________________
२८ ]
कायस्थितिप्रकरणम् क्षायोपशमिकसम्यक्त्वादीनामुत्कृष्टकाय स्थितिः
तदवचूरि :- "क्षायोपशमिकस्य तु द्वादशदेवलोके द्वाविंशतिसागर स्थितौ वास्त्रयगमनापेक्षया ज्ञेयम्, साधितुरभवायुःप्रक्षेपात् ।" इति । मतान्तरेण पुनः क्षायोपशमिकसम्यक्त्वस्योत्कृष्टकाय स्थितिः सागरोपमाणां षट्षष्टिर्भवति, कथमेतदवसीयते ? इति चेत्, उच्यते - श्रीकर्मप्रकृतिचूर्णिकारैमिथ्यात्वस्यान्तरप्ररूणायां सम्यक्त्वस्य कालः षट्षष्टिसागरोपमप्रमाणो उद्भावितः, तथा चाsत्र श्री कर्मप्रकृतिचूर्णि :- " को विमिच्छत्ताओ सम्मत्तं गओ छाट्टसागरोत्रमा सम्मत्तकालो, तो तो सम्मामिच्छत्तं गभो, पुणो सम्मत्तं परिवन्नो छात्र सागरोवमाइ अणुपाले, तयते य सिज्झ, मिच्छतं वा पडिवज्जइ, एवमुक्को सेणं अंतोमुहुत्त भहियाओ दो छात्रट्ठीओ सारोमाणं मिच्छत्तस्स अन्तरकालो व ति ।" इति ।
,
साम्प्रतमचक्षुर्दर्शनमार्गणायाः कायस्थितिं भणति - 'दुबिहा' इत्यादि, तत्र 'अचचुषः ' अचक्षुर्दर्शन मार्गणायाः 'द्विविधा' द्विप्रकारा एकजीवाश्रिता कायस्थितिः । अथ द्वैविध्यं दर्शयति'अणाइता अणाइसंता' ति, 'अनाद्यनन्ता' अनाद्यपर्यवसिता 'अनादिसान्ता' अनादिसपर्यवसिता च । अभव्यमाश्रित्य प्रथमविकल्पः कथमिति चेत् उच्यते - अभव्यः कदाचना -ऽपि केवलज्ञानं न यास्यति, सम्यक्त्वप्राप्तेरभावात् । केवलज्ञाना-ऽप्राप्त्या च तस्य जीवस्था ऽचक्षुर्दर्शनं न व्यवच्छेदं प्राप्स्यति, केवलिनामेव तद्वयवच्छेदोपलम्भात् । तदेवमचक्षुर्दर्शनस्य कायस्थितेर्ना - न्तता, अनादिकालतः पुनस्पर्शनेन्द्रियमपेक्ष्याऽचक्षुर्दर्शन लब्धेः प्रवृत्तत्वात् तत्कायस्थितेरनादिताऽपि । भव्यमाश्रित्य - नादिसान्ता, कथम् १ इति चेत्, उच्यते भव्यो हि आगामिनि काले केवलज्ञानं लप्स्यते, तल्लब्धौ च सत्यां “नट्ठम्मि उ उ उमत्थिए णाणे" इति वचनप्रामाण्याद् अचक्षुर्दर्शनं व्यवच्छेदमधिगमिष्यति, तेन तं जीवमाश्रित्याऽचक्षुर्दर्शनस्य कायस्थितेः सान्तता, स्पर्शनेन्द्रियापेक्षया चाचक्षुर्दर्शन लब्धेरनादिता, उक्तं च श्रीप्रज्ञापनोगे- अचक्खुदंसणी णं भते । अचक्खुदंसणि त्ि काल० गो० ! भचक्खुदंसणी दुबिहे पं० तं० - अणादीए वो अपज्जवसिते, अणादीए वा सपब्जवसिए ।" इति । अचक्षुर्दर्शन मार्गणायाः कार्यस्थितिः सादिपर्यवसिता तु न संभवति, केवलज्ञानतः प्रतिपाता - भावात् ।। १८ ।।
1
सम्प्रति लेश्याभव्य मार्गणयोरवसरः । तत्राऽपि कृष्णलेश्या शुक्ललेश्ययोरुत्कृष्टा कायस्थितिः प्रागुक्ता । तेन नीलादिलेश्यानां भव्या- ऽभव्ययोश्चैकजीवाश्रितोत्कृष्ट कायस्थितिं भणितु
कामः प्राह
नीलाइ उहकमा अयरा दस तिण्णि दोणि अट्ठार |
भवियस्स - Sणाइसंता अभवस्स अणाइणंता उ ॥१९॥
5 षट्खण्डागमका रैरपि क्षायोपशमिकसम्यक्त्वस्यकालः षट्षष्टिसागरोपमप्रमाणः कथितः । तथा च तद्ग्रन्थः- वेदगसम्माइट्ठी केवचिर कालादो होंति ? जहण्णेण अंतोमुहुत्तं उक्कस्सेण छावद्विसागरोमाणि ।" इति ।