SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० । कायस्थितिप्रकरणम् [पर्याप्तबादरैकेन्द्रियादीनामुत्कृष्टकायस्थितिः याणि येषाम् ; ते विकलेन्द्रियाः द्वित्रिचतुरिन्द्रियाः, तेषां पर्याप्ताऽपर्याप्तविशेषणवियुक्तानां प्रत्येकमित्यर्थः, 'संख्येयवर्षसहस्रसमाः' संख्येयानि वर्षसहस्राण्येकजीवाश्रयोत्कृष्टा कायस्थितिज्ञेया । एतदुक्तं भवति-पर्याप्तवादरैकेन्द्रियस्तद्भावमपरित्यजन्नुत्कृष्टतः संख्येयसहस्रवर्षाणि यावदुत्पद्यते, परतो भावान्तरं भजते, उक्तं च पञ्चसंग्रहवृत्तौ-"बादरपर्याप्तानामेकेन्द्रियाणांभूयो भूयः पर्याप्तबादरैकेन्द्रियत्वेनोत्पद्यमानानां कायस्थितिजघन्यतोऽन्तमुहर्त उत्कर्षतः संख्येयानि वर्षसहस्राणि । उक्त च-"चादरेगिंदियपज्जत्तएणं भंते ! बादरेगिरियपज्जत्तए त्ति कालओ केवचिरं होइ ? गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सखेजाई वाससहस्साइ।" इति ।। इयं च बादरपर्याप्तकेन्द्रियकायस्थितिचिन्ता बादरपर्याप्तकेन्द्रियत्वं सामान्यमात्रमधिकृत्य कृता । अथ विभागतो बादरपर्याप्तपृथिवीकायिकत्वाद्यधिकृत्य कायस्थितिश्चिन्त्यते, वादरपर्याप्तथिवीकायिकस्य भूयो भूयः पर्याप्तवादरपृथिवीकायिकत्वेनोत्पद्यमानस्योत्कर्षतश्च संख्पेयानि वर्षसह. स्राणि गच्छन्ति । एवं वादरपर्याप्ताप्कायिकप्रत्येकशरीरवनस्पतिकायिकानामपि भाव्योत्कृष्टकायस्थितिः, बादरपर्याप्ततेजःकायिकानां पुनर्जघन्यतोऽन्तमुहूर्तमुत्कर्षतश्च संख्येयानि रात्रिदिनानि । उक्तं च श्रीप्रज्ञापनायाम्-"बायरपुढविकाइयपज्जत्तए त्ति कालओ केवचिरं होइ ? गोयमा ! जहनेण अंतोमुहुत्तं, उक्कोसेणं संखेज्जाई वाससहस्साई, एवं आउकाए वि। बायरतेउकाइयपज्जत्तए णं भंते ! बायरतेउकाइयपज्जत्तए त्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जा राइ दियाई। याउकाइए पत्तेयसरीरवादरवणप्फइकाइये पुच्छा, गो० ! ज० अंतो०, उ० संखे. ज्जाइ वाससहस्साई।" इति। तथा विकलेन्द्रियाणां द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियरूपाणां प्रत्येकं कायस्थितिरुन्कर्षतः संख्येयानि वर्षसहस्राणि । तथा चोक्तं श्रीप्रज्ञापनासूत्रे-“बेइंदिये णं भंते ! बेइंदिए त्ति कालो केवचिरं होइ ? गोयमा ! जहन्नेण अंतोमुहुत्तं उक्कोसेणं संखेज्जाई कालं, एवं तेइंदियचरिदिए वि । इति ।” एवं पञ्चसङ्ग्रहेऽप्युक्तम्-बायरपज्जेगिंदियविगलाण य वाससहस्ससंखेज्जा ।" इति । पर्याप्ताऽपर्याप्तनामकर्मोदयविरहितानां विकलेन्द्रियाणां कायस्थितिरभिहिताऽस्यामेव गाथायाम् ,अपर्याप्तनामकर्मोदयवर्तीनां तु“सबापज्जताणं इत्यादि गाथाद्वयेनाऽभिहिता। सम्प्रति पर्याप्तनामकर्मोदयविशेषितानां विकलेन्द्रियाणां-तां वक्तुकाम आदौ तावत् पर्याप्तद्वीन्द्रियस्य भणति-'समत्त.' इत्यादि, 'समाप्तद्वीन्द्रियस्य' पर्याप्तद्वीन्द्रियमार्गणायाः 'संख्यसमाः' संख्यातवर्षाण्येकजीवाश्रितोत्कष्टकायस्थितिः, उक्तं च श्रीप्रज्ञापनासूत्रे-"बेइदियपज्जत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सखेज्जा वासाइ'' इति ॥११॥ . एतर्हि पर्याप्तत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तवादरवायुकायमार्गणाश्च प्रस्तुतकायस्थितिं भणितुकाम आह पजतगतेइंदियबायरतेऊण होइ संखेज्जा। दिवसा संखियमासा समत्तवउइंदियस्स भवे ॥१२॥
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy