SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नीला दिलेश्यानामुत्कृष्ट काय स्थितिः ] कायस्थतिप्रकरणम् [ २९ 1 (प्रे०) 'णीलाइ ० ' इत्यादि, 'नीलादिचतसृणां' लेश्यानामिति गम्यते क्रमाद् दश त्रयो द्वौ अष्टादश 'अतरा: ' सागरोपमा एकजीवाश्रितोत्कृष्टकाय स्थितिर्भवति, सुगममेतद्, नवरं नीललेश्या - कापोतलेश्या तेजोलेश्यानां यथोक्तकाय स्थितिः पल्योपमा ऽसंख्येयभागेनाऽभ्यधिका वक्तव्या, प्रज्ञापनादिसूत्रे तथोक्तत्वात्, तथा चाऽत्र श्रीप्रज्ञापनासूत्रम् - नीलले से त्ति पुच्छा गो० ! जह० तो ० उक्को० दस सागरोवमाइ पळितोवमासंखेज्जइभागमन्भहियाई, काउलेसे णं पुच्छा, गो० ! जह० तो ० उवको० तिष्णि सागरोवमाइ पलितोवमासंखिज्जतिभागमब्भद्दियाइं । तेउलेसेणं पुच्छा, गो० ? जह० अंतोमुहुत्तं उक्को० दो सागरोवमाइ पलितोवमासंखिज्जविभागमब्भहियाइ ।" इति । एवमुत्तराध्ययनेऽप्युक्तम् । 'दसबास सहस्साइ' काऊ ठिई जहणिया होइ । तिन्नोदही पलियभसंब्जभागं च उक्कोसा ॥१॥ तिण्णुदही पलिभत्र ममसंखभागो जहन्न नीलठिई । दस उदद्दी प्रतिओत्रममसंखभागं च उक्कोसा ॥२॥” इति । भावना वित्थं कार्या- कश्चिजीवो धूमप्रभायां प्रथमप्रस्तटे पल्योपमा ऽसंख्येयभागाधिकदशसागरोपमस्थितिक नीललेश्याकनारकत्वेन समुत्पद्यते, तत्र नीललेश्याया अपि सत्त्वात्, "पंचमियाए मीसा" इति वचनप्रामाण्यात् । तस्य च पूर्वभवचरमा - ऽन्तर्मुहूर्ते तथोत्तरभवप्रथमा- ऽन्तर्मुहूर्ते ऽपि नीलेश्या भवति, यतो मृत्युकाले ऽन्तर्मुहूर्तशेषे भाविभवलेश्यया जीवा परिणमन्ति, एवमतीतभवलेश्यायामुत्पत्तिकालप्रथमा-ऽन्तमुहूर्तमवतिष्ठन्ते, उक्तं चोत्तराध्ययन सूत्रे - "अंतमुहुत्तंमि गए अतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ १||" इति । ते च द्वेऽन्तर्मुहूर्ते पल्योपमाऽसंख्येयभागे एवान्तर्गते, तेन न पृथग् विवक्षिते । तदेवं श्याया एकजीवाश्रितोत्कृष्टकाय स्थितिः पल्योपमाऽसंख्येय भागाधिकदशसागरोपमप्रमाणा । कापोतश्याया उत्कृष्टकायस्थितिस्तृतीयनरकपृथिव्यपेक्षया भावनीया, वालुकाप्रभायाः प्रथमप्रस्तटे कापोतश्याया अपि सद्भावात् । तैजस्या उत्कृष्टकायस्थितिरैशानदेव लोकसुरा-पेक्षया वेदयितव्या, ऐशानसुराणां तेजोलेश्याकत्वात् । पद्मलेश्याया उत्कृष्टकायस्थितिरष्टादशसागरोपमाणि सहस्रारसुरापेक्षया बोध्या । ननु “पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु" इति तत्त्वार्थसूत्रेण ब्रह्मलोक कल्पान्तसुराणां पद्मलेश्या विधीयते, ततथाऽन्तमुहूर्ताभ्यधिकानि दशसागरोपमाणि पद्मलेश्याया उत्कृष्टकायस्थितिर्लभ्यते, उक्तं च प्रज्ञापनासूत्रे - "पहले से णं पुच्छा, गो० ! जह० अ तो०, उक्को० दस सागरोवमाई अंतोमुहुत्तमम्भहियाई ।“ इति तत्कथं प्रस्तुतगाथोक्तोत्कृष्ट काय स्थितिर्घटामृच्छति १ इति चेत्, उच्यते - सत्यमेतत्, किन्तु मतान्तरापेक्षया गाथेोक्तकायस्थितिरपि न विरुध्यते । कथमिति चेत्, उच्यतेसहस्रार कल्पदेवानां तिर्यगायुर्बन्धो बन्धस्वामित्वग्रन्थे विहितः, आनतादिदेवेषु शुक्रलेश्यायां च निषिद्ध:, तथा च तद्ग्रन्थः - रयणुव्व सणकुमाराइ आणयाई उज्जो बचउरहिया । xxxx ॥ तेऊ ४ अ
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy