्य पुनर्मनुष्यजन्मन्यप्रतिपतितसम्यक्त्वप्रस्तुतज्ञानत्रयः पूर्वकोटि जीवित्वा त्रयस्त्रिंशत्सागरोपमस्थितिकेष्वनुत्तरेषु पुनरुत्पद्यते, ततोऽप्रतिपतितसम्यक्त्वप्रकृतज्ञानत्रयो भूयो मनुष्येषु समुत्पन्नः पूर्वकोटी जीवित्वा सिद्धयतीत्येवं पूर्वकोटित्रयप्रमाणेन त्रिमनुष्यभवायुष्केणा-ऽधिकानि षट्षष्टिसागरोपमाणि सम्यक्त्वसामान्य-मतिज्ञान श्रुतज्ञाना-ऽवधिज्ञानमार्गणानामेकजीवाश्रयोत्कृष्टा कास्थितिर्भवति, परतस्तु स जीवो मुक्तिमासादयति । अथवाऽप्रतिपतितसम्यक्त्वप्रस्ततज्ञानत्रयो यो मनुष्यत्वेन देशोनपूर्वकोटीं यावद् जीवित्वा द्वाविंशतिसागरोपमस्थितिकेष्वच्युतदेवेषु क्रमेण पूर्वकोव्यायुष्कभवद्वयेनाऽन्तरयित्वा वारत्रयमुत्पद्यते, ततश्वरमभवे पूर्ववत् पूर्वकोट्यायुष्कभवे समुत्पद्यते, तं जीवमाश्रित्य देशोनपूर्वकोटिचतुष्केणाधिकानि षट्पष्टिसागरोपमाणि मतिज्ञानादीनामुत्कृष्टकायस्थितिर्भवति। उक्तंच विशेषाऽऽवश्यकभाष्ये-xxxxxxxxxxxxxxxxअह सागरोवमाइ छाट्ठि सातिरेगाई ॥१॥ दो वारे विजयाईसु गयस्स सिन्नच्चुए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥२॥" इति । ___उक्तं च श्रीप्रज्ञापनासोऽपि-“सम्महिट्ठी दुविहे पं० त०-सादीए वा अपज्जवसिते, सादीए वा सपज्जवसिते । तत्थं णं जे से सादीए सपज्जवसिते । से जह० तो० उक्को० छावहि सागरोवमाई साइरेगाई। xxxx णाणी णं भंते ! णाणि ति काल०, गो. ! णाणी दुविधे ५०, ०-सातीते वा अपज्जवसिते साइए वा सपज्जवसिते, तत्थं णं जे से सादीए सपज्जवसिते, से जहण्णेणं अतो. उक्को० छावहिँ सागरोवमाई साइरेगाई। अभिनिबोहियणाणी णं पुच्छा, गो० एवं चेव, एवं सुयणाणी वि, ओहिनाणी वि एवं चेव। ___अधिदर्शनस्योत्कृष्टकायस्थितिः सैद्धान्तिकाभिप्रायेण तु सातिरेके द्वे षट्पष्टी सागरोपमाणां भवति, विभङ्गज्ञानिनामपि अवधिदर्शनस्वीकाराव , यदुक्तं श्रीप्रज्ञापनासूत्र-"भोहिदसणी णं पुच्छा, गो० जह० एगं समय, उक्को० दो छावट्ठीओ सागरोवमाणं साइरेगाओ।" इति । भावना तु श्रीप्रज्ञापनावृत्तितो-ऽअसेया । कार्मग्रन्थिकाः पुनराहुः-यद्यपि साकारेतरविशेषभावेन विभङ्गज्ञानतोऽवधिदर्शनं पृथगस्ति , तथापि न सम्यग्निश्चयो जायते विभङ्गज्ञानेन , मिथ्यात्वसंमिश्रत्वात् , नाऽप्यवधिदर्शनेन, तस्यानाकारमात्रत्वात् , अतः किं तेन पृथग् विवक्षितेना-ऽपीति । इत्थं कार्मग्रन्थिकाभिप्रायेण न विभङ्गावस्थायामवधिदर्शनम् । तस्मात् तन्मतेऽवधिज्ञानवदवधिदर्शनस्या-ऽपि कायस्थितिः सातिरेकाणि षट्षष्टिसागरोपमाणि लभ्यते । एवं क्षायोपशमिकसम्यक्त्वस्याऽपि कायस्थिति वनीया । उक्तं च श्री सम्यक्त्वप्रकरणे-"xxx साहियतित्तीससायर, खइलो दुगुणो खओवसमो ॥१॥' इति । तथा च Page #31 -------------------------------------------------------------------------- ________________ २८ ] कायस्थितिप्रकरणम् क्षायोपशमिकसम्यक्त्वादीनामुत्कृष्टकाय स्थितिः तदवचूरि :- "क्षायोपशमिकस्य तु द्वादशदेवलोके द्वाविंशतिसागर स्थितौ वास्त्रयगमनापेक्षया ज्ञेयम्, साधितुरभवायुःप्रक्षेपात् ।" इति । मतान्तरेण पुनः क्षायोपशमिकसम्यक्त्वस्योत्कृष्टकाय स्थितिः सागरोपमाणां षट्षष्टिर्भवति, कथमेतदवसीयते ? इति चेत्, उच्यते - श्रीकर्मप्रकृतिचूर्णिकारैमिथ्यात्वस्यान्तरप्ररूणायां सम्यक्त्वस्य कालः षट्षष्टिसागरोपमप्रमाणो उद्भावितः, तथा चाsत्र श्री कर्मप्रकृतिचूर्णि :- " को विमिच्छत्ताओ सम्मत्तं गओ छाट्टसागरोत्रमा सम्मत्तकालो, तो तो सम्मामिच्छत्तं गभो, पुणो सम्मत्तं परिवन्नो छात्र सागरोवमाइ अणुपाले, तयते य सिज्झ, मिच्छतं वा पडिवज्जइ, एवमुक्को सेणं अंतोमुहुत्त भहियाओ दो छात्रट्ठीओ सारोमाणं मिच्छत्तस्स अन्तरकालो व ति ।" इति । , साम्प्रतमचक्षुर्दर्शनमार्गणायाः कायस्थितिं भणति - 'दुबिहा' इत्यादि, तत्र 'अचचुषः ' अचक्षुर्दर्शन मार्गणायाः 'द्विविधा' द्विप्रकारा एकजीवाश्रिता कायस्थितिः । अथ द्वैविध्यं दर्शयति'अणाइता अणाइसंता' ति, 'अनाद्यनन्ता' अनाद्यपर्यवसिता 'अनादिसान्ता' अनादिसपर्यवसिता च । अभव्यमाश्रित्य प्रथमविकल्पः कथमिति चेत् उच्यते - अभव्यः कदाचना -ऽपि केवलज्ञानं न यास्यति, सम्यक्त्वप्राप्तेरभावात् । केवलज्ञाना-ऽप्राप्त्या च तस्य जीवस्था ऽचक्षुर्दर्शनं न व्यवच्छेदं प्राप्स्यति, केवलिनामेव तद्वयवच्छेदोपलम्भात् । तदेवमचक्षुर्दर्शनस्य कायस्थितेर्ना - न्तता, अनादिकालतः पुनस्पर्शनेन्द्रियमपेक्ष्याऽचक्षुर्दर्शन लब्धेः प्रवृत्तत्वात् तत्कायस्थितेरनादिताऽपि । भव्यमाश्रित्य - नादिसान्ता, कथम् १ इति चेत्, उच्यते भव्यो हि आगामिनि काले केवलज्ञानं लप्स्यते, तल्लब्धौ च सत्यां “नट्ठम्मि उ उ उमत्थिए णाणे" इति वचनप्रामाण्याद् अचक्षुर्दर्शनं व्यवच्छेदमधिगमिष्यति, तेन तं जीवमाश्रित्याऽचक्षुर्दर्शनस्य कायस्थितेः सान्तता, स्पर्शनेन्द्रियापेक्षया चाचक्षुर्दर्शन लब्धेरनादिता, उक्तं च श्रीप्रज्ञापनोगे- अचक्खुदंसणी णं भते । अचक्खुदंसणि त्ि काल० गो० ! भचक्खुदंसणी दुबिहे पं० तं० - अणादीए वो अपज्जवसिते, अणादीए वा सपब्जवसिए ।" इति । अचक्षुर्दर्शन मार्गणायाः कार्यस्थितिः सादिपर्यवसिता तु न संभवति, केवलज्ञानतः प्रतिपाता - भावात् ।। १८ ।। 1 सम्प्रति लेश्याभव्य मार्गणयोरवसरः । तत्राऽपि कृष्णलेश्या शुक्ललेश्ययोरुत्कृष्टा कायस्थितिः प्रागुक्ता । तेन नीलादिलेश्यानां भव्या- ऽभव्ययोश्चैकजीवाश्रितोत्कृष्ट कायस्थितिं भणितु कामः प्राह नीलाइ उहकमा अयरा दस तिण्णि दोणि अट्ठार | भवियस्स - Sणाइसंता अभवस्स अणाइणंता उ ॥१९॥ 5 षट्खण्डागमका रैरपि क्षायोपशमिकसम्यक्त्वस्यकालः षट्षष्टिसागरोपमप्रमाणः कथितः । तथा च तद्ग्रन्थः- वेदगसम्माइट्ठी केवचिर कालादो होंति ? जहण्णेण अंतोमुहुत्तं उक्कस्सेण छावद्विसागरोमाणि ।" इति । Page #32 -------------------------------------------------------------------------- ________________ नीला दिलेश्यानामुत्कृष्ट काय स्थितिः ] कायस्थतिप्रकरणम् [ २९ 1 (प्रे०) 'णीलाइ ० ' इत्यादि, 'नीलादिचतसृणां' लेश्यानामिति गम्यते क्रमाद् दश त्रयो द्वौ अष्टादश 'अतरा: ' सागरोपमा एकजीवाश्रितोत्कृष्टकाय स्थितिर्भवति, सुगममेतद्, नवरं नीललेश्या - कापोतलेश्या तेजोलेश्यानां यथोक्तकाय स्थितिः पल्योपमा ऽसंख्येयभागेनाऽभ्यधिका वक्तव्या, प्रज्ञापनादिसूत्रे तथोक्तत्वात्, तथा चाऽत्र श्रीप्रज्ञापनासूत्रम् - नीलले से त्ति पुच्छा गो० ! जह० तो ० उक्को० दस सागरोवमाइ पळितोवमासंखेज्जइभागमन्भहियाई, काउलेसे णं पुच्छा, गो० ! जह० तो ० उवको० तिष्णि सागरोवमाइ पलितोवमासंखिज्जतिभागमब्भद्दियाइं । तेउलेसेणं पुच्छा, गो० ? जह० अंतोमुहुत्तं उक्को० दो सागरोवमाइ पलितोवमासंखिज्जविभागमब्भहियाइ ।" इति । एवमुत्तराध्ययनेऽप्युक्तम् । 'दसबास सहस्साइ' काऊ ठिई जहणिया होइ । तिन्नोदही पलियभसंब्जभागं च उक्कोसा ॥१॥ तिण्णुदही पलिभत्र ममसंखभागो जहन्न नीलठिई । दस उदद्दी प्रतिओत्रममसंखभागं च उक्कोसा ॥२॥” इति । भावना वित्थं कार्या- कश्चिजीवो धूमप्रभायां प्रथमप्रस्तटे पल्योपमा ऽसंख्येयभागाधिकदशसागरोपमस्थितिक नीललेश्याकनारकत्वेन समुत्पद्यते, तत्र नीललेश्याया अपि सत्त्वात्, "पंचमियाए मीसा" इति वचनप्रामाण्यात् । तस्य च पूर्वभवचरमा - ऽन्तर्मुहूर्ते तथोत्तरभवप्रथमा- ऽन्तर्मुहूर्ते ऽपि नीलेश्या भवति, यतो मृत्युकाले ऽन्तर्मुहूर्तशेषे भाविभवलेश्यया जीवा परिणमन्ति, एवमतीतभवलेश्यायामुत्पत्तिकालप्रथमा-ऽन्तमुहूर्तमवतिष्ठन्ते, उक्तं चोत्तराध्ययन सूत्रे - "अंतमुहुत्तंमि गए अतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ १||" इति । ते च द्वेऽन्तर्मुहूर्ते पल्योपमाऽसंख्येयभागे एवान्तर्गते, तेन न पृथग् विवक्षिते । तदेवं श्याया एकजीवाश्रितोत्कृष्टकाय स्थितिः पल्योपमाऽसंख्येय भागाधिकदशसागरोपमप्रमाणा । कापोतश्याया उत्कृष्टकायस्थितिस्तृतीयनरकपृथिव्यपेक्षया भावनीया, वालुकाप्रभायाः प्रथमप्रस्तटे कापोतश्याया अपि सद्भावात् । तैजस्या उत्कृष्टकायस्थितिरैशानदेव लोकसुरा-पेक्षया वेदयितव्या, ऐशानसुराणां तेजोलेश्याकत्वात् । पद्मलेश्याया उत्कृष्टकायस्थितिरष्टादशसागरोपमाणि सहस्रारसुरापेक्षया बोध्या । ननु “पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु" इति तत्त्वार्थसूत्रेण ब्रह्मलोक कल्पान्तसुराणां पद्मलेश्या विधीयते, ततथाऽन्तमुहूर्ताभ्यधिकानि दशसागरोपमाणि पद्मलेश्याया उत्कृष्टकायस्थितिर्लभ्यते, उक्तं च प्रज्ञापनासूत्रे - "पहले से णं पुच्छा, गो० ! जह० अ तो०, उक्को० दस सागरोवमाई अंतोमुहुत्तमम्भहियाई ।“ इति तत्कथं प्रस्तुतगाथोक्तोत्कृष्ट काय स्थितिर्घटामृच्छति १ इति चेत्, उच्यते - सत्यमेतत्, किन्तु मतान्तरापेक्षया गाथेोक्तकायस्थितिरपि न विरुध्यते । कथमिति चेत्, उच्यतेसहस्रार कल्पदेवानां तिर्यगायुर्बन्धो बन्धस्वामित्वग्रन्थे विहितः, आनतादिदेवेषु शुक्रलेश्यायां च निषिद्ध:, तथा च तद्ग्रन्थः - रयणुव्व सणकुमाराइ आणयाई उज्जो बचउरहिया । xxxx ॥ तेऊ ४ अ Page #33 -------------------------------------------------------------------------- ________________ ३० ] काय स्थितिप्रकरणम् [ पद्मलेश्यादीनामुत्कृष्ट कायस्थितिः णिरयणवूणा, उज्जोय चउनरयबार विणु सुक्का । विणु नरयबार पम्हा अजिणाहारा इमा मिच्छे ||" इति । तदेवं सहस्रारकन्पदेवानां तिर्यगायुर्वन्धोपलम्भात् तेषां पद्मलेश्या संभाव्यते, अन्यथा शुक्ललेश्यायां तिर्यगायुर्बन्धः कथं स्यात् । न चैतत्स्वमनीषिकया मतान्तरं संभावितम्, श्रीमद्-जयसोमसुरोश्वरैर्बन्धस्वामित्वस्तव के - ऽर्थतः संभावितत्वाद् । सहस्रारदेवानाञ्श्चोत्कृष्टस्थितिरटादश सागरोपमाणि सुप्रतीता । तेन पूर्वोत्तरभवगता - ऽन्तर्मुहूर्तद्वयेनाऽधिकान्यष्टादश सागरोपमाणि पद्मलेश्याया उत्कृष्ट काय स्थितिरेकाजीवाश्रया मतान्तरेण संभवति, सम्यग्दृष्टीनां भाविभवाऽतीतभवोर्लेश्याया अन्तर्मुहूर्तं यावत् सद्भावे विरोधाभावात् । ग्रन्थे त्वन्तमुहूर्तद्वयेनाधिकानि नोक्तानि, स्वल्पत्वात् । 'भविस्स' इत्यादि 'भव्यस्य' भव्यमार्गणाया ' अनादिसान्ता' अनादिसपर्यवसिता एकजीवाश्रया काय स्थितिर्भवति, अनादिकालतो हि भव्यत्वस्य प्रवृत्तत्वाद् भव्यमार्गणाया: कायस्थितेरनादिता, सिद्धिं यियासोरयोगिकेवलिगुणस्थानके भव्यत्वस्य निवर्तिष्यमाणत्वात् सान्तता । 'अभवस्स' इत्यादि, 'अभव्यस्य' अभव्यमार्गणायाः 'अनाद्यनन्ता' अनाद्यपर्यवसानैकजीवाश्रयोत्कृष्टा कायस्थितिरिति गम्यते, अनादिकालादभव्यत्वस्य प्रवृत्तत्वात् सिद्धिगमनायोग्यत्वेन व्यवच्छेदाभावात् उक्तं च श्रीप्रज्ञापनासूत्रे - "भवसिद्धिए णं पुच्छा, गो० अणादीए सपज्जवि अभवसिद्धिए णं पुच्छा, गो० ! अणादीए अपज्जवसिते ।" इति ॥ १९ ॥ , अथा- ऽवशिष्टयोः सास्वादनमार्गणा-ऽऽहारकमार्गणयोरेकजीवाश्रयामुत्कृष्टकाय स्थितिं वक्तु कामः प्राह सासाणस्सावलिआ छ भवे आहारगस्स णायव्वा । अंगुल असंखभागो त्ति पडुच्चा बंधगं उत्ता ॥२०॥ 1 (प्रे०) 'सासा०' इत्यादि, ‘सास्वादनस्य' सास्वादन मार्गणायाः षडावलिका एकजीवाश्र - योत्कृष्टकायस्थितिः ‘भवेत्, स्यात् । औपशमिकसम्यक्त्वतः पतितः सास्वादनभावं गत उत्कृष्टत आवलिकाषट्कं यावत्सास्वादनभावं भजते, परतो ऽवश्यं मिथ्यात्वं गच्छति, उक्तं च श्रीजीवसमासप्रकरणे -“सासायणेगुजीविय एकसमयाइ जाव छावलिया xxxx ॥ | १ ||" इति । ‘आहारगस्स’ इत्यादि, ‘आहारकस्य' आहारकमार्गणाया 'अङ्गुला : Sसंख्य भागः ' अगुलक्षेत्रस्यासंख्येमागे ये आकाशप्रदेशा भवन्ति तेषां प्रतिसमय मे कैकप्रदेशाऽपहारे यावत्यो- 5संख्येयोत्सर्पिण्यवसर्पिण्यो गच्छन्ति, तावतीर्यावदुत्कृष्टत अविग्रहगत्या जीव उत्पद्यते, परतो द्वयादिविग्रहगत्या समुत्पद्यते, तत्र चानाहारकत्वाद् आहारकमार्गणाया यथोक्तप्रमाणा एकजीवाश्रितोकृष्टा काय स्थितिः, उक्तं च श्रीप्रज्ञापनासूत्रे - "छउमत्थभद्दारए णं भंते ! छउमत्थाहार त्ति फाल० ? गो० ! xxxxx उक्को० असंखेज्जं कालं असंखेज्जाओ उस्सपिणीओसलिणीतो कालतो, Page #34 -------------------------------------------------------------------------- ________________ मतान्तरेणोत्कृष्टकायस्थितिः ] काथस्थितिप्रकरणम् [ ३१ खेत्ततो अंगुलस्स असंखेज्जतिभागं ।” इति । इतिशब्दः प्रकारार्थद्योतकः, अनेन प्रकारेण प्रथमगाथातः प्रभृति एकोनविंशतितमगाथां यावद् 'बन्धक' बध्नाति कार्मणवर्गणापुद्गलान् क्षीरनीरवद् आत्मना सहात्मसात्करोतीति बन्धकः, तम् , एकवचननिर्देशाद् एक बन्धकजीव प्रतीत्य' आश्रित्य 'उक्ता'उत्कृष्टकायस्थितिवहिता, न तु बन्धकनिरपेक्षा, क्षायिकसम्यक्त्वादीनां तस्याः साधनन्तत्वोपम्भलात् । सा च वक्ष्यते द्वाविंशतितमगाथायाम् ॥२०॥ अथ मतान्तरेण कासाश्चिद् मार्गणानां बन्धकमाश्रित्य कायस्थितिमाहकेइ पुण बिंति हवए संखसहस्सवरिसा समत्ताणं । बेइंदियतेइंदियचउइंदियबायरऽग्गीणं ॥२१॥ दो सागरा सहस्सा समत्ततसचक्खुदंसणाण भवे । . सत्तरह सत्त अयरा होइ कमा नीलकाऊणं ॥२२॥ (प्रे०) 'केइ' इत्यादि, केचित् एके आचार्यपादाः पुनः 'ब्रुवन्ति' पठन्ति, किम् ? इत्याह'हवए' इत्यादि, 'संख्यसहस्रवर्षाः' संख्यातसहस्राणि' वर्षाणि 'समाप्तानां पर्याप्तानां द्वीन्द्रियश्रीन्द्रिय-चतुरिन्द्रिय-बादराग्नीनां प्रत्येकं भवति' एकजीवाश्रयोत्कृष्टकायस्थितिरस्ति । भावार्थः पुनरयम्-पर्याप्तनामकर्मोदयविशेषितो द्वीन्द्रियजीवो भूयो भूयः पर्याप्तद्वीन्द्रियत्वमपरित्यजन्नुत्पद्यमान उत्कृष्टतो वर्षाणां संख्येयसहस्राणि यावदवतिष्ठते, तेनैकजीवाश्रितोत्कृष्टकायस्थितिः पर्याप्तद्वीन्द्रियमार्गणायाः संख्यातसहस्रवषोणि लभ्यते, एवं पर्याप्तत्रीन्द्रियमार्गणा-पर्याप्तचतुरिन्द्रियमार्गणयोः पर्याप्तवादरतेजःकायमार्गणायाश्च कायस्थितिर्भावनीया, उक्तं च पञ्चसंग्रहे-बायरपज्जेगिंदियविगलाण य वाससहस्ससंखेज्जा।" इति । तथैव तन्मूलवृत्तावप्युक्तम्-"बादराणां पर्याप्तकनामविशेषितानां संख्येया वर्षसाहस्रयः प्रत्येकं पृथिवी जलाग्निवायुवनस्पतिप्रत्येकैकेन्द्रियाणां संख्येया वर्षसाहस्रपः कास्थितिः, विकलानामपि द्वित्रिचतुरिन्द्रियाणां प्रत्येकं संख्येयवर्षसाहस्रपः कायस्थितिः।" इति । तथा चोक्तं जीवसमासे तदीयायां च श्रीशीलाचार्यकृतवृत्तावपि-"बायरपज्जत्ताणं वियलसपजत्तइंदियाणं च । उक्कोसा कायठिई, वाससहस्सा उ संखेज्जा ॥१॥” इति, बायरेत्यादि पृथिव्यादीनां चादरपर्याप्तकानां विकलेन्द्रियपर्याप्तकानाम् तथा सकलेन्द्रियाणां संख्येयवर्षायुषां पर्याप्तकानां चोत्कृष्टफायस्थितिः संख्येयानि वर्षसहस्राणि ।" इति । प्राग् दशमगाथया प्रज्ञापनादिसूत्राभिप्रायेण पर्याप्तद्वीन्द्रियस्य संख्यातवार्षिकी, एकादशगाथया च पर्याप्तत्रीन्द्रियस्य संख्यातदिवसमात्री पर्याप्तचतुरिन्द्रियस्य संख्यातमासप्रमाणा-ऽभिहिता, मतान्तरेण त्वऽनन्तरोक्तप्रमाणा बोध्या । 'दो' इत्यादि, द्वे सहस्र सागराः-सागरोपमाः 'समाप्तत्रसाऽचक्षुर्दर्शनयोः' समाप्तशब्दो षट्खण्डागमेऽप्युक्तम्-'बीइंदिया तीइ दिया चउरिदियपज्जत्ता केवचिरं कालादो होति ? xxx उक्कस्सेण संखेज्जाणि वाससहस्साणि | xxxx बादरतेउकाय xxxx पज्जत्ता केवचिरं कालादोहोन्ति xxx उक्कस्सेण संखेज्जाणि वाससहस्साणि" इति । ४ब Page #35 -------------------------------------------------------------------------- ________________ ३२] कायस्थितिप्रकरणम् [ मतान्तरेण पर्याप्तत्रसादीनामुत्कृष्ट कायस्थितिः त्र पर्याप्ता-ऽभिधायी, तेन पर्याप्तत्रसस्य पर्याप्तत्रसमार्गणायाः, चक्षुर्दर्शनस्य चक्षुर्दर्शनमार्गणायाश्च 'भवेत्' एकजीवाश्रयोत्कृष्टकायस्थितिः स्यात् । तत्र यः कश्चिद् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियतो निर्गत्य चतुरिन्द्रियादिषु भूयो भूय उत्पद्यमानो द्वे सागरोपमाणां सहस्र व्यतिक्रमते, तत एकेन्द्रियादिषुत्पद्यते, तमाश्रित्य चक्षुर्दर्शनस्योत्कृष्टकायस्थितिर्द्विसहस्रसागरोपमाणि, उक्तं च जीवसमासे-xxxx चक्खुस्सुदहीण बे सहस्साई ॥१॥ इति तदीयायां शीलाचार्यकृतवृत्तावप्यभिहितम्-"चक्षुर्दर्शनी चतुरिन्द्रियः पञ्चेन्द्रियो वा, स तद्भावममुष्चन् । एवं पर्याप्तत्रसकायस्थोऽपि प्रकृतकायस्थितिविषये सागरोपमसहस्रद्वयं यावदास्ते, तस्य चक्षुर्दर्शनमेतावन्तं कालं भवति ।" इति * । एवं पर्याप्तत्रसकायस्यापि ग्रन्थान्तरसंवादो द्रष्टव्यः । ___ अथ मतान्तरेण नीललेश्या-कपोतलेश्ययोः कायस्थिति भणति-सत्तरह' इत्यादि, तत्र 'नीलकापोतयोः' नीललेश्याया: कापोतलेश्यायाश्च क्रमात् 'सप्तदश' सप्तदशसंख्याकानि 'सप्त' सप्तसंख्यकानि अतरा सागरोपमा 'भवति' एकजीवाश्रितोत्कृष्ट कायस्थितिरस्ति । एतदुक्तं भवतिनीललेश्याकानां जीवानां सप्तदशसागरोपमस्थितिकेषु नारकेपुत्पत्तिाख्याप्रज्ञप्तिधृत्तौ सप्त मशतके तृतीयोदशके श्रीमदभयदेवसरिभिर्विहिता । तथा च तद्ग्रन्थः-"पञ्चमपृथिव्यां सप्तदशसागरोवमस्थितिारको नीललेश्यः समुत्पन्नः xxxx।" इति । तेन न विरुध्यते नीललेश्याया एकजीवाश्रयोत्कृष्टकायस्थितियथोक्तप्रमाणा। तथा वालुकाप्रभाया नवमप्रस्तटं यावत् कापोतलेश्याकानां जीवानामुत्पत्तिं स्वीकुर्वतां महा. बन्धकारादीनां मतेन कापोतलेश्यायाः सप्तसागरोपमाण्युत्कृष्टकायस्थितिर्भवति । इह नीललेश्याकापोतलेश्ययो थाकमं सप्तदशसागरोपमाणि सप्तसागरोपमाणि चाऽन्तर्मुहूर्तद्वयेना-ऽधिकानि ज्ञातव्यानि, पूर्वोत्तरभवयोर्यथाक्रमं चरमे प्रथमे चा-ऽन्तमहूर्तकाले तत्तल्लेश्यायाः सच्चात् । तदेवमभिहिता बन्धकमाश्रित्य गत्यादिमार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिः ॥२१, २२॥ इहाऽपगतवेदादिमार्गणानां बन्धकापेक्षया देशोनपूर्वकोट्यादिप्रमाणा कायस्थितिरभिहिता, किन्तु केषाश्चिद् मन्दमेधसां जनानां व्यामोहः स्यात्-ग्रन्थान्तरेष्वपगतवेदादीनां कायस्थितिः साधनन्ताऽपि प्रतिरादिता दृश्यते । इह ग्रन्थे तथाविधा कुतो न प्रोक्तति प्रस्तुतेऽनुपयोगिनीमपि बन्धकनिरपेक्षा कायस्थितिमाह साइअणंता बंधगनिखेक्खा खइअकेवलदुगाणं । सम्मअकसायगयवेअअणाहाराण साइसंतावि ॥२३॥(गीतिः) * एवं षट्खण्डागमेऽप्युक्तम् "दसणाणुवादेण चक्खुदसणी केवचिरं कालादो होंति ? जहण्ण अंतोमुहुत्तं, उक्कोसेणं वे सागरोवमसहस्साणि ।" इति। *षट्खण्डागमेऽप्युक्तम्-लेस्साणुवादेण किण्हलेस्सिय-णीललेस्सिय-काउलेस्सिया केवचिरं कालादो होति ? जहन्नेणं अंतोमुहुत्तं, उक्करसेण तेत्तीस-सत्तरस-सत्तसागरोवमाणि सादिरेयाणि ।" इति । Page #36 -------------------------------------------------------------------------- ________________ बन्धकनिरपेक्षा कायस्थितिः ] कायस्थितिप्रकरणम् [ ३३ ___(प्रे०) 'साइअणंता' इत्यादि, तत्र 'क्षायिककेवलद्विकयोः' क्षायिकस्य क्षायिकसम्यक्त्वमार्गणायाः केवलद्विकस्य केवलज्ञान केवलदर्शनलक्षणस्य मार्गणाद्वयस्य प्रत्येकं बन्धकनिरपेक्षा कायस्थितिः 'साधनन्ता' साद्यपर्यवसिता भवति, क्षायिकसम्यक्त्व केवलज्ञान-केवलदर्शनानां प्रतिपाताभावात् , उक्तं च श्रीप्रज्ञापनासूत्रे-"केवलणाणी णं पुच्छा, गो० ! सातिए अपज्जवसिते । xxxxकेवलदसणी णं पुच्छा, गो० सातीए अपज्जवसिते ।" इति । एवं क्षायिकसम्यक्त्वेऽपि ग्रन्थान्तरसंवादो बोध्यः । 'सम्म०' इत्यादि, 'सम्यक्त्वा-ऽकषायगतवेदानाहाराणां' सम्यक्त्वस्य सम्यक्त्वसामान्यमार्गणाया अकषायस्य अकषायमार्गणास्थानस्य गतवेदस्य अपगतवेदमार्गणाया अनाहारस्य अनाहारकमार्गणायाश्च प्रत्येकं कायस्थितिः 'सादिसान्ताऽपि सादिसपर्यवसिता, अपिशब्दस्य समुच्चयार्थकत्वेन साधपर्यवसिता च, एतासु मार्गणासु सिद्धानां प्रविष्टत्वेनाऽपर्यवसितत्वोपपत्तेः सम्यक्त्वसामान्यमार्गणायामोपशमिकसम्यग्दृष्टीनां क्षायोपशमिकसम्यग्दृष्टीनाम् ; अकषाया-ऽपगतवेदयोरुपशान्तमोहानाम् , अनाहारकमार्गणायां च विग्रहगतिवर्तिनां समुद्घातापनसयोगिकेवलिनां प्रविष्टत्वेन सान्तत्वघटनात् । इदमत्राऽवधेयम्-सम्यक्त्वसामान्यस्य सादिसपर्यवसिता कायस्थितिरुत्कृष्टतः सातिरेका षट्क्षष्टिः सागरोपमाणाम् , अनाहारकमार्गणायाश्च त्रयः समया बोध्या, सा च प्रागुक्तैव । अवेदा-ऽकषाययोध सादिसान्ता कायस्थितिरुत्कृष्टतोऽन्तमुहूर्तप्रमाणा ज्ञातव्या, उपशमश्रेणी लाभात् , यदुक्तं श्रीप्रज्ञापनासूत्रे-"अवेदए णं भंते अवेदए त्ति पुच्छा, गो० ! भवेदे दुविधे पं. तं०-सादीए वा अपज्जवसिए साइए वा सपज्जवसिते, तत्थ णं जे से साइए सपज्जवसिते, से जहन्नेणं एगं समयं उक्को० अंतोः xxxxx । अकसाई णं भंते अकसादि त्ति काल० ? गो० ! अकसादि दुविहे ५० तं०--सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते, तत्थं णं जे से सादीए सपज्जवसिते से जह० एग समयं उक्को० अंतो०।xxxx सम्महिट्ठीणं भंते ! सम्मदि० काल.? गो० ! सम्मट्ठिी दुविहे पं०, तं०-सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते । तत्थ णं जे से सादीए सपज्जवसिते, से जह० अंतो० उक्को० छावटि सागरोवमाइं । एवमाहारकमार्गणायामपि ग्रन्थान्तरसंवादो योज्य ॥२३॥ सम्प्रत्येकजीवाभयां जघन्यकायस्थितिं वक्तुकाम आह कायठिई णायब्वा जहण्णगा दससहस्सवासाणि। णिरयपढमणिरयाणं देवभवणवंतराणं च ॥२४॥ (प्रे०) 'कायठिई' इत्यादि, 'कायस्थितिः' उक्तशब्दार्थेकजीवाश्रिता 'जघन्यका' सर्वजघन्या दशसहस्रवर्षाणि, कासां मार्गणानाम् ? इत्याह-'णिरय.' इत्यादि, 'निरय-प्रथमनिरयो:नरकगतिसामान्यमार्गणाया रत्नप्रभानरकमार्गणायाश्च 'देवभवनव्यन्तराणां च' देवगतिसामान्यमार्गणायाः, “समुदायेषु प्रवृत्ताः शब्दा अवयेवध्वपि दृश्यन्ते" इति न्यायेन भवनशब्देन भवनपते ग्रहणम् , भवनपतिमार्गणाया व्यन्तरसुरमार्गणायाश्च प्रत्येकं ज्ञातव्या' बोद्धव्या, यतो देवनारका अनन्तरभवे देवनारकत्वेन नोत्पद्यन्ते, नरकसामान्यादीनां च जघन्यभवस्थितियथोक्तप्रमाणा, उक्तं Page #37 -------------------------------------------------------------------------- ________________ ३४] कायस्थितिप्रकरणम् [द्वितीयादिनरकमार्गणानां जघन्यकायस्थितिः च श्रीतत्वार्थसत्रे-“दशवर्षसहस्राणि प्रथमायाम् , भवनेषु च, व्यन्तराणां च ।" इति । इह रत्नप्रभायाः प्रथमप्रस्तटमाश्रित्य प्रथमनरकगतिमार्गणाया दशवर्षसहस्राणि जघन्या कायस्थितिरुक्ता, द्वितीयादिप्रस्तटे पुनर्जघन्या कायस्थितिर्दशलक्षवर्षादिका भवति, तथाहि-रत्नप्रभाया द्वितीयप्रस्तटे नारकाणां जघन्या कायस्थितिवर्षाणां दशलक्षाः (१००००००) 5, तृतीयप्रस्तटे नवतिलक्षाः (९००००००), चतुर्थप्रस्तटे पूर्वकोटिवर्षमात्री । पञ्चमादिप्रस्तटेषु जघन्यकायस्थितिरित्थं बोध्या-द्वितीयगाथायाष्टीकायां पूर्वपूर्वप्रस्तटे या उत्कृष्टा कायस्थितिरुक्ता, उत्तरोत्तरप्रस्तटे सा जघन्या बोध्या, तद्यथा-पञ्चमप्रस्तटे सागरोपमस्यैको दशभागः (१० सा०), षष्ठप्रस्तटे द्वौ सागरोपमस्य दशभागौ (३.सा०), सप्तमप्रस्तटे प्रयः सागरोपमस्य दशभागाः (६७ सा०), अष्टमे प्रस्तटे चत्वारः सागरोपमस्य दशभागाः (*. सा०), नवमप्रस्तटे पञ्च सागरोपमस्य दशभागाः ( सा०), दशमे प्रस्तटे षट् सागरोपमस्य दशभागाः ( सा०),एकादशे प्रस्तटे सप्त सागरोपमस्य दशभागाः, (१० सा०), द्वादशे प्रस्तटे-ऽष्टौ सागरोपमस्य दशभागाः (६० सा०) , त्रयोदशे च प्रस्तटे नव सागरोपमस्य दशभागाः ( सा०) ॥२४॥ अथ द्वितीयादिनरकपृथिवीषु नारकाणामेकजीवाश्रितां जघन्यकायस्थितिं प्राहबीआइगणिरयाणं सा पढमाइणिरयाण जा जेट्टा। खुड्डभवो तिरियपणिदितिरियमणुसतदपजाणं ॥२५॥ पजत्तभेअवजिअसेसिंदियकायभेअसण्णीणं । अमणस्स जाणियव्वा आहारस्स तिसमयहीणो ॥२६॥ (प्रे०) 'घीआइ.' इत्यादि, 'प्रथमादिनिरयाणां' रत्नप्रभादिषट्पृथिवीनारकाणां या 'ज्येष्ठा' उत्कृष्टकायस्थितिः द्वितीयगाथया प्रोक्ता, सा 'द्वितीयादिकनिरयाणां' शर्कराप्रभादिषट्पृथिवीनारकाणां जघन्या कायस्थितिर्भवति, नारकाणामनन्तरभवे पुनर्नारकत्वेना-ऽनुत्पादाद् जघन्यभवस्थितेश्च यथोक्तमात्रत्वात् । अयं भावः-शर्कराप्रभापृथिवीस्थानां नारकाणामेकजीवाश्रया जघन्यकायस्थितिरेकं सागरोपमं भवति, वालुकाप्रभानरकपृथिवीनारकाणां जघन्यकायस्थितिस्त्रिसागरोपमाणि, पङ्कप्रभानरकपृथिवीनारकाणां सप्त सागरोपमाणि, धूमप्रभाया दश सागरोपमाणि तमःप्रभानारकाणां सप्तदश सागरोपमाणि, महातमःप्रभायाश्च नारकाणां द्वाविंशतिः सागरोपमाणि । विशेषतः पुनः द्वितीयगाथया प्रतिप्रस्तटमुत्कृष्टकायस्थितिर्या प्रोक्ता, सैवोत्तरोत्तरप्रस्तटे ॐ धवलाकारस्तु--"बिदियपत्थडे णउदिवस्ससहस्साणि (९००००) समयाहिआणि जहण्णमाउभं xxx चउत्थपत्थडे जहण्णमसंखेज्जाभो पुव्वकोडीओ समयाहियाओ।" इत्युक्तम् । Page #38 -------------------------------------------------------------------------- ________________ प्रतिप्रस्तटं रत्नप्रभाशर्कराप्रभानारकाणां स्थितिः ] कायस्थितिप्रकरणम् जघन्या कायस्थितिर्भवति । तथाहि-शर्कराप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिरेकं सागरोपमम् (१), द्वितीयप्रस्तट एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ (१,३), तृतीयप्रस्तट एक सागरोपमं चत्वारश्च सागरोपमस्यैकादशभागा:(१,३), चतुर्थप्रस्तटे पभिः सागरोपमस्यैकादशभागैरधिकमेकं सागरोपमम् (१,), पञ्चमप्रस्तटे-ऽष्टभिः सागरोपमस्येकादशभागैरधिकं सागरोपमम् (१,६), षष्ठप्रस्तटे दशभिः सागरोपमस्यैकदशभागैरधिकमेकं सागरोपमम् (१९९), सप्तमप्रस्तट एकेन सागरोपमस्यैकादशभागेनाधिके द्वे सागरोपमे(२९) अष्टमप्रस्तटे द्वे सागरोपमे त्रयश्च सागरोपमस्यैकादशभागाः (२३,) नवमप्रस्तटे द्वे सागरोपमे पञ्च च सागरोपमस्यैकादशभागाः(२,५), दशमप्रस्तटे द्वे सागरोपमे सप्त च सागरोपमस्येकादशभागाः (२,६),एकादशे च प्रस्तटे नवभिः सागरोपमस्यैकादशभागैरधिके द्वे सागरोपमे (२१) । बालुकाप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिस्त्रीणि सागरोपमाणि (३), द्वितीयप्रस्तटे त्रीणि सागरोपमाणि चत्वारश्च सागरोपमस्य नवभागाः (३), तृतीयप्रस्तटे त्रीणि सागरोपमाण्यष्टौ च सागरोपमस्य नवभागाः (३), चतुर्थप्रस्तटे त्रीभिः सागरोपमस्य नवभागैरधिकानि चत्वारि सागरोपमाणि (४३), पञ्चमे प्रस्तटे सप्तभिः सागरोपमस्य नवभागैरधिकानि चत्वारि सागरोपमाणि (४५), षष्ठे प्रस्तटे पश्च सागरोपमाणि द्वौ च सागरोपमस्य नवभागौ (५४), सप्तमे प्रस्तटे पञ्चसागरोपमाणि षट् च सागरोपमस्य नवभागाः (५), अष्टमप्रस्तट एकेन सागरोपमस्य नवभागेनाऽधिकानि षट् सागरोपमाणि (६३), नवमप्रस्तटे च पञ्चभिः सागरोपमस्य नवभागैरधिकानि षट् सागरोपमाणि (६४) । पङ्कप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिः सप्त सागरोपमाणि (७), द्वितीयप्रस्तटे सप्त सागरोपमाणि त्रयश्च सागरोपमस्य सप्तभागाः (3), तृतीयप्रस्तटे षड्भिः सागरोपमस्य सप्तभागैरधिकानि सप्तसागरोपमाणि (5), चतुर्थप्रस्तटेऽष्टौ सागरोपमाणि द्वौ च सागरोपमस्य सप्तभागौ (८), पञ्चमप्रस्तटे पञ्चभिः सागरोपमस्य सप्तभागैरधिकान्यष्टसागरोपमाणि (८); षष्ठे प्रस्तटे नव सागरोपमाण्यकश्च सागरोपमस्य सप्तभागः (१), सप्तमप्रस्तटेच चतुर्भिः सागरोपमस्य सप्तभागैरधिकानि नवसागरोपमाणि (१)। धूमप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिर्दशसागरोपमाणि (१०), द्वितीयप्रस्तट एकादश सागरोपमाणि द्वौ च सागरोपमस्य पञ्चभागौ (११३), तृतीयप्रस्तटे द्वादश सागरोपमाणि चत्वारश्च सागरोपमस्य पञ्चभागाः (१२१), चतुर्थप्रस्तट एकेन सागरोपमस्य पश्चभागेनाऽधिकानि चतुर्दशसागरोपमाणि (१४३), पञ्चमप्रस्तटे च त्रिभिः सागरोपमस्य पञ्चभागैरधिकानि पञ्चदशसागरोपमाणि (१५५) । Page #39 -------------------------------------------------------------------------- ________________ ३६] कायस्थितिप्रकरणम् [ प्रतिप्रस्तटं वालुकाप्रभादिनारकाणामुत्कृष्टस्थितिः - तमःप्रभायाः प्रथमग्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिः सप्तदश सागरोपपमाणि (१७), द्वितीयप्रस्तटे द्वाभ्यां सागरोपमस्य विभागाभ्यामधिकान्यष्टादश सागरोपमाणि (१८३), तृतीयप्रस्तटे च विंशतिः सागरोपमाण्येकश्च सागरोपमस्य त्रिभागः (२०) । महातमप्रभायां त्वेक एव प्रस्तटः, तेन प्रागुक्ता द्वाविंशतिः सागरोपमाणि तत्रत्यानां नारकाणामेकजीवाश्रया जघन्या कायस्थितिर्भवति, विशेषतः पुनः सप्तमनरकथिव्या अप्रतिष्ठानाख्यनरकावासे नारकाणां कायस्थितिरजघन्यानुत्कृष्टा प्रयस्त्रिंशत् सागरोपमाणि, यदुक्तं समवायाङगे-"अपइट्ठाणनरए नेरइयाण अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता।" इति । तदेवमभिहिता शर्कराप्रभादिनारकाणामेकजीवाश्रया जघन्या कायस्थितिः, प्रसङ्गतश्च प्रतिप्रस्तटमाश्रित्या-ऽपि निरूपिता । ___सम्प्रति क्रमप्राप्तस्य तिर्यग्गतिमार्गणास्थानस्य जघन्यकायस्थितिं वक्तुकामस्तत्समानत्वादन्या अपि मार्गणाः संगृह्याऽऽह-"खुडुभवो" इत्यादि क्षुल्लकभवः'षट्पञ्चाशदधिकद्विशताऽऽवलिकाप्रमाणः कालः 'तिर्यक्-पञ्चेन्द्रियतिर्यग्-मनुष्य-तदपर्याप्तानाम्' एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, तिरश्वः तिर्यग्गतिसामान्यमार्गणायाः पञ्चेन्द्रियतिरश्वः पञ्चेन्द्रियतिर्यग्गतिमार्गणाया मनुष्यस्य= मनुष्यगतिसामान्यमार्गणास्थानस्य च, तदपर्याप्तयोः-तौ च तदपर्याप्तौ च तदपर्याप्ती, तयोः, तच्छब्दस्य पूर्ववस्तुपरामर्शित्वाद् अपर्याप्तपञ्चेन्द्रियतिर्यङ्मार्गणाया अपर्याप्त मनुष्यमार्गणास्थानस्य च 'पर्याप्तमेदवर्जितशेषेन्द्रियकायभेदसंज्ञिनाम् एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, पर्याप्तभेदैर्वर्जिताः शेषा इन्द्रियभेदास्त्रयोदश, पर्याप्त भेदैर्वजिताश्च शेषकायमेदास्त्रिंशत् , तेषाम् एफेन्द्रियसामान्यसूक्ष्मकेन्द्रिया-ऽपर्याप्तसूक्ष्मैकेन्द्रिय-बादरैकेन्द्रिया-ऽपर्याप्तबादरैकेन्द्रिय-द्वीन्द्रियसामान्या-ऽपर्याप्तद्वीन्द्रिय-श्रीन्द्रियसामान्या-ऽपर्याप्तत्रीन्द्रिय-चतुरिन्द्रियसामान्या-ऽपर्याप्तचतुरिन्द्रिय-पञ्चेन्द्रियसामान्या-ऽपर्याप्तपञ्चेन्द्रियलक्षणानां त्रयोदशानामिन्द्रियमेदानां पृथ्वीकायसामान्य सूक्ष्मपृथ्वीकाया--ऽपर्याप्तसूक्ष्मपृथ्वीकाय--बादरपृथिवीकाया-ऽपर्याप्तबादरपृथिवीकायलक्षणानां स्वभेदप्रमेदयुक्तानां पञ्चानां पृथ्वीकायमेदानामेवं पञ्चानामप्यकायमेदानां तेजःकायमेदानां वायुकायभेदानां च वनस्पतिकायसामान्य-साधारणशरीरवनस्पतिकाय-सूक्ष्मसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय-बादरसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तवादरसाधारणशरीरवनस्पतिकाय-प्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तप्रत्येकशरीरवनस्पतिकायरूपाणामष्टानां वनस्पतिकायमेदानां त्रसकायसामान्या-ऽपर्याप्तत्रसकाययोश्च सर्वसंख्यया त्रिंशतः कायभेदानां संज्ञिनः= संज्ञिमार्गणास्थानस्य 'अमनसः' असंज्ञिमार्गणायाश्च प्रत्येकं ज्ञातव्या' एकजीवाश्रया जघन्यकायस्थितियोंद्धव्या, प्रोक्तै कपञ्चाशन्मार्गणासु (५१) अपर्याप्तनामकर्मोदयवर्तीनां जीवानां प्रवेशात् तेषां च जघन्या-ऽऽयुषः क्षुल्लकभवप्रमाणत्वात् । भावना तु तं प्रतीत्य कर्तव्या, यो मार्गणा Page #40 -------------------------------------------------------------------------- ________________ [३७ गहारकादीनां जघन्यकायस्थितिः] कायस्थितिप्रकरणम् न्तरतः प्रोक्तमार्गणासु जघन्यस्थितिकाऽपर्याप्तत्वेनोत्पद्य ततश्च्युत्वा पुनर्मार्गणान्तरेणूत्पद्यते, तदा यथोक्तकालो लभ्यते । ___ अथाऽऽहारकमार्गणाया एकजीवाश्रयां जघन्यकायस्थिति भणति-'आहारस्स' इत्यादि, 'आहारस्य' आहारकमार्गणायाः 'त्रिसमयहीन.' त्रिभिः समयीनः, कः ? प्रत्यासच्या क्षुल्लकभवः, एकजीवाश्रया जघन्यकायस्थितिर्भवतीत्युपस्कारः, प्रकृतत्वात् । भावना त्वित्थं कर्तव्यापृथिवीकायिकादिः कश्चिज्जीवश्चतुःसामयिक्या विग्रहगत्या क्षत्रकभवायुष्काऽपर्याप्तपृथिवीकायिकादिपूत्पद्यते, स समयत्रयं यावदनाहारको भवति, ततः स्वोत्पत्तिस्थानं लब्ध्वाऽऽहारं गृह्णाति, ततः प्रभृति स्वभवचरमसमयं यावदाहारको भूत्वा मृतः सन् विग्रहगत्योत्पद्यमानोऽनाहारको जायते, तं नीवं प्रतीत्या-ऽऽहारकमार्गणाया बघन्यकालस्त्रिसमयहीनः क्षुलकभवः प्राप्यते । उक्तं च जीवसमासवृत्तौ-"छउमत्थाहारए णं भंते ! छउमत्थाहारए त्ति कालमो केचिरं होइ ? गोयमा ! जहण्णेणं खुडागभवग्गहणं तिसमऊणं."xxx इति ॥२५,२६।। सम्प्रति जघन्यतोऽन्तमुहूर्तस्थायिनीर्मार्गणाः संगृध प्राह भिन्नमुहुत्तं तु सयलपजत्तगजोणिणीण कायस्स । मीसदुजोगपुमाणं तिकसायमइसुअकेवलदुगाणं ॥२७॥ (गीतिः) अण्णाणदुगस्स तहा देसाजतचक्खुसव्वलेसाणं । सम्मत्तखइअवेअगउवसममीसाण मिच्छस्स ॥२८॥ (प्रे०) 'भिन्नमुहुत्तं' इत्यादि , 'भिन्नमुहुर्तम् ' अन्तर्मुहूर्तम् 'तु' तुशब्दो विशेषार्थकः , तदर्थस्त्वने दर्शयिष्यते , ' सकलपर्याप्तकयोनिमतीनां ' सकलपर्याप्तकानां= पर्याप्तद्विगतिभेद--पडिन्द्रियभेद-द्वादशकायमेदानां पर्याप्तपञ्चेन्द्रियविर्यक-पर्याप्तमनुष्य-पर्याप्तसूक्ष्मैकेन्द्रिय--पर्याप्तवादरैकेन्द्रिय-पर्याप्तद्वीन्द्रिय-पर्याप्तत्रीन्द्रिय--पर्याप्तचतुरिन्द्रिय--पर्याप्तपञ्चेन्द्रिय-पर्याप्तसूक्ष्मपृथिवीकाय-पर्याप्तयादरपृथिवीकाय-पर्याप्तसूक्ष्माऽप्काय-पर्याप्तबादराप्काय - पर्याप्तसूक्ष्मतेजःकाय-पर्याप्तवादरतेजःकाय-पर्याप्तसूक्ष्मवायुकाय-पर्याप्तवादरवायुकाय-पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय-पर्याप्तबादरसाधारणशरीरवनस्पतिकाय-पर्याप्तप्रत्येकशरीरवनस्पतिकाय-पर्याप्तत्रसकाय रक्षणानां विंशतिमार्गणानां योनिमत्योः पञ्चेन्द्रियतिर्यग्योनिमती-मनुष्ययोनिमतीलक्षणयोः 'कायस्य' काययोगमार्गणाया 'मिश्रद्वियोगपुंसां' मिश्रयोयोर्योगयोः औदारिकमिश्रकाययोगस्य वक्ष्यमाणत्वाद् वैक्रियमिश्रकाययोगा-ऽऽहारकमिश्रकाययोगयोः पुंसः पुरुषवेदमार्गणायाश्च 'त्रिकषायमतिश्रुतकेवलद्विकानां' त्रिकषायाणां क्रोधमानमायारूपाणां तिसृणां मार्गणानां मतिश्रुतयोः मतिज्ञान-श्रुतज्ञानयोः केवलद्विकस्य केवलज्ञानमार्गणा-केवलदर्शनमार्गणारूपस्य ३० अ Page #41 -------------------------------------------------------------------------- ________________ कायस्थितिप्रकरणम् ३८ ] [ मत्यज्ञानादीनां जघन्यकायस्थितिः 'अज्ञानद्विकस्य' मत्यज्ञान - श्रुताज्ञानलक्षणस्य मार्गणाद्विकस्य तथा 'देशा - ऽयतचक्षुः सर्वलेश्यानां' देशस्य="समुदायेषु प्रवृत्ताः शब्दा मवयेवष्वपि वर्तन्ते" इति न्यायाद् देशविरतमार्गणाया अयतस्य = अविरतमार्गणायाः, चक्षुषः =चक्षुर्दर्शनमार्गणायाः सर्वलेश्यानां = कृष्णादीनां षण्णां लेश्यानां सम्य क्त्वक्षायिकवेदकोपशम मिश्राणां सम्यक्त्वस्य = सम्यक्त्वसामान्यमार्गणायाः क्षायिकस्य क्षायिकसम्यक्त्वमार्गणाया वेदकस्य क्षायोपशमिकसम्यक्त्वमार्गणाया उपशमस्य = य= औपशमिकसम्यक्त्वमार्गणाया मिश्रस्य = मिश्रमार्गणास्थानस्य मिथ्यात्वस्य = मिथ्यात्वमार्गणायाश्च प्रत्येकमेकजीवाश्रया जघन्यकाय स्थितिर्भवति, उक्तं च श्रीप्रज्ञापनासूत्रे - "पज्जत्तए णं पुच्छा, गो० ! ज० श्रं० ।" एवमन्या अपि मार्गणा अधिकृत्य ग्रन्थान्तरसंवा-दो योज्यः । अथ तुशब्दस्य विशेषार्थो भाव्यते - यद्यपि पञ्चाशन्मार्गणानां जघन्यत एकजीवाश्रया कायस्थितिरन्तमुहूर्तप्रमाणा भवति, तथापि सर्वासां न मिथस्तुल्या । तथाहि - मानस्य जघन्य कायस्थितिरन्तमुहूर्त प्रमिता भवन्त्यपि स्तोका भवति, ततः क्रोधस्य विशेषाधिका भवति, ततो मायाया विशेषाधिका, उक्तं च कषायप्राभृतचूर्णी - "ओघेण माणद्धा जहण्णिया थोवा, कोधद्धा जहणिया विसेसाहिया, मायद्धा जइण्णिया. विसेसाहिया ।" इति । देशविरता - ऽविग्तसम्यक्त्वमिश्रमिथ्यात्वानां तु जघन्यकायस्थितिः परस्परं तुल्या । उक्तं च कषायप्राभृतचूण - " जइण्णिया संजमासंजमद्धा सम्मत्ताद्धा मिच्छत्तद्धा संजमद्धा असंजमद्धा सम्मामिच्छत्तद्धा च एदाओ छप्पि अद्धाओ तुल्लामो xxx ।” इति । संयमस्य जघन्यकायस्थितिः प्रज्ञापनादिसूत्राभिप्रायेणैकसमय इति मतान्तरन्त्वमग्रे दर्शयिष्यते । मतिज्ञानश्रुतज्ञानयोः सम्यक्त्वे सति सद्भावाद् मत्याज्ञान - श्रुताऽज्ञानयोश्च मिथ्यात्वे सति संभवात् तेषामपि जघन्यकाय स्थितिर्देशविरतादिकजघन्यकायस्थित्या तुल्या सिद्धयति । एवं शेषमार्गणानां जघन्य स्थितेहींनाधिकत्वं वाच्यम् । कायस्थितिर्भावना तु सुगमा, यतो मार्गणान्तरतो विवक्षितमार्गणां जघन्यतोऽप्यन्तमुहूर्तकालं स्पृष्ट्वा मार्गणान्तरं यः प्राप्नोति, तदपेक्षयोक्तमार्गणानामेकजीवाश्रया जघन्या कायस्थितिरन्तमुहूर्त लभ्यते, नवरमन्तर्मुहूर्त मात्र आयुषि शेषे क्षपकश्रेण्यारूढजीवाऽपेक्षया क्षायिकसम्यक्त्वमार्गणायाः केवलज्ञान केवलदर्शनमार्गणयोश्च जघन्यकायस्थितिर्भावनीया । एतदुक्तं भवति यद्यपि बन्धकनिरपेक्षा केवलज्ञान- केवलदर्शन- क्षायिकसम्यक्त्वरूपाणां तिसृणां मार्गणानां कायस्थितिरेकजीवाश्रया साद्यपर्यवसिता प्राक् प्रोक्ता, तथापीह प्रकृतिबन्धमाश्रित्य केवलद्विकस्य क्षायिकसम्यक्त्वस्य च जघन्यकायस्थितिरन्तमुहूर्त प्राप्यते, सयोगिकेवलिगुणस्थानकादूर्ध्वं प्रकृतिबन्धाऽभावात् । भावना त्वित्थं कार्या- कश्चिदष्टाविंशतिसत्कर्मा जीवो ऽन्तमुहूर्तमशेषसंसारःकरणत्रयेण दर्शनत्रिकं क्षपयित्वा क्षायिकसम्यक्त्वं प्राप्नोति, तदनन्तरं क्षपकश्रेणिमारुह्य घातिचतुष्टयं शीघ्रं क्षपयति, क्षपयित्वा च सयोगिकेवली भूत्वा शैलेशीं प्राप्तः Page #42 -------------------------------------------------------------------------- ________________ पुरुषवेदादीनां जवन्यकायस्थिति.] फायस्थितिप्रकरणम् [३९ प्रकृतिबन्धं व्यवच्छेदयति, तं जीवमाश्रित्य प्रोक्तमार्गणात्रयस्य प्रत्येकमेकजीवाश्रया जघन्यकायस्थितिरन्तमुहूर्तप्रमिता लभ्यते । ___कश्चित्पुरुषवेदोदयेनोपशमश्रेणिमारुह्य श्रेणितश्च्युतोऽनिवृतिवादरसम्पराये भूयः पुरुषवेदमनुभवति, ततो जघन्यकालमतिक्रम्य भूय उपशमश्रेणिमारूढोऽवेदभावं भजते,तदा पुरुषवेदस्य कालोऽन्तमुहूर्त भवति । यद्वा वेदान्तरमनुभूय पुरुषत्वेन जघन्यायुषि समुत्पद्यते, ततः कालं कृत्वा पुनर्वेदान्तरं व्रजति, तमाश्रित्याऽपि पुरुषवेदस्य कालोऽन्तर्मुहूर्त लभ्यते । अनयोर्यः केवलिदृष्टया जघन्यो भवति, सोऽत्र जघन्यकायस्थितित्वेन बोध्यः। - क्रोधमानमायानां जघन्यकायस्थितिरन्तमुहर्तप्रमाणा भवति, यतः श्रीप्रज्ञापनासूत्रवृत्तिकारैः-त्रयाणां कषायाणां क्रोधमानमायारूपाणां जघन्यकायस्थितिमेकसमयप्रमाणां निषिध्याऽनेकसमयप्रमाणेत्थमुपपादिता- 'अथैवं क्रोधादिष्वप्येकसमयता कस्मान्न लभ्यते ? उच्यते-तथास्वाभाव्यात् । तथाहि-श्रेणितः प्रतिपतन् मायाणुवेदनप्रथमसमये मानाणुवेदनप्रथमसमये क्रोधाणुवेदनप्रथमसमये वा यदि कालं करोति, कालं च कृत्वा देवलोकेषूत्पद्यते, तथापि तथास्वाभाव्यात् येन कषायोदयेन कालं कृतवान् तमेव कषायोदयं तत्राऽपि गतः सन्नन्तर्मुहूर्तमनुवर्त्तयति, एतच्चावसीयते भधिकृतसूत्रप्रामाण्यात् , ततोऽनेकसमयता क्रोधादिष्विति । तदेवं नरतिरश्चां भेदप्रभेदानां जघन्यकायस्थितिस्तत्समानत्वाचाऽन्यासामपि मार्गणानामुक्ता ॥२७,२८॥ - सम्प्रति क्रमप्राप्तानां देवगतिमार्गणाभेदप्रभेदानामेकजीवाश्रितां जघन्यकायस्थितिं वक्तुकाम आह पलियस्स अट्ठभागों जोइसिअस्स पलिओवमं णेया। सोहम्मसुरस्स भवे ईसाणस्सऽभहियपल्लं ॥२९॥ ... (प्रे०) पलियस्स' इत्यादि, 'पन्यस्य' पन्योपमस्य ‘अष्टभागः'अष्टमश्चासौ भागश्च अष्टभागः, पृषोदरादित्वादिह पूरणप्रत्ययलोपः, ज्योतिष्कस्य ज्योतिष्कसुरमार्गणाया एकजीवाश्रयाजघन्यकायस्थितिर्भवतीत्युपस्कारः,सुराणामनन्तरभवे सुरत्वेना-ऽनुत्पत्तेज्योतिष्काणांचजघन्यभवस्थितेर्यथोक्तप्रमाणत्वात् । विशेषतः पुनः सूर्यचन्द्रग्रहनक्षत्रसुराणां तत्सुरीणां च जघन्यतः कायस्थितिः पन्योपमस्य चतुर्भागः, तारकदेवानां तद्देवीनां च पन्योपमस्या-ऽष्टभागः,तजघन्यभवस्थितेरेतावन्मात्रत्वात् ,उक्तं च जीवसमासवृत्ती-चंदाईचगहाणं नक्खत्ताणं व देविसहियाणं । अट्ठण्डं पि जहण्णं भाऊ पलियस्स चउभागो ॥१॥ पलिओषमट्ठभाभो तारयदेवाण तह य देवीणं । होइ जहण्णं माउंxxx॥२॥"इति । अथ वैमानिकसुराणामेकजीवाश्रयां जघन्यकायस्थितिं वक्तुमना आदौ तावत् सौधर्मेशानसुरयोस्तामाह-'पलिओवर्म' इत्यादि, पन्योपमं 'ज्ञेया' एकजीवाश्रिता जघन्यकायस्थितिर्बोध्या, कस्य ? इत्याह-'सोहम्मसुरस्स' ति सौधर्मसुरस्य, "भवे' इत्यादि, 'भवेत्' स्यात् , 'ऐशानस्य' Page #43 -------------------------------------------------------------------------- ________________ ४० ] काय स्थितिप्रकरणम् [ सनत्कुमारादीनां जघन्यकायस्थितिः ऐशानसुरमार्गणायाः 'अभ्यधिकपल्यं' साधिकं पल्योपममेकजीवाश्रया जघन्यकायस्थितिः, यत ऐशान सुराणां जघन्यायुष्कमेतावन्मात्रम्, उक्तं च श्रीतत्वार्थ सूत्रे - “अपरा पल्योपममधिकं च" इति । सौधर्माद्यच्युतपर्यवसान कल्पानां सर्वेषु प्रस्तटेषु सुराणां जघन्य काय स्थितिस्तत्तत्कल्पजघन्यस्थितिप्रमाणा भवतीति प्राहुषृहत्संग्रहणोवृत्तिकारादयः श्रीमन्मलयगिरिपादादयः । अन्ये पुनर्भणन्ति-या तत्तत्कल्पानां पूर्वपूर्वप्रस्तटेषूत्कृष्ट स्थितिः, सोत्तरोत्तरप्रस्तटेषु जघन्यस्थितिर्भवतीति, यदुक्तं देवेन्द्रनरकेन्द्रस्तवप्रकरणवृत्तौ श्रीमन्मुनिचन्द्रसूरीश्वरपादैः- “जघन्या त्वधस्तनानन्तर प्रस्तटगतोत्कृष्टा स्थितिर्वाच्या ।" इति ॥ २९|| सम्प्रति सनत्कुमार माहेन्द्रसुराणामेकजीवाश्रयां जघन्यकायस्थितिं निगदितुकामः प्राहदोणि हवेज्जा जलही सणकुमारस्स दोण्णि अन्भहिया । मार्केदस्स हवेज्जा सत्त भवे बम्हदेवस्स ॥३०॥ (प्रे०) 'दोण्णि' इत्यादि, 'द्वौ' द्विसंख्याको 'जलधी' सागरोपमौ 'सनत्कुमारस्य' सनत्कुमारसुरस्यैकजीवाश्रया जघन्यकाय स्थितिर्भवति, द्वौ च सागरोपमा अभ्यधिको 'माहेन्द्रस्य' माहेन्द्र देव मार्गणाया जघन्यकाय स्थितिर्भवति, तयोर्जघन्यभवस्थितेस्तावन्मात्रत्वात् । 'सत्त' इत्यादि, सप्त सागरोपमाणि 'ब्रह्मदेवस्य' पदैकदेशे पदसमुदायोपचाराद् ब्रह्मलोकसुरस्य 'भवेद्' एकजीवाश्रया जघन्यकायस्थितिः स्यात्, जघन्यभवस्थितेस्तावत्प्रमाणत्वात् ||३०|| सम्प्रति षष्ठादिकल्पसुराणां जघन्यकायस्थितिं व्याजिहीर्षु राह लंत गदेवाईणं सा बम्हसु राइगाण जा जेट्ठा । सव्वत्थाऽचक्खूणं भवियाभवियाण णत्थि लहू ॥ ३१ ॥ (प्रे०) 'लंतक०' इत्यादि, तत्र 'ब्रह्मसुरादीनां ' ब्रह्मलोक देवप्रभृतिनवमग्रैवेयकसुरपर्यवसानानां 'या 'ज्येष्ठा' उत्कृष्टा काय स्थितिरेकजीवाश्रया 'सोहम्माईण' इत्यादिगाथाद्वयेनोक्ता, सा 'लान्तकसुरप्रभृत्यनुत्तर देवपर्यन्तानां देवानां जघन्यकाय स्थितिर्भवति, जघन्यायुषस्तावत्प्रमाणत्वात् । तथाहि -लान्तकसुरस्यैकजीवाश्रया जघन्यकायस्थितिर्दशसागरोपमाणि, महाशुक्रदेवस्य चतुर्दशसागरोपमाणि, सहस्रारदेवस्य सप्तदश सागरोपमाणि, आनतसुरस्याऽष्टादश सागरोपमाणि, प्राणतसुरस्यैकोनविंशतिः सागरोपमाणि, आरणसुरस्य विंशतिः सागरोपमाणि, अच्युतदेवस्यैकविंशतिः सागरोपमाणि प्रथमग्रैवेयकसुरस्य द्वाविंशतिः सागरोपमाणि, द्वितीयग्रैवेयकसुरस्य त्रयोविंशतिः सागरोमाणि एवमेकोत्तरवृद्धया तावद् वक्तव्या, यावद् विजयवैजयन्तजयन्ताऽपराजितसुराणां प्रत्येकमसागरोपमाणि जघन्य कार्यास्थतिः, सर्वार्थसिद्धसुराणां जघन्यकायस्थितेरनन्तरं प्रतिषिध्यमानत्वात् । समवायाङ्ग तु विजयादिचतुरनुत्तराणां जघन्य स्थितिर्द्वात्रिंशत्सागरोपमाण्यभिहिता Page #44 -------------------------------------------------------------------------- ________________ सर्वार्थसिद्धादीनां जघन्यकायस्थितिनिषेधः ] कायस्थितिप्रकरणम् [४१ तथा तद्ग्रन्थ:-"विजयवेजयंतजयन्तअपराजियाणं देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं बत्तीस सागरोवमाई।" इति ।। सम्प्रति सर्वार्थसिद्धसुरादिमार्गणाः सम्पिण्डय तासां जघन्यकायस्थिति निषेधन्नाह'सव्वत्थः' इत्यादि, 'सर्वार्थाःऽचक्षुषोः" "समुदायेषु प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते" इति न्यायेन सर्वार्थस्य सर्वार्थसिद्धसुरमार्गणाया अचक्षुषः अचक्षदर्शनमार्गणायाश्च भव्या-ऽभव्योः' भव्यमार्गणाया अभव्यमार्गणायाश्च नास्ति 'लघुः' एकजीवाश्रया जघन्यकायस्थितिः । कथमेतदवसीयते ? इति चेत् , उच्यते-न तावत् सर्वार्थसिद्धसुरमार्गणाया जघन्यकायस्थितिः संभवति, तत्रत्यानां सर्वेषां समानायुष्कत्वात् , यदुक्तं प्रज्ञापनासूत्रे-सव्वट्ठसिद्धदेवाणं भंते ! केवतियं कालं ठिई पन्नत्ता ? गोयमा ! अजहणुक्कोसेणं तित्तीसं सागरोवमाई ठिई पन्नत्ता।” इति । तथाऽचक्षुर्दर्शन-भव्यत्वयोर्व्यवच्छेदे सति सयोगिकेवलिनां सिद्धानां च प्रतिपाताभावाद् न प्रोक्तमार्गणयोः सादिता लभ्यते, तेन न तयोर्जघन्यकायस्थितिर्भवति, जघन्यकायस्थितेराधन्तसापेक्षत्वात् । तथाऽभव्यमार्गणाया अपि जघन्यकायस्थितिर्न संभवति, आद्यन्ताभावात् ॥३१॥ ..... सम्प्रत्येकसमयप्रमाणजघन्यकायस्थितिकमार्गणाः संगृह्य प्राह समयोऽत्थि पणमणवयणउरलदुगाहारविउवकम्माणं । इत्थीणपुसगाणं अवेअलोहाकसायाणं ॥३२॥ मणणाणोहिदुगविभंगसंजमसमइअछेअसुहुमाणं। परिहाराहक्खायगसासणऽणाहारगाणं च ॥३३॥ (प्रे०) 'समयोऽस्थि' इत्यादि, 'समयः' एकसमयः 'अस्ति' एकजीवाश्रया जघन्या काय. स्थितिर्भवति, केषां मार्गणास्थानानाम् ? इत्याह-'पण.' इत्यादि, 'पञ्चमनोवचनौदारिकद्विकाहा. रकवैक्रियकार्मणानाम् एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, पञ्चशब्दश्च द्वाभ्यां सम्बध्यते,ततश्चायमर्थ:पञ्चमनसां=मनोयोगसामान्य-सत्यमनोयोगा-ऽसत्यमनोयोग-सत्यासत्यमनोयोगा-ऽसत्यामृषमनो. योगलक्षणानां पञ्चानां मार्गणानां पञ्चवचनानां पञ्चमनोयोगवत् पञ्चानां वचनयोगानाम् औदा. रिकद्विकस्य औदारिककाययोगतन्मिश्रकाययोगलक्षणस्य आहारस्य आहारककाययोगस्य वैक्रियस्य= वैक्रियकाययोगस्य कार्मणस्य कार्मणकाययोगस्य च प्रत्येकं 'स्त्रीनपुसकयोः' स्त्रीवेदमार्गणास्थानस्य नपुंसकवेदमार्गणास्थानस्य च प्रत्येकम् अवेदलोभाकषायाणाम् अपगतवेदमार्गणाया लोभमार्गणाया अकपायमार्गणायाश्च प्रत्येक मनोज्ञाना-ऽवधिद्विकविभङ्गसंयमसामायिकच्छेदसूक्ष्माणां मनःपर्यवज्ञानमार्ग. णाया अवधिद्विकस्य अवधिज्ञानाऽवधिदर्शनरूपमार्गणाद्वयस्य विभङ्गज्ञानमार्गणायाः संयमसामान्यसामायिकसंयम-च्छेदोपस्थापनीयसंयम-सूक्ष्मसम्परायसंयमानां च प्रत्येक परिहार-यथाख्यात-सास्वादना-ऽनाहारकाणां च' पदैकदेशे पदसमुदायोपचोरात् परिहारविशुद्धिकसंयम-यथाख्यातसंयम-सास्वा Page #45 -------------------------------------------------------------------------- ________________ ४२] कायस्थितिप्रकरणम् [मनोयोगादीनां जघन्यकायस्थितिः दनाऽनाहारकलक्षणानां चतुर्णा मार्गणास्थानानां च प्रत्येकम् , उक्तं च श्रीप्रज्ञापनासो-"मण . जोगी णं भंते मणजोगी त्ति कालतो. ? गो० ! ज० एक्कं समय,xxx एवं वइजोगी वि । अवेदए णं मंते ! भवेदए त्ति पुच्छा, गो० ! अवेदे दुविधे पं० त०, सादीए अपज्जवसिए, साइए वा सपज्जवसिते, नत्थ णं जे से साइए सपज्जवसिते, से जहणणेणं एगं समय। xxx लोभकसाई णं भंते ! लोभ, पुच्छा गो० ! नह० एक्कं समयं । xxx इथिवेदे णं भंते ! इथिवेदे त्ति काल ? गो० ! xxx जह० एक समयं । xxx नपसगवेए णं भंते ! नपसगवेदेत्ति पच्छा, गो० ज० एगं समयं | xxxx अकसाई णं भंते ! अकसादि त्ति काल• ? गो० ! अकसादी पं०तं० सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते, से जह० एगं समयं । xxx ओहिनाणी वि एवं चेत्र, नवरं जहण्णेणं एगं समयं । मणपज्जवणाणी णभंते ! पुच्छा, मणपज्जवणाणि त्ति कालतो०, गो० !जह. एगं समयं।xxx विभंगणाणी णं भंते ! पुच्छा. गो०! जहण्णणं एगं समयं xxxxx xxxxx ओहिदसणी णं पुच्छा , गो० ! जह० एगं समयं xxx । छ उमत्यभणाहारए णं भंते ! पुच्छा, गो० जह० एगं समयं ।" इति । एवमन्यासामौदारिकादिमार्गणानां सामयिक्या जघन्यकायस्थितेः प्रतिपादको जीवसमासादिग्रन्थसंवादो द्रष्टव्यः, तथा चाऽत्र जीवसमासप्रकरणम्मणवइउरलविउविवआहारयकम्मजोग अणरित्थी । संजमविभागविब्भंगसासणे एकसमयं तु ॥१॥ इति । भावना वित्थं कार्या-कश्चिञ्जीव औदारिकादिकाययोगेन प्रथमसमये मनोवर्गणापुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणम्य मुञ्चति, तृतीयसमय उपरमते म्रियते वा, तत्रोपरतस्य योगान्तरभजनाद् मृतस्य चौदारिकमिश्र-वैक्रियमिश्रयोग-कार्मणकाययोगानामन्यतमयोगस्योपलम्भाद् मनोयोगस्य जघन्यावस्थानकाल एकसमयः प्राप्यते, न चैतत् स्वमनीषिकया विज़म्भितम् , श्री. प्रज्ञापनासूत्रस्य मूलवृत्तिकारैस्तथासमर्थितत्वात् । तथा च तद्ग्रन्थः-"मणयोगे खंधे पडुच्च भोरालियादिकायजोगेण जीवव्यापारो पढमसमये चेव उवरमति मरति वा, तत्थ एगसमयं ।" इति । मनोयोगसामान्यस्यैकसामयिकत्वेन तव्याप्यभूतानां सत्यादिमनोयोगानामकसामयिकता निगदसिद्धा, व्यापकाभावे व्याप्याभावस्या-ऽवश्यं भावात् । एवं पञ्चानां वचनयोगानामपि भावना कर्तव्या। . औदारिकवैक्रियकाययोगयोमरणमाश्रित्य जघन्यकायस्थितिर्भावनीया। तथाहि-कश्चिन्मनुष्यस्तिर्यङ्वा मनोयोगादिकं परित्यज्य समयमेकमौदारिकशरीरयोगवत्वेन जीवित्वा मृतः कार्मणकाययोगी औदारिकमिश्रकाययोगी वैक्रियमिश्रकाययोगी वा भवति, मरणाऽनन्तरसमये कार्मणकाययोगौदारिकमिश्रकाययोग-वैक्रियमिश्रकाययोगानामेवाऽन्यतमस्य योगस्योपलम्भात् । एवं कश्चिद् देवो नारको वा मनोयोगादिकं विमुच्य वैक्रियकाययोगे समयमेकं जीवित्वा मृत औदारिकमिश्रकाययोगी कार्मणकाययोगी वा भवति, देवनारकाणां मरणसमनन्तरसमय औदारिकमिश्रकार्मणकाययोगौ ऋतेऽन्ययोगस्याऽसंभवात् । तदेवमुक्तयोर्मार्गणयोर्जघन्यकायस्थितिः समयः । औदारिकमिश्रकाययोगस्य जघन्यकायस्थितिः समुद्घातमापन्नं कपाटस्थं सयोगिकेवलिनं प्रतीत्यैकसामयिकी प्राप्यते, यतः समुद्घातस्य प्रथमसमय-तृतीयसमयोर्मध्यगते द्वितीयस्मिन् समय Page #46 -------------------------------------------------------------------------- ________________ स्त्रीवेदादीनां जघन्यकायस्थितिः ] कार्यस्थितिप्रकरणम् [ ४३ औदारिक मिश्र काययोग उपलभ्यते, प्रथमसमये तृतीयसमये च यथाक्रममौदारिककाययोगः कार्मणयोगश्च प्राप्यते । कृताहारकशरीरः कश्चिच्चतुर्दशपूर्वधरः कार्यसिद्धिप्रत्याससिकाले मनोयोगाद्वा वचनयोगाद्वाऽवतीर्य समयमेकमाहारकशरीरयोगित्वेन स्थित्वौदारिशरीरं प्रतिपद्यते, मृत्वा वा देवलोके वैक्रियमिश्रकाययोगमधिगच्छति, तमाश्रित्याऽऽहारककाययोगमार्गणाया जघन्यकायस्थितिरेकसमयप्रमाणा लभ्यते । या द्विसामयिक्या विग्रहगत्या जीव उत्पद्यते, तदा कार्मणकाययोगस्य जघन्यकायस्थितिरेकः समय आसाद्यते, एवमनाहारकमार्गणाया अपि प्रकृतकाय स्थितिर्भावनीया । काचित् स्त्री उपशमश्रेणि प्रतिपन्ना वेदोदयं सर्वथोपशमय्या ऽवेद त्वमनुभूयोपशान्तमोहगुणस्थानकं लभते ततो ऽद्धाक्षयेण क्रमशः पतित्वा ऽनिवृत्तिबादरसम्पराये समयमेकं स्त्रीवेदमनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च पुरुषवेद एव, न स्त्रीवेदः, सम्यग्दृशां देवीत्वेनोत्पादाभावात् । तदा स्त्रीवेदस्य जघन्यकायस्थितिरेकसमयो लभ्यते । एवं नपुंसकवेदस्याSपि प्रकृतकाय स्थितिर्भावनीया, नवरं नपुंसकवेदी श्रेणिमारोपयितव्यः । नन्वेवं तर्हि पुरुषवेदस्य जघन्यत एकसमयः कार्यस्थितिः कुतो न लभ्यते १ इति वाच्यम्, श्रेणौ मृतस्य देवत्वेन समुत्पत्तेस्तत्राऽपि पुरुषवेदोदयविरहाभावात् । 1 लोभस्यैकसमयमात्री जघन्यकायस्थितिः श्रीमन्मलयगिरिपादैरित्थं भाविता"लोभकषायी जघन्येनैकं समयमिति यदा कश्चिदुपशमकः उपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणितः प्रतिपतन् लोभाणुप्रथम समयसंवेदनकाल एव कालं कृत्वा देवलोकेषूत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकषायी मानकषायी मायाकषायी वा भवति, तदा एकं समयं लोभकषायी लभ्यते । " इति । श्रीमन्मलघारिहेमचन्द्रसूरिपादैः पुनः- “लोभोपयुक्तस्तु जघन्यतः समयं कथमिति ? उच्यते य उपशान्तमोहः प्रतिपतन्नेकं समयं लोभपुद्गलान् वेदयित्वाऽनन्तरं कालकरणादनुत्तरसुरेषूत्पद्यते, तस्य किल युगपत् सर्वे कषायाः प्रदेशोदयेनोदय मागच्छन्ति, न तु केवलो लोभ इत्येवं जघन्यतो लोभकषायोदयः केत्रलः समयमेकमवाप्यते ।” इति । अन्ये पुनर्व्याचक्षते - तिर्यगादीनामन्यतमो यः क्रोधप्रभृतीनामन्यत - मकषायतः समुत्तीर्य समयमेकं लोभकषायी भूत्वा म्रियते, मृत्वा च देवगतिवर्जास्वन्यासु गतिषूत्पद्यते, तस्य जीवस्य लोभकषायस्य जघन्यकाल एकसमयः प्राप्यते, अथवा मरणाभावे व्याघातेनाऽप्येकसमयः प्राप्यत इति । तदत्र तत्वं केवलिनो विदन्ति । कश्चिजीव उपशमश्रेणिमारोहननिवृत्तिवादरसम्पराय गुणस्थानके सर्वथा वेदमुपशमय्याऽवेदभावं प्राप्तः समयमेकं स्थित्वा मृतो देवलोके समुत्पद्यते, तस्याऽपगतवेद मार्गणाया जघन्यकाय स्थितिरेकसमयमात्री लभ्यते, देवलोके पुवेदोदयात् । यः कचिदुपशान्तमोहो भूत्वा द्वितीयसमये कालं करोति, तमाश्रित्याsकषायमार्गणायथाख्यात संयम मार्गणयोर्जघन्यकायस्थितिरेकसमयप्रमाणा लभ्यते । Page #47 -------------------------------------------------------------------------- ________________ ४४) कायस्थितिप्रकरणम् [अवविज्ञानादीनां जथन्यकायस्थितिः कश्चिज्जीवो-ऽप्रमत्ताद्धायां वर्तमानो मनःपर्यवज्ञानमुत्पाद्य द्वितीयसमये कालं कृत्वा देवत्वेन समुत्पद्यते, तस्य जीवस्य मनःपर्यवज्ञानमेकसमयमात्रस्थितिकम् , देवलोके संयमाभावेन मनःपर्यवज्ञानाभावात् । कश्चित् तिर्यपञ्चेन्द्रियो मनुष्यो वा विभङ्गज्ञानी सन् सम्यक्त्वं प्रतिपद्यते, तस्य च सम्यक्त्वप्रतिपत्तिप्रथमसमये सम्यक्त्वभावतो विभङ्गज्ञानमेवाऽवधिज्ञानं जायते, अनन्तरसमये त्ववधिज्ञानावरणोदयान्मूलत एव प्रतिपतति, तदाऽवधिज्ञानस्यैकसमयो जघन्यकायस्थितिः प्राप्यते । यदा कश्चिन्मनुष्यस्तियङ्वा तथाविधाऽध्यवसायादवधिदर्शनमुत्पाद्या-ऽनन्तरसमये-ऽवधिदर्शनावरणोदयाद् मूलत एवाऽवधिदर्शनात् प्रतिपतति, तदा-ऽवधिदर्शनमार्गणाया जघन्यफायस्थितिरेकसमयमात्री। मतान्तरेणा-ऽवधिज्ञान-मनःपर्यवज्ञाना-ऽवधिदर्शनानां जघन्यकायस्थितिरन्तमुहूर्तप्रमाणा भवति, तच्च मतान्तरमग्रे वक्ष्यते । - कश्चिद् देवो नारको वौपशमिकसम्यग्दृष्टिरौपश मिकसम्यक्त्वतश्च्युत्वा सास्वादनं प्राप्तः, तस्य सास्वादनप्रतिपत्तिप्रथमसमय एव विभङ्गज्ञानं भवति, ततोऽनन्तरसमये मरणाद् मनुष्यत्वेन तिर्यक्त्वेन वा समुत्पन्नस्य विभङ्गज्ञानस्याऽपगमेन जघन्यकायस्थितिरेकसमयो लभ्यते । ___ कश्चित् संयमं प्रतिपद्य द्वितीयसमये कालं कृत्वा देवत्वेनोत्पद्यते, तदा संयमस्य जघन्यकाल एकसमय आसाधते, देवानां संयमाभावात् , मतान्तरेणा-ऽन्तमुहूर्त वक्ष्यते । कश्चिज्जीव उपशमश्रेणिमारोहन्नुपशमश्रेणितो वाऽवतरन् समयमेकं सूक्ष्मसम्परायगुणस्थानकं स्पृष्ट्वा म्रियते, तदा सूक्ष्मसम्परायसंयमस्य जघन्यकायस्थितिरेकसमयः प्राप्यते । .. उपशमश्रेणितोऽवतरमनिवृत्तिवादरसम्परायगुणस्थाने सामायिकसंयमं छेदोपस्थापनीयसंयम वाऽऽसाद्या-ऽनन्तरसमये यो म्रियते, तमाश्रित्य सामायिकच्छेदोपस्थापनीययोर्जघन्यकायस्थितिरेकसमयो लभ्यते । परिहारविशुद्धिकसंयमस्य जघन्यकायस्थितिरेकसमयप्रमाणा मरणा-ऽपेक्षया भावनीया । उपशमाद्धायामेकसमयावशेषायां यः सास्वादनभावं प्रतिपद्यते,सो-ऽनन्तरसमयेऽवश्यं मिथ्यात्वं गच्छति, तदेवं सास्वादनमार्गणाया जघन्यकायस्थितिरेकसमयप्रमाणोपलभ्यते ॥३२,३३॥ सम्प्रति क्रोधादीनां जघन्यकायस्थितिं मतान्तरेण प्रतिपादयभाह अण्णे तिकसायाणं समयो मणणाणओहिजुगलाणं । संजमपरिहाराणं भिन्नमुहुत्तं ति कायठिई ॥३४॥ (प्रे०) 'भण्णे' इत्यादि, 'अन्ये' केचित् महाबन्धकारादयो ब्रुवन्तीत्युपस्कारः, 'त्रिकपायाणां' क्रोधमानमायाख्यानां त्रयाणां कषायाणां प्रत्येकं 'समयः' एकसमयो जघन्यकापस्थिति Page #48 -------------------------------------------------------------------------- ________________ नरकगत्यादीनामुत्कृष्टकायस्थितिः ] क यस्थितिप्रकरणम् [ ४५ र्भवति, भवचरमसमये स्वभिन्नकषायतः समुत्तीर्य क्रोधमधिगच्छति, ततो मृत्वा नरकगतिवर्जशेषगतिधूत्पद्यते, तस्य क्रोधस्यैकसमयमात्री कास्थितिघन्यतो भवति, एवं मानमाययोरपि भावनीया, नवरं यथाक्रमं मनुष्यगति तिर्यग्गतिं च वर्जयित्वा गत्यन्तरे समुत्पद्यत इति वक्तव्यमिति । प्रास्तु श्रीप्रज्ञापनासूत्रकारादिमतेन-त्रयाणां क्रोधादिकषायाणां प्रत्येकं जघन्यकायस्थितिरन्तमुहूर्तमात्री प्रतिपादिता, तेषां मतेन गत्यन्तरे समुत्पद्यमानानां पूर्वभवगत एव क्रोधादीनामन्यतमः कषायोऽनुवतते । सम्प्रति मतान्तरेणाऽन्तम हूर्तप्रमाणजघन्यकायस्थितिका मार्गणाः संगृह्य प्राह--'मण.' इत्यादि, 'मनोज्ञाना-ऽवधियुगलयोः' मनोज्ञानस्य मनःपर्यवज्ञानमार्गणाया अवधियुगलस्य अवधिज्ञानाऽवधिदर्शनलक्षणस्य मार्गणाद्विकस्य प्रत्येकं 'संयम-परिहारयोः' संयमस्य संयमसामान्यमार्गणायाः परिहारस्य परिहारविशुद्धिसंयममार्गणायाश्च प्रत्येकं 'भिन्नमुहूर्तम्' अन्तमुहूतं जघन्यकायस्थितिरेकजीवाश्रया भवति, यतो भावान्तरतो यथोक्तभावं प्राप्य भावान्तरं गतस्य जीवस्य मनःपर्यवज्ञानादिमार्गणानां जघन्यतो-ऽन्तमुहर्तकालो लभ्यते । इतिशब्दः समाप्तिवाचकः, का समाप्ता ? इत्याह-'कायठिई' त्ति, 'कायस्थितिः' जघन्यत उत्कृष्टतश्चैकजीवाश्रया * चतु:सप्तत्यधिकशतमार्गणानां कायस्थितिप्ररूपणा समाप्तेत्यर्थः ॥३४॥ AMANY ॥ इति समाता ॥ श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सचारित्रचूडामणिकर्मशास्त्रनिष्णात-प्रातःस्मरणीयाचार्यशिरोमणि-श्रीमद्विजयप्रेमसूरीश्वरान्तेवासिमुनिमतल्लजश्रीजयघोषविजय-धर्मानन्दविजय-वीरशेखरविजयसंगृहीतपदार्थकस्य मुनिश्रीवीरशेखरविजयरचितमूलगाथाकस्य कायस्थितिप्रकरणस्य मुनिपुङ्गवजितेन्द्र विजयशिष्यमुनिगुणरत्नविजयविरचिता प्रेमप्रभावृत्तिः । *चतुःसप्तत्युत्तरशतमार्गणाः षट्चत्वारिंशत्तमपृष्ठस्थयन्त्रतोऽबसेयाः । Page #49 -------------------------------------------------------------------------- ________________ ४६ ) १७४ उत्तरमार्गणाप्रदर्शियन्त्रम् भव्यः , संख्यया मार्गणास्थानानि | सख्यया मार्गणास्थानानि । संख्यया मार्गणास्थानानि संख्यया मार्गणास्थानानि । कषाय: ५) गतिः (४७) कायः (४२) १ क्रोधः, लेश्या ६ १ नरकगतिसामान्यम् , *७ पृथिवीकाये, १ कृष्णलेश्या, १ मानः, ७ रत्नप्रभादिपृथिवीभेदात् , माया, १ नीललेश्या, *७ अप्काये, १७ तेजःकाये, लोभः, १ काणेतलेश्या, १ तिर्यग्गतिसामान्यम् , *७ वायुकाये, १ प्रकषायः, १ तेजोलेश्या, १ तिरश्ची, १ वनस्पतिकायसामान्यम् , ज्ञानम (८) १ पद्मलेश्या, १ पञ्चेन्द्रियतिर्यक्सामान्यम् , *३ प्रत्येकशरीरवनस्पतिकाये, | मति जाना, १ शुक्ललेश्या । १ पर्याप्तपञ्चेन्द्रियतिर्यग् , ७ साधारणशरीरवनस्पतिकाये, श्रुतज्ञानम् । भव्यः १ अपर्याप्तपञ्चेन्द्रियतिर्यग् , अवधिज्ञानम् , (२) ३ सकाये। ............................ मनःपर्यवज्ञानम् , १ मनुष्यगतिसामान्यम् , केवलज्ञानम् , १ प्रभव्यः । योगः (१८) | १ मानुषी, मत्यज्ञानम् , ५ मनोयोगे, सम्यक्त्व श्रुताज्ञानम् . |१ पर्याप्तमनुष्यः, म् (७) ५ वचोयोगे, १ अपर्याप्तमनुष्यः, १ विभङ्गज्ञानम्। सम्यक्त्वसामान्यम्, काययोगसामान्यम् , सयमः(८). १ क्षायिकम् , | १ प्रौदारिकः, १ मंयमसामान्यम् , १ क्षायोपशमिकम् , | १ देवगतिसामान्यम् , औदारिकमिश्रः | १ सामायिकः, १ प्रौपशमिकम् , | १ भवन व्यन्तर ज्योतिष्काः, वैक्रियः, १ छेदोपस्थापनः, १ सासादनम् , १२ सौधर्मदिकल्पोपपन्नभेदात्, १ वैक्रियमिश्रः, | १ परिहारविशुद्धिकः, - १ | 8 नवग्रंवेयकभेदात्, १ आहारकः, १ सूक्ष्मसम्परायः, १ मिथ्यात्वम् । ५ पञ्चानुत्तरभेदात् । माहारकमिश्रः, १ यथाख्यातः, १ कार्मणः, देशसंयम:, संज्ञी (२) इन्द्रियम् (१९). असंयमः। १ संज्ञी, ७ एकेन्द्रिये, वेदः (४) दशेनम् (४) | १ असंजी। *३ द्वीन्द्रिये, १ स्त्रीवेदः; १ चक्षुर्दर्शनम्, *३ त्रीन्द्रिये, १ पुरुषवेदः, १ प्रचक्षुदैर्शनम् , भाहारकः (२) १३ चतुरिन्द्रिये, १ नपुंसकवेदः, १ अवधिदर्शनम् , प्राहारकः, *३ पञ्चेन्द्रिये, १ अपगतवेदः। १ केवलदर्शनम् । १ अनाहारकः । मिश्रम् , * 'सामान्य-२सूक्ष्मसामान्य-'सूक्ष्मपर्याप्त-सूक्ष्मापर्याप्त- बादरसामान्य-'बादरपर्याप्त-बादरापर्याप्तभेदात् सप्त । ★ 'सामान्य-२पर्याप्ता-ऽपर्याप्तभेदात् त्रीणि। सामान्य-सत्या-3ऽसत्य- सत्यासत्या--"ऽसत्यामृषभेदात् पञ्च । Page #50 -------------------------------------------------------------------------- ________________ भवस्थितिप्रकरणम् प्रणम्य जिनं पार्श्वेशं पार्श्व पक्षप्रसेवितम् । ध्यात्वा श्रीप्रेमसूरीशं भवस्थिति विवर्णये ॥१॥ गतीन्द्रियकायभेदानां भवस्थितिं वक्तुकाम आदौ तावत् तिर्यगादीनामुत्कृष्टभवस्थिति. माह तिरियस्स पणिदितिरियणरतप्पजत्तजोणिणीणं च । तिण्णि पलिओवमाइं उक्कोसा भवठिई णेया ॥१॥ (प्रे०) 'तिरियस्स' इत्यादि, 'तिरश्वः' तिर्यग्गतिसामान्यस्य 'पञ्चेन्द्रियतिर्यङ्नरतत्पर्याप्तयोनिमतीनां च एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, पञ्चेन्द्रियतिरश्चः पञ्चेन्द्रियतिर्यग्गतिकस्य नरस्य मनुष्यसामान्यस्य तत्पर्याप्तयोः तच्छब्दस्य पूर्ववस्तुपरामर्शित्वात् . पर्याप्तपञ्चे. न्द्रियतिर्यकपर्याप्तमनुष्ययोः, तद्योनिमत्योः तिर्यग्योनिमती-मनुष्ययोनिमत्योश्च, चकारः समुच्चयार्थकः, उत्कृष्टा भवस्थितिस्त्रीणि पल्योपमानि ज्ञेया,यदुक्तं श्री जीवाजीवाभिगमसूत्रे"तिरिक्खजोणियाणं जहन्नेणं अंतोमु०, उक्कोसेणं तिन्नि पलिओवमाइ, एवं मणुस्साणं वि।" तिर्यग्गतिसामान्यस्योत्कृष्टभवस्थितिस्त्रिपल्योपमानि पञ्चेन्द्रियतिर्यगपेक्षयैव संभवति, शेषाणां संख्येयवर्षायुष्कत्वात् । तेन पञ्चेन्द्रियतिरश्चोऽप्युत्कृष्टभवस्थितिस्त्रिपल्योपमानि । न चैतत् स्वमनीषिकया विजम्भ्यते, यत उक्तं श्रीप्रज्ञापनासूत्रे-“पचिंदियतिरिक्खजोणियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई ।" इति । पञ्चेन्द्रियतिरश्चो मनुष्यसामान्यस्य च यथोक्तोत्कृष्टभवस्थितियथाक्रमं पर्याप्तपञ्चेन्द्रियतिर्यगपेक्षया पर्याप्तमनुष्यापेक्षया च घटते, अपर्यापानामन्तमुहूर्तस्थितिकत्वात् । तेन पर्याप्तपञ्चेन्द्रियतिरश्वः पर्याप्तमनुष्यस्य चोत्कृष्टभवस्थितिस्त्रिपल्योपमानि सिद्धयति । ननु प्रज्ञापनासूत्रे. पर्याप्तपञ्चेन्द्रियतिरश्चामुत्कृष्टभवस्थितिरन्तमुहूर्तन्यूनत्रिपल्योपममात्री प्रतिपाद्यते, तथा च तद्ग्रन्थः-“पचिंदियतिरिक्खजोणियाणं भंतेxxxपज्जत्तयाणं पुच्छा, गोयमा!जहन्नेणं अंतोमुहुत्तं,उक्कोसेणं तिन्नि पलिओवमाई अंतोमुहुत्तूणाई।xxxxपज्जत्तमणुस्साणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई अंतोमुहुत्तूणाई। पजत्तमणुस्साणं पुच्छा,गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइ अंतोमुहुत्तूणाई” इति । इह पुनः कुतः परिपूर्ण पल्पोपमत्रयमुच्यते ? इति चेत् ,उच्यते-अभिप्रायापरिज्ञानाद् भवतां प्रलपितम् ,यतो विवक्षाभेदात् श्रीप्रज्ञापनासूत्र तथोक्तम् । तथाहि-प्रज्ञापनासूत्रेऽन्तर्मुहूर्तप्रमाणं करणापर्याप्तावस्था-कालं व्यपनीय प्रस्तुतभवस्थितिरुक्ता, करणपर्याप्तानाश्रित्या-ऽभिहितेत्यर्थः, इह पुनः पर्याप्तनामकर्मोदयात् पर्याप्ता इति लब्धिपर्याप्तानाश्रित्य प्रोक्ता, पर्याप्तनामकर्मोदयस्य च करणा-ऽपर्याप्ता-ऽवस्थायामपि सत्त्वाद् न वर्जितोऽन्तमुहर्तकालः । तेन न विरुध्यते त्रीणि पन्योपमानि परिपूर्णानि पर्याप्तपञ्चेन्द्रियतिर्यग्गतिकस्य पर्याप्तमनुष्यस्य चोत्कृष्टभवस्थितिः । इत्थं विवक्षाभेद एव, न मतान्तरं नवा विरोधः । एवमन्यत्राऽप्यूद्यम् । Page #51 -------------------------------------------------------------------------- ________________ ४८ ] [ तिरश्च्यादीनामुत्कृष्टभवस्थिति: तिरश्री - मानुष्योस्तूत्कृष्टभवस्थितिस्त्रिपल्योपमानि सुघटा, देवकुर्वादिषु युगलधर्मिस्त्रीणां तावत्स्थितिकायुष्कत्वात्, तथा चोक्तं श्रीजीवाजोवाभिगमे - तिरिक्खजोणित्थीणं भते ! केवतिय कालं ठिती पण्णत्ता ? गो० जहनेणं अंतोमुहुत्तं, उक्को सेणं तिष्णि पलिओ माइ । xxxमणुस्सित्थीणं भंते ! केवइयं कालं ठिती पन्नत्ता ? खेत्तं पडुच्च जह० अंतो०, उक्को० तिष्णि पलिओ माइ " | इति ||१|| सम्प्रत्येकेन्द्रियप्रभृतीनामुत्कृष्टभवस्थितिं वक्तुकामः प्राहएगिंदिय पुहवीणं वरिससहस्साणि होड़ बावीसा । सा वेत्र होइ तेसिं वायर वायरसमत्ताणं ॥२॥ भस्थितिप्रकरणम् • . ( प्रे०) 'एगिंदिय०' इत्यादि ' एकेन्द्रियपृथिव्योः ' एकेन्द्रियसामान्य-पृथिवीकायसामान्ययोविंशतिर्वर्षसहस्राणि 'भवति' उत्कृष्टभवस्थितिरस्ति 'सा चैव द्वाविंशतिवर्षसहस्राणि चैव बादर- बादरसमाप्तानां तेषां तच्छन्दस्य पूर्वप्रकान्तपरामर्शित्वाद् एकेन्द्रियपृथिवीनां = चादरै केन्द्रिय- पर्याप्तचादरै केन्द्रिय- बादरपृथिवीकाय- पर्याप्तवादिरपृथिवीकायानां ' भवति ' उत्कृष्ट भवस्थितिरस्ति । एकेन्द्रियसामान्य- बादरै केन्द्रिय--पर्याप्तव । दरै केन्द्रियाणामियती भव-स्थितिः पृथिवीकायिकापेक्षया बोध्या, शेषाणामप्कायिकानां भवस्थितेः स्तोकत्वात् । पृथिवीकायस्य बादरपृथिवीकायस्य चोत्कृष्टस्थितिर्यथोक्तप्रमाणा प्रज्ञापनादिसूत्रे प्रतिपादिता । तथा च तद्ग्रन्थः “पुढविकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोण बाबीसं वाससहस्साइ | xxxx बायरपुढविकाइयाणं पुच्छा, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बाबीसं वाससहस्साइ ।" इति । बादरपृथिवीकायिकानां प्रोक्तभवस्थितिः पर्याप्तवादरपृथिवीकायिकापेक्षया संभवति, अपर्याप्तानामान्तमौहूर्तिकत्वात् । तेन पर्याप्तबादरपृथिवीकायिकस्योत्कृष्टभवस्थितिर्द्वाविंशतिसहस्रवर्षाणि भवति, यदुक्तं पश्चसंग्रहमलय गिरोयवृत्तौ -“तथाहि उत्कृष्टा भत्रस्थितिर्बादरपर्याप्तपृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि ।" इति । तदेवं एकेन्द्रियसामान्यादीनां षण्णां द्वाविंशतिवर्षसहस्राण्युत्कृष्टभवस्थितिः समुपपद्यते ||२|| सम्प्रति विकलेन्द्रियाणामुत्कृष्टभवस्थितिं वक्तुकाम आह इंदियाइगाणं कमसो बारह समा अउणवण्णा । दिवमा तह छम्मासा एवं तेसिं समत्ताणं ॥३॥ (प्रे०) 'बेइंदियाइगाणं' इत्यादि, 'द्वीन्द्रियादिकानां द्वीन्द्रिय आदिर्येषाम्, ते द्वीन्द्रियादिकाः, " शेषाद्वा' इत्यनेन वैकल्पिकः कच् प्रत्ययः तेषां द्वीन्द्रिय सामान्य-त्रीन्द्रियसामान्य चतुरिन्द्रियसामान्यानामित्यर्थः क्रमशो द्वादश 'समाः' वर्षाणि एकोनपञ्चाशद् दिवसास्तथा षण्मासाः । द्वीन्द्रियसामान्यस्योत्कृष्टभवस्थितिर्द्वादशवर्षाणि त्रीन्द्रियसामान्यस्यैकोनपञ्चाशद होरात्राश्चतुरिन्द्रियसामान्यस्य च षण्मासा भवति यदुक्तं श्रीप्रज्ञापना-सूत्रे - "बेइंदियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जद्दन्नेणं अंतोमुहुत्तं, उक्कोणं बारस , , " Page #52 -------------------------------------------------------------------------- ________________ भष्कायादीनामुत्कृष्टभवस्थितिः] भवस्थितिप्रकरणम् [४९ संवच्छराई । xxx तेइ दियाणं केवइयं कालं ठिई पन्नता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं एगुणवन्नं राईदियाइ Ixxxx चरिंदियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा ।" इति । 'एवं' एवंशब्दस्य साम्यार्थकत्वाद् द्वादशवर्षेकोनपश्चाशदिवसपण्मासा यथासंख्यं 'समाप्तानां पर्याप्तानां तेषां' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामुत्कृष्टभवस्थितिर्भवति, उक्तं च श्रीपञ्चसंग्रहवत्तौ-"तथा पर्याप्तद्वीन्द्रियाणामुत्कृष्टा भवस्थितिादशवर्षाणि, पर्याप्तत्रीन्द्रियाणामेकोनपश्चाशदिवसाः, पर्याप्तचतुरिन्द्रियाणां षण्मासाः।" इति ॥३॥ सम्प्रत्यप्कायसामान्यादीनामुत्कृष्टभवस्थितिं वक्तु काम आह दगवाऊणं कमसो वाससहस्साणि सत्त तिण्णि भवे । तिदिणाऽग्गिस्सेवं सिं बायर-बायरसमत्ताणं ॥४॥ (प्रे०) 'दगवाऊणं' इत्यादि, 'दकवाय्वोः' अप्कायसामान्य-वायुकायसामान्ययोः क्रमशः सप्तवर्षसहस्राणि त्रीणि वर्षसहस्राणि च भवेत् ' उत्कृष्टभवस्थितिः स्यात् । इदमुक्तं भवति-अप्कायिकस्य सप्तसहस्रवर्षाणि (७०००) वायुकायिकस्य च त्रिसहस्रवर्षाणि (३०००) उत्कृष्टभवस्थितिर्भवति , यदुक्तं श्रीप्रज्ञापनासूत्र-“आउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं , उक्कोसेणं सत्त-वाससहस्साइ । xxx वाडकायाणं भंते ? केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साई।" इति । 'तिदिणा' इत्यादि ; ' त्रिदिनाः' त्रयो दिवसाः ' अग्नेः' तेजःकायस्योत्कृष्टभवस्थितिर्भवति , उक्तं च श्रीमज्ञापनासूत्र-"तेउकाइयाणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं सक्कोसेणं तिन्नि राइ दियाई।" इति । एवं' एवंशब्दसाम्ये, यथा-ऽकायसामान्यस्य सप्तसहस्राणि वर्षाणां वायुकायसामान्यस्य च वर्षाणां त्रिसहस्राणि तथा तेजाकायस्य त्रयोऽहोरात्रा उत्कृष्टभवस्थितिरुक्ता, तथैव बादर-पादरसमाप्तानां तेषां तच्छशब्दस्य पूर्ववस्तुपरामर्शित्वाद् अप्काय-वायुकाय-तेजःकायानामुत्कृष्टभवस्थितिर्भवति । इदमुक्तं भवति-बादराप्कायस्योत्कृष्टभवस्थितिः सप्तसहस्रवर्षाणि, बादरवायुकायस्य च त्रिसहस्रवर्षाणि वादरतेजःकायस्य च त्रयोऽहोरात्राः, प्रज्ञापनासूत्रो तथाऽभिहितत्वात् । अक्षराणि त्वेवम्-"बायराउकाइयाणं पुच्छा,गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई।" xxxबायरते उकाइयाणं पुच्छा,गोयमा ! जहन्नणं अंतोमहत्तं, उक्कोसेणं तिन्नि राइ दियाई। xxx बायरवाउकाइयाणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि वाससहस्साई।" इति । बादराकायिकादीनां यथोक्तभवस्थितिः पर्याप्तबादरानाश्रित्य संभवति, अपर्याप्तानामान्तमौहर्तिकस्थितिकत्वात् । तेन पर्याप्तवादराप्कायस्याऽप्युत्कृष्टभवस्थितिः सप्तसहस्रवर्षाणि, पर्याप्तबादरवायुकायस्य त्रिवर्षसहस्राणि पर्याप्तवादरतेजाकायस्य च त्रयोऽहोरात्राः, तथा चोक्तं पञ्चसंग्रहवृत्तौ-"बादरपर्याप्ताप्कायिकानां सप्तसहस्रवर्षाणि बादरपर्याप्ततेजस्कायिकानां त्रयोऽहोरात्राः, पर्याप्तषादरवायुकायिकानां त्रीणि वर्षसहस्राणि ।" इति ॥४॥ Page #53 -------------------------------------------------------------------------- ________________ . ५० भवस्थितिप्रकरणम् [वनस्पतिकायादीनामुत्कृष्टभवस्थितिः सम्प्रति वनस्पतिकायादीनामुत्कृष्टभवस्थितिमाहवासाऽथि दससहस्सा वणपत्तेअवणतस्समत्ताणं । णेया तेत्तीसुदही पणिंदितसतस्समत्ताणं ॥५॥ (प्रे०) 'वासाऽत्थि' इत्यादि, वर्षा दशसहस्राणि 'वनप्रत्येकवनतत्समाप्तानां' पदैकदेशेन पदसमुदायस्य गम्यमानत्वाद् वनशब्देन वनस्पतिग्रहणाद् वनस्पतिकायसामान्यस्य प्रत्येकवनस्पतिकायस्य पर्याप्तप्रत्येकवनस्पतिकायस्य च 'अस्ति' उत्कृष्टा भवस्थितिर्भवति. उक्तं च श्रीप्रज्ञापनासूत्रे-"वणप्फइकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दस वाससहस्साई।" इति । एवं प्रत्येकवनस्पतिकाय-पर्याप्तप्रत्येकवनस्पतिकाययोरपि ग्रन्थान्तरसंवादो द्रष्टव्यः । 'णेया' इत्यादि, 'पञ्चेन्द्रियत्रसतत्समाप्तानां' पञ्चेन्द्रियस्य सस्य चसकायस्य समाप्तपञ्चेन्द्रियस्य पर्याप्तपञ्चेन्द्रियस्य समाप्तत्रसस्य पर्याप्तवसकायस्य चोत्कृष्टा भवस्थितिः 'त्रयस्त्रिंशदुदधयः' त्रयस्त्रिंशत्सागरोपमाः 'ज्ञेया' पोद्धव्या, देवनारकाणां पञ्चेन्द्रियत्रसतत्पर्याप्तत्वेन यथोक्तभवस्थितेरुपपत्तेः, यदुक्तं श्री जीवाजीवाभिगमसो-"पंचेनियस्स xxxउक्कोसेणं तेत्तीसं सागरोवमाइं । xxxx तसकाइयस्स xxx उक्कोसेणं तेत्तीसं सागरोमाई" इति । एवं पर्याप्तपञ्चेन्द्रियस्य पर्याप्तत्रसकायस्य चोत्कृष्टभवस्थितौ ग्रन्थान्तरसंवादो बोध्यः ॥५॥ सम्प्रत्यपर्याप्पतिर्यगादीनामुत्कृष्टभवस्थितिमभिदधत् सप्ततेर्जघन्यभवस्थितिं देवनारकाणां च जघन्योत्कृष्टभवस्थितिमतिदिशति सेसाणं मुहुत्तंतो पणतीमाए सकायठिहतुल्ला। सयरीए होइ लहू दुहावि सव्वणिरयसुराणं ॥६॥ (प्रे०) सेसाणं' इत्यादि शेषाणाम्' उक्तोद्धरितानामपर्याप्तपञ्चेन्द्रियतिर्यगादीनां 'पञ्चत्रिंशतः पञ्चत्रिंशत्संख्यकानां 'मुहूर्तान्तः' अन्तर्मुहूर्त 'ज्ञेया' उत्कृष्टभवस्थितिर्बोध्या, कतिपयानामपर्याप्तत्वेन केषाश्चित् सूक्ष्मत्वेन शेषाणां च साधारणवनस्पतिकायभेदत्वेनोत्कृष्टभवस्थितेर्यथोकप्रमाणत्वात् यदुक्तं जीवसमासप्रकरणे-- "एएमि च जहणं उभयं साहारसव्वसुइमाणं । अतोमुत्तमाऊ सव्वापज्जत्तयाणं च ॥१॥” इति । अपर्याप्तपञ्चेन्द्रियतिर्यगादयो नामतः पुनरिमे-अपर्याप्ततिर्यक्पञ्चेन्द्रिया-ऽपर्याप्तमनुष्य-मूक्ष्मै. केन्द्रिय-पर्याप्तसूक्ष्मैकेन्द्रिया ऽपर्याप्तसूक्ष्मैकेन्द्रिया-ऽपर्याप्तवादरैकेन्द्रिया--ऽपर्याप्तद्वीन्द्रिया-ऽपर्याप्त-- त्रीन्द्रिया-ऽपर्याप्तचतुरिन्द्रिया-ऽपर्याप्तपञ्चेन्द्रिय-सूक्ष्मपृथिवीकाय--पर्याप्तसूक्ष्मपृथिवीकाया-ऽपर्याप्तसूक्ष्मपृथिवीकाया-ऽपर्याप्तवादरपृथिवीकाय-सूक्ष्माप्काय-पर्याप्तसूक्ष्माप्काया-ऽपर्याप्तसूक्ष्माप्काया-ऽपर्याप्त Page #54 -------------------------------------------------------------------------- ________________ देवनारकाणां जघन्योत्कृष्टा शेषाणाञ्च जघन्या भवस्थितिः ] भवस्थितिप्रकरणम् [१ बादराकाय-सूक्ष्मतेजःकाय--पर्याप्तसूक्ष्मतेजःकाया-ऽपर्याप्तसूक्ष्मतेजःकाया --ऽपर्याप्तवादरतेजःकाय-- सूक्ष्मवायुकाय-पर्याप्तसूक्ष्मवायुकाया-ऽपर्याप्तसूक्ष्मवायुकाया--ऽपर्याप्तवादरवायुकाय--साधारणशरीरवनस्पतिकाय-सूक्ष्म साधारणशरीरवनस्पतिकाय-पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय-बादरसाधारणशरीरवनस्पतिकाय-पर्याप्तबादरसाधारणशरीरवनस्पतिकाया-ऽपर्यातवादरसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तप्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तत्रसकायाः । तदेवमुस्कृष्टभवस्थितिनिरूपिता ॥५॥ अथ सप्ततेर्जघन्यभवस्थितिं देवनारकाणां च जघन्योत्कृष्टभवस्थितिमतिदिशति 'सयरीए' इत्यादि, 'सप्ततेः' सप्ततिसंख्याकानां देवनारकवर्जगतीन्द्रियकायभेदानां 'लघुः' जघन्यभवस्थितिः 'स्वकायस्थितितुल्या' कायस्थितिप्रकरणोक्तस्वकीयस्वकीयजघन्यकायस्थितिसमा भवति, तथा 'सर्वनिरयसुराणां' अष्टानां निरयभेदानां त्रिंशदेवभेदानां च 'द्विधाऽपि' जघन्यत उत्कृष्टतश्चाऽपि भवस्थितियथाक्रम कायस्थितिप्रकरणोक्तस्वकीयस्वकीयजघन्योत्कृष्टकायस्थितिसमाना भवति, देवनारकाणां पुनर्देवनारकत्वेनाऽनुत्पादात् ॥६॥ । ॥ इति समाप्ता ॥ श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सचारित्रचूडामणिकर्मशास्त्रनिष्णात-प्रातःस्मरणीयाचार्यशिरोमणि-श्रीमद्विजय प्रेमसूरीश्वरान्तेबासिमुनि तल्लजश्रीजयघोषविजय-धर्मानन्दविजय-वीरशेखरविजयसंगृहीतपदार्थकस्य मुनि___ श्रीवीरशेखरविजयरचितमूलगाथाकस्य भवस्थितिप्रकरणस्य मुनिपुङ्गवजितेन्द्र विजयशिष्यमुनिगुणरत्नविजयविरचिता प्रेमप्रभावृत्तिः । नाह का RETREET REAME R MIRE Page #55 -------------------------------------------------------------------------- ________________ १७४ मार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिप्रदर्शियन्त्रम् गतिः इन्द्रियम् | कायः उत्कृष्टकायस्थितिः कायः योगः वेदः कषायः ३३ सागरोपमाः नरकगति. देवगति.२ स्वस्वोत्कृष्भवस्थितिः प्रथमादिसप्तनिरया:, २९ देवभेदा: ३६ पल्यानि असंख्यपुद्गलपरावर्ताः । एकेन्द्रिय०१ | वनस्पतिकाय०१ | काययोग०१ अपर्याप्तवर्जाः ३ शेषपूर्वकोटिपृथक्त्वाधिकत्रि. तिर्यग्भेदाः, अपर्याप्त वर्जाः ३ शेषमनुष्यभेदाः६ अपर्याप्तसूक्ष्मबादरपर्याप्तसूक्ष्म0 अपर्याप्त पृथिवीकायादिचतुः- पञ्चमनो०, पञ्चअपर्याप्ततिर्यक्पञ्चे- सूक्ष्म०, अपर्याप्तबा-का पर्याप्तबा-कायाः,५पर्याप्तसूक्ष्म-वचन० औदारिक- क्रोधमानमन्तमुहर्तम् न्द्रिय० अपर्याप्त-दरैके0 अपर्याप्तद्वी०. पृथिवीकायादिपञ्च-|| | मिश्र, वैक्रिय मायाकायाः,प्रप.प्रत्येकव... मनुष्य०२ अपर्याप्तत्री०, अपर्या- ५० बादरसाधार- द्विकम् माहारक लोभाः४ सचतुरि० अपर्याप्त- णव.,अपर्याप्तसू बा. द्विकम् १५ पञ्चे०. ७ |साधा,अप त्रस.१८ प्रमुलासंख्यभागः बादरैकेन्द्रिय०१ पृथ्व्यप्तेजोवायुसामाप्रसंख्यलोकाः सूक्ष्मैकेन्द्रिय० १ | न्य०,सूक्ष्मपृथ्व्यप्तेजोवायुकाय०, सूक्ष्मसाधारणवनस्पति.. प० बा० पृथ्वी०, प. संख्यसहस्रवर्षाः पर्याप्तबादरैकेन्द्रिय त्रिविकलेन्द्रियाः४ बा० प्रा०, ५० बा० वायु., प.प्रत्येकवन.४ संङ्ख्यवर्षा: |* पर्याप्तद्वी०१ मंख्यदिवसाः |* पर्याप्तत्री०१ प.बा.तेजःकाय. १ संख्यमासा: |पर्याप्तचतु०१। * स्वस्वजघन्योत्कृष्टभवस्थितिप्रदर्शियन्त्रम् . उत्कृष्ठतः । जघन्यतः उत्कृष्टतः । जघन्यतः उत्कृष्टतः । जघन्यतः निरयसा. ३३सागरो०१००००वर्षाः तमःप्रभा० २२सागरो १७ सागरो. | सौधर्म० २ सागरो० १पल्योप. रत्नप्रभा० १,, ,, महातम:प्रभा.३३ , २२ , ऐशान० साधिके२ सा. साधिकं१५० शर्कराप्रभा० ३, १ सागरो० देवसामान्य०३३ ,,१००००वर्षाः सनत्कुमार.७सागरो० २ सागरो० वालुकाप्रभा० ७ भवनपति० साधिकसागरो. ,, , माहेन्द्र० ७,, साधि. २, साधि. पङ्कप्रभा० १०, ७, व्यन्तर० १पल्योपम० ,, ब्रह्मलोक. १० सागरो. ७ सागरो० घूमप्रभा० १७ .. १० .. ज्योतिष्क० साधिकपल्यो. पल्य. J लान्तक० १४, १० ॥ * = मतान्तरेणोत्कृष्टकायस्थितिः संख्यसहस्रवर्षाणि (गाथा । : |: Page #56 -------------------------------------------------------------------------- ________________ _ १७४ मार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिप्रदर्शियन्त्रम् . [५३ | संयमः | दर्शनम् | लेश्या | भव्यः सम्यक्त्वम | संज्ञी आहार० सर्वाः | गाथाङ्कः ज्ञानप विभङ्ग०१ कृष्णा , शुक्ला २ क्षायिकस०१ प्रसंज्ञी सूक्ष्मसम्पराय०१ प्रौपश.. मिकसम्यक्त्व. मिश्र०२ माहार०१/ २ १०,२० - - * स्वस्वजघन्योत्कृष्टभवस्थितिप्रदर्शियन्त्रम् उत्कृष्टतः । जघन्यतः । उत्कृष्टतः । जघन्यतः उत्कृष्टतः । जघन्यतः मह शक०१७ सागरो. १४सागरो. प्रथमवे०२३ सागरो. २२सागरो. सप्तमवे. २९ सागरो. २८सागरो. सहस्रार. १८, १७ , द्वितीयवे०२४, २३ ॥ मष्टम , , ३०, २९ ॥ मानत० १९, १८ तृतीय, , २५ ॥ २४ ॥ नवम , , ३१, ३० ॥ प्राणत० २०, १९, चतुर्थ ,, २६ , ४ अनुत्तर०३३ , पारण० २१ , २० , पञ्चम , , २७, २६ , सर्वार्थसिद्ध०३३, x अच्युत० २२, २१ , J षष्ठ ,, २८, २७ ,, Aबन्धकनिरपेक्षा साद्यनन्ता । (गाथा-१३) Page #57 -------------------------------------------------------------------------- ________________ ५४ ] उत्कृष्टकायस्थितिः साधिकसहस्र सागरो० साधिकद्विसहसामो० सागरोपमा पृथक्त्वम् सार्धपुद्गलपरावर्तद्वयम् सप्ततिसागरोपमकोटीकोट्य देशोनद्वाविंशतिसहस्रवर्षा. त्रिसमया: पल्पोपमशतपृथक्त्वम् देशोनपूर्व कोटि धनाद्यनन्ता, धनादिसान्ता सादिसा तासा चोत्कृष्टा दे | शोनापुद्रलपरावर्तः साधिकषट्षष्टिसागरो अनाद्यनन्ता, अनादिसान्ता क्रमेण १,३५.२१८ सागरी. अनादिसाला अनाद्यनन्ता पदावलिका: क्षुल्लकभवः त्रिसमोल्लकभवः अन्तर्मुहूर्तम् १७४ मार्गणानामेकजीवाश्रयोत्कृष्टकाय स्थितिप्रदर्शियन्त्रम् गतिः इन्द्रियम् योग: पञ्चेन्द्रिय० जघन्यकायस्थितिः ८ निरयभेदाः, सर्वास्वस्वजयम्यभवस्थितिः सिद्धवर्णाः २९ देव भेदा: ३७ १ समयः ★fer: गतिः ... त्रसकाय० १ पर्याप्तपञ्चेन्द्रिय ०१ पर्याप्तत्र ०१ साधारणशरीरवन ०१ बादरपृ०, बादराप्क., बा. ते., बा. वायु., बा. साधारणश०., प्रत्येकशरीरख ६ शेषास्तिर्य मनुष्यभेदा: ४ कायः ... ... १७४ मार्गणानामेकजीवाश्रयजघन्यकाय स्थितिप्रदर्शियन्त्रम् इन्द्रियम् कायः तिर्यक् पञ्चे०ति, पर्याप्तवर्जा: शेषाः पर्याप्तवजः ० शेषाः प्रप. पञ्चे.ति., मनु०, १३ इन्द्रियभेदा: कायभेदाः ३० अप० मनु० ५ ... पर्याप्ता इन्द्रियभेदाः पर्याप्ताः कायभेदा: १२ ६ श्रदारिक० १ कार्मण० १ : : योग: : वेदः शेषा: १५ ... | पुरुष० १ ... स्त्री वेद०१ अवेद० १ अकषाय० + १+ : : वेद: i काययोग०, वैक्रियमिश्र०, पुवेद० १ आहारकमिश्र. कषायः शेषाः ३ : : कषायः क्रोधमान माया: ३ लोभः, प्रकषायः सतानां सूचिः ८ मतान्तरेण सागरोपमाणां द्वे सहस्रं ( गाया-२२) । - मतान्तरेण १७सागरो० मतान्त रेण ७ सागरोपमाणि (गाथा २२ बन्धकनिरपेक्षा साधनन्ता बन्धकनिरपेक्षा साधनन्ता सादिसान्ता च तत्राऽवेदाकषा ययोरन्तर्मुहूर्तप्रमाणासादिसान्ता, सभ्यवत्वस्य ६६ सागरो० साधिका, जिसमया श्रानाहारस्य (गाया - २३) Page #58 -------------------------------------------------------------------------- ________________ 16 ज्ञानम् । १७४ मार्गणानामेकजीवाश्रय कायोत्कृष्टस्थितिप्रदर्शियन्त्रम् संयमः । दर्शनम् | लेश्या | भव्यः सम्यक्त्वम | संज्ञी आहारकः Aचक्षुर्दशन गाथाङ्कः : |::: मन.पर्यव० संय.,सामा.,छेदो. केवलदर्शन०१ * केवलज्ञा.२परि , यथा.देश.६ --- --| 2 | - II III अज्ञानद्विक०२ असंयम०.१ मिथ्यात्व० शेषज्ञानत्रयम् प्र-धिदर्शन.१ प्रचक्षुर्दर्शन. ... ... ++सम्य., क्षायोपश०२ नी.का., ते.,प.,४ : : भव्यः१ अभव्यः१ ..सास्वादन०१ १७४ मार्गणानामेकजीवाश्रयजघन्यकायस्थितिप्रदर्शियन्त्रम् ज्ञानम् । संयमः । * दर्शनम् | लेश्या भव्यः - सम्यक्त्वम | संज्ञी पाहारकः सर्वाः गाथाङ्कः २४,२५ २९-३१ सझ्यसज्ञि. २५,२६ . माहारक: म. २ केवलदनकृष्णादय । मतिश्रुतके | देशस असया । चक्षदर्शन सास्वादन बलानि अजा. नद्विकम् ५ | वर्जाः ६ .'.अवधिमनो ..सयमसा०मामा ::.अवधिविभङ्गानि | ...सास्वादनम् | रक०१ सूक्ष्म.,यथा.६ सङ्केतसूचिः-* सर्वार्थसिद्धसुराऽचक्षुर्दर्शन-भव्या-ऽभव्यानां जघन्यकायस्थिति स्ति । (गाथा ३१) ● मतान्तरेण १ समयः (गाथा-३४)। .:. मतान्तरेणान्तर्मुहूर्तम् (गाथा-३४) । छेदो...परि.. अनाहा । ३२ ३२,३३ दर्शन.१ Page #59 -------------------------------------------------------------------------- ________________ उत्कृष्टभवस्थितियन्त्रम् कायः गाथाङ्क: १ पृथ्वीका० बा० पृथ्वी० प० बा० पृ० ३ । ६ NY भवस्थिति गतिः इन्द्रियम् प्रमाणम अपर्याप्तवर्ग: । ३पल्योपम० | ४ तिर्यग्भेदा: ३ मनुष्यभेदाः७ एकेन्द्रिय०, बा० २२०००वर्षाणि एके०,१० बा० एकेन्द्रिय०३ -७००० वर्षाणि ३००० वर्षांणि १०००० वर्षाणि १२ वर्षाणि द्वीन्द्रि०प० द्वी ४६ दिवसाः त्रीन्द्रि०प० त्री० षण्मासाः चतुरि.,प०चतु. ३ दिवसाः पञ्चे०पर्याप्त३३ सागरोपमा; पञ्चेन्द्रिय०२ भिसा भिन्नमुहूर्तम अप०पञ्चे०तिक, शेषाः प्रप०मनुष्य०२ अप्का०, बा० अप०, ५० बा० अप्. ३ वायु०, बा० वायु०, प० बा० वायु०, ३ वन०, प्रत्येकवन०, प. प्रत्येकव०३ lol तेजः, बा० तेजः, प० बा० तेज:०,३ . अस०, पर्याप्तत्रस० २ शेषाः २५ 8 Page #60 -------------------------------------------------------------------------- ________________ भारतीय प्राच्यतत्त्वप्रकाशनसमिति-पिंडवाडा [राजस्थान] प्रकाशित कर्मसाहित्य-प्राचीनसाहित्य-सूचि रु.४० 20 मा. मा. मा.३ Adit र 30 इन्धो (1) खवगसेढी [अप्राप्य] 2) बंधविहाणं (महाशास्त्र) 4 खण्ड प्रथमखण्ड प्रकृतिबन्ध (पयडी बन्धो) राजसंस्करण राजाधिराज सं. मा. 1 मूलपयडिबंधो मा. 2 उत्तर पयडि बंधो // 25 (स्थानप्ररूपणा प्रेसमध्ये 4 , (भूयस्कारादिबन्ध) द्वितीयखण्ड स्थितिबन्धः (ठिबंधो) मा. 1 मूलपयडि ठिइबंधो मा. 2 उत्तरपयडि , (भूयस्कारादिबन्धः) प्रेसमध्ये तृतीयखण्डी रसबन्ध रसबं मा. 1 मूलपयडि रसबन्धो मा.२ उत्तर भा. 3 , (भूयस्कारादिवन्धः चतुर्थ खण्ड. प्रदेशबन्धः मा. 1 मूलपयडिपएसबंधो / मा. 2 उत्तर , (2) मा. 3 (2). पसत्थी (पूर्वाधः) (उत्तरार्धः) कर्मप्रकृति-णि-टीप्पनकम् (प्रताकार) (प्रेसमध्ये) बन्धशतक / उभयत्र मूल-प्रो. श्री शिवशर्मसूरिः, टीप्पनकार-प्रा. श्री मुनिचरसरिः चत्वारः प्राचीनाः कर्मग्रन्थाः .. , (सप्ततिकादिसही सप्ततिका-सूक्ष्मार्थविचारसार प्रकरणे षडशीति-चतुर्थकर्मग्रन्थः सप्ततिका-षष्ठकर्मग्रन्थः / रु. 15 उपमितिभवप्रपञ्चकथा उत्तराधा प्रताकार, 20 सूक्ष्मार्थविचार-प्रकरणम् .. पुस्तकाकार, 20 प्राचीनकर्मग्रन्थषटकमूलभाष्यादिगाथा: 5 नव्याः चत्वारः कर्मग्रन्थाः सप्ततिका छ8ो कर्मग्रन्थ (यन्त्रात्मक) पञ्चमषष्ठौ कर्मग्रन्थील वादसंग्रह (उ. यशोविजय) म 10 / क्षेत्रस्पर्शनाप्रकरणम् - 150 पैसा स्थाद्वादरहस्य (लघु) (उ. यशोविजय) '5 / खवगसेढी मूलानुवाद त्याद्वादरहस्य (टीकात्रय) (2) 20 प्रवचनसारोद्धार भा. प्रताकार प्रेसमध्ये शतार्थवीथी (योगशास्त्राद्यश्लोकशतार्थ, 3 / बन्धविधान प्रशस्ति : ज्ञानोदय प्रिन्टिंग प्रेस, पिंण्टवाडा या चत्वार कमग्रन्थाः रु.३० "