SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मैकेन्द्रियादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् [ १९ 'सुहमाणं' इत्यादि, 'सूक्ष्माणां' "व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम् ।" इति न्यायेन षण्णां सूक्ष्मसामान्यानां पर्याप्ताऽपर्याप्तत्वविशेषणविरहितानां सूक्ष्मैकेन्द्रिय सूक्ष्मपृथिवीकाय-सूक्ष्माऽकाय-सूक्ष्मतेजःकाय-सूक्ष्मवायुकाय-सूक्ष्मसाधारणशरीरवनस्पतिकायानामित्यर्थः, 'तथा' तथाशब्दः समुच्चये, 'पृथिव्यादिचतसृणाम्'अविवक्षितपर्याप्ता-ऽपर्याप्तत्वभेदानां सूक्ष्मवादरविशेषणविरहितानां च पृथिवीकाया-ऽप्काय-तेजःकाय-वायुकायलक्षणचतुर्मार्गणानां प्रत्येकं ज्ञेया' एकजीवाश्रयोत्कृष्टकायस्थितिर्बोध्या, कियती ? इत्याह-'लोका असंखेजा'त्ति, 'लोका असंख्येयाः क्षेत्रतोऽसंख्येयलोकाः, असंख्येयलोकाकाशप्रदेशेषुप्रतिसमयमेकैकप्रदेशा-ऽपहारेणा-ऽपह्रियमाणेषु यावत्यो ऽसंख्येया उत्सर्पिण्यवसर्पिण्यो व्यतिकामन्ति, तावतीर्यावत् सूक्ष्मैकेन्द्रियादयो जीवाः पुनः पुनस्तत्रैवोत्पद्यमानास्तद्भावममुश्चन्तो-ऽवतिष्ठन्ते, यदुक्तं श्रीप्रज्ञापनासो-"सुहुमे णं भंते ! सुहुमे त्ति कालतो केवचिरं होति ? गो० ! जह० अंतो०, उ. असंखेज्जकालं असंखेज्जामो उस्सप्पिणितो ओसप्पिणीओ कालतो, खेत्ततो असंखेज्जा लोगा,सुहुमपुढविकाइते सुहुमाउका० सुहुमतेउका सुहुमवायुका० सुहुमवणप्फइकाइते० गोदे विज0 अंतोमहत्तं उक्को० असंखेज्जकालं असंखिज्जा लोगा। xxxx पुढविकाइएणं पुच्छा गोयमा ! जहन्नेण अंतोमुहुत्तं उक्कोसेणं असंखेज्जकालं असंखेज्जाओ उस्सप्पिणितो मोसप्पिणीओ कालतो, खेत्ततो भसंखेज्जा लोगा, एवं उ-तेउ-वा उकाइया वि।" इति । इह यद्यपि पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्माणां चैकेन्द्रियाणां प्रत्येकमुत्कृष्ट कायस्थितिरन्तर्मुहूर्तमिता प्रागुक्ता, तथापि कृष्णशुक्लपक्षाभ्यां यथा वर्षादयो निष्पद्यन्ते, तथैव सूक्ष्मपर्याप्ततः सूक्ष्मा-ऽपर्याप्तेषु सूक्ष्मा-ऽपर्याप्ततश्च सूक्ष्मयप्तिषु च पुनः पुनरुत्पद्यमानाः सूक्ष्मैकेन्द्रियजीवा उत्कृष्टतोऽसंख्येयलोकान् यावत् सूक्ष्मभावं न परित्यजन्ति । एवं सूक्ष्मपृथिवीकायादीनामपि प्रस्तुतकायस्थितिर्भावनीया, नवर पृथिवीकायादिसामान्यमार्गणानां बादरत्वमाश्रित्याऽपि कायस्थितेर्भावना कार्या ॥१०॥ ___ सम्प्रति पर्याप्तवादरैकेन्द्रियमार्गणाया एकजीवाश्रयामुत्कृष्टकायस्थितिमभिधातुकामस्तत्सा. म्यादन्या अपि मार्गणाः संगृह्य प्राह बायरपज्जेगिंदिय-भू-दग-पत्तेअ-वाउ-विगलाणं। संखेज्जसहस्ससमा समत्तबेइंदियस्स संखसमा ॥११॥ (गोतिः) ___ (प्रे०) वायर०'इत्यादि, 'शादरपर्याप्तकेन्द्रिय-भू-दग-प्रत्येक-वायु-विकलानाम् एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, बादरपर्याप्तविशेषणं वाय्वन्तैः पञ्चभिः सह युज्यन्ते । तत्राऽपि प्रत्येकवनस्पतिकायस्य यद् बादरत्वं विशेषणम् , तत् स्वरूपदर्शनपरम् , प्रत्येकवनस्पतिकायजीवानां सूक्ष्मत्वाभावात् , ततश्था ऽयमर्थः-बादरपर्याप्तैकेन्द्रियस्य पर्याप्तबादरैकेन्द्रियमार्गणाया बादरपर्याप्तभुवः= पर्याप्तवादरपृथिवीकायमार्गणाया वादरपर्याप्तदकस्य-पर्याप्तवादराऽप्कायमार्गणास्थानस्य बादरपर्याप्तप्रत्येकस्य बादरविशेषणस्य स्वरूपदर्शनपरत्वात् पर्याप्तप्रत्येकवनस्पतिकायमार्गणाया बादरपर्याप्त वायोः पर्याप्तवादरवायुकायमार्गणाया विकलानां विकलेन्द्रियाणाम् , विकलानि असम्पूर्णानि इन्द्रि
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy