________________
बन्धकनिरपेक्षा कायस्थितिः ] कायस्थितिप्रकरणम्
[ ३३ ___(प्रे०) 'साइअणंता' इत्यादि, तत्र 'क्षायिककेवलद्विकयोः' क्षायिकस्य क्षायिकसम्यक्त्वमार्गणायाः केवलद्विकस्य केवलज्ञान केवलदर्शनलक्षणस्य मार्गणाद्वयस्य प्रत्येकं बन्धकनिरपेक्षा कायस्थितिः 'साधनन्ता' साद्यपर्यवसिता भवति, क्षायिकसम्यक्त्व केवलज्ञान-केवलदर्शनानां प्रतिपाताभावात् , उक्तं च श्रीप्रज्ञापनासूत्रे-"केवलणाणी णं पुच्छा, गो० ! सातिए अपज्जवसिते । xxxxकेवलदसणी णं पुच्छा, गो० सातीए अपज्जवसिते ।" इति । एवं क्षायिकसम्यक्त्वेऽपि ग्रन्थान्तरसंवादो बोध्यः ।
'सम्म०' इत्यादि, 'सम्यक्त्वा-ऽकषायगतवेदानाहाराणां' सम्यक्त्वस्य सम्यक्त्वसामान्यमार्गणाया अकषायस्य अकषायमार्गणास्थानस्य गतवेदस्य अपगतवेदमार्गणाया अनाहारस्य अनाहारकमार्गणायाश्च प्रत्येकं कायस्थितिः 'सादिसान्ताऽपि सादिसपर्यवसिता, अपिशब्दस्य समुच्चयार्थकत्वेन साधपर्यवसिता च, एतासु मार्गणासु सिद्धानां प्रविष्टत्वेनाऽपर्यवसितत्वोपपत्तेः सम्यक्त्वसामान्यमार्गणायामोपशमिकसम्यग्दृष्टीनां क्षायोपशमिकसम्यग्दृष्टीनाम् ; अकषाया-ऽपगतवेदयोरुपशान्तमोहानाम् , अनाहारकमार्गणायां च विग्रहगतिवर्तिनां समुद्घातापनसयोगिकेवलिनां प्रविष्टत्वेन सान्तत्वघटनात् । इदमत्राऽवधेयम्-सम्यक्त्वसामान्यस्य सादिसपर्यवसिता कायस्थितिरुत्कृष्टतः सातिरेका षट्क्षष्टिः सागरोपमाणाम् , अनाहारकमार्गणायाश्च त्रयः समया बोध्या, सा च प्रागुक्तैव । अवेदा-ऽकषाययोध सादिसान्ता कायस्थितिरुत्कृष्टतोऽन्तमुहूर्तप्रमाणा ज्ञातव्या, उपशमश्रेणी लाभात् , यदुक्तं श्रीप्रज्ञापनासूत्रे-"अवेदए णं भंते अवेदए त्ति पुच्छा, गो० ! भवेदे दुविधे पं. तं०-सादीए वा अपज्जवसिए साइए वा सपज्जवसिते, तत्थ णं जे से साइए सपज्जवसिते, से जहन्नेणं एगं समयं उक्को० अंतोः xxxxx । अकसाई णं भंते अकसादि त्ति काल० ? गो० ! अकसादि दुविहे ५० तं०--सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते, तत्थं णं जे से सादीए सपज्जवसिते से जह० एग समयं उक्को० अंतो०।xxxx सम्महिट्ठीणं भंते ! सम्मदि० काल.? गो० ! सम्मट्ठिी दुविहे पं०, तं०-सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते । तत्थ णं जे से सादीए सपज्जवसिते, से जह० अंतो० उक्को० छावटि सागरोवमाइं । एवमाहारकमार्गणायामपि ग्रन्थान्तरसंवादो योज्य ॥२३॥
सम्प्रत्येकजीवाभयां जघन्यकायस्थितिं वक्तुकाम आह
कायठिई णायब्वा जहण्णगा दससहस्सवासाणि। णिरयपढमणिरयाणं देवभवणवंतराणं च ॥२४॥ (प्रे०) 'कायठिई' इत्यादि, 'कायस्थितिः' उक्तशब्दार्थेकजीवाश्रिता 'जघन्यका' सर्वजघन्या दशसहस्रवर्षाणि, कासां मार्गणानाम् ? इत्याह-'णिरय.' इत्यादि, 'निरय-प्रथमनिरयो:नरकगतिसामान्यमार्गणाया रत्नप्रभानरकमार्गणायाश्च 'देवभवनव्यन्तराणां च' देवगतिसामान्यमार्गणायाः, “समुदायेषु प्रवृत्ताः शब्दा अवयेवध्वपि दृश्यन्ते" इति न्यायेन भवनशब्देन भवनपते ग्रहणम् , भवनपतिमार्गणाया व्यन्तरसुरमार्गणायाश्च प्रत्येकं ज्ञातव्या' बोद्धव्या, यतो देवनारका अनन्तरभवे देवनारकत्वेन नोत्पद्यन्ते, नरकसामान्यादीनां च जघन्यभवस्थितियथोक्तप्रमाणा, उक्तं