________________
३४]
कायस्थितिप्रकरणम् [द्वितीयादिनरकमार्गणानां जघन्यकायस्थितिः च श्रीतत्वार्थसत्रे-“दशवर्षसहस्राणि प्रथमायाम् , भवनेषु च, व्यन्तराणां च ।" इति । इह रत्नप्रभायाः प्रथमप्रस्तटमाश्रित्य प्रथमनरकगतिमार्गणाया दशवर्षसहस्राणि जघन्या कायस्थितिरुक्ता, द्वितीयादिप्रस्तटे पुनर्जघन्या कायस्थितिर्दशलक्षवर्षादिका भवति, तथाहि-रत्नप्रभाया द्वितीयप्रस्तटे नारकाणां जघन्या कायस्थितिवर्षाणां दशलक्षाः (१००००००) 5, तृतीयप्रस्तटे नवतिलक्षाः (९००००००), चतुर्थप्रस्तटे पूर्वकोटिवर्षमात्री ।
पञ्चमादिप्रस्तटेषु जघन्यकायस्थितिरित्थं बोध्या-द्वितीयगाथायाष्टीकायां पूर्वपूर्वप्रस्तटे या उत्कृष्टा कायस्थितिरुक्ता, उत्तरोत्तरप्रस्तटे सा जघन्या बोध्या, तद्यथा-पञ्चमप्रस्तटे सागरोपमस्यैको दशभागः (१० सा०), षष्ठप्रस्तटे द्वौ सागरोपमस्य दशभागौ (३.सा०), सप्तमप्रस्तटे प्रयः सागरोपमस्य दशभागाः (६७ सा०), अष्टमे प्रस्तटे चत्वारः सागरोपमस्य दशभागाः (*. सा०), नवमप्रस्तटे पञ्च सागरोपमस्य दशभागाः ( सा०), दशमे प्रस्तटे षट् सागरोपमस्य दशभागाः ( सा०),एकादशे प्रस्तटे सप्त सागरोपमस्य दशभागाः, (१० सा०), द्वादशे प्रस्तटे-ऽष्टौ सागरोपमस्य दशभागाः (६० सा०) , त्रयोदशे च प्रस्तटे नव सागरोपमस्य दशभागाः ( सा०) ॥२४॥
अथ द्वितीयादिनरकपृथिवीषु नारकाणामेकजीवाश्रितां जघन्यकायस्थितिं प्राहबीआइगणिरयाणं सा पढमाइणिरयाण जा जेट्टा। खुड्डभवो तिरियपणिदितिरियमणुसतदपजाणं ॥२५॥ पजत्तभेअवजिअसेसिंदियकायभेअसण्णीणं ।
अमणस्स जाणियव्वा आहारस्स तिसमयहीणो ॥२६॥ (प्रे०) 'घीआइ.' इत्यादि, 'प्रथमादिनिरयाणां' रत्नप्रभादिषट्पृथिवीनारकाणां या 'ज्येष्ठा' उत्कृष्टकायस्थितिः द्वितीयगाथया प्रोक्ता, सा 'द्वितीयादिकनिरयाणां' शर्कराप्रभादिषट्पृथिवीनारकाणां जघन्या कायस्थितिर्भवति, नारकाणामनन्तरभवे पुनर्नारकत्वेना-ऽनुत्पादाद् जघन्यभवस्थितेश्च यथोक्तमात्रत्वात् । अयं भावः-शर्कराप्रभापृथिवीस्थानां नारकाणामेकजीवाश्रया जघन्यकायस्थितिरेकं सागरोपमं भवति, वालुकाप्रभानरकपृथिवीनारकाणां जघन्यकायस्थितिस्त्रिसागरोपमाणि, पङ्कप्रभानरकपृथिवीनारकाणां सप्त सागरोपमाणि, धूमप्रभाया दश सागरोपमाणि तमःप्रभानारकाणां सप्तदश सागरोपमाणि, महातमःप्रभायाश्च नारकाणां द्वाविंशतिः सागरोपमाणि । विशेषतः पुनः द्वितीयगाथया प्रतिप्रस्तटमुत्कृष्टकायस्थितिर्या प्रोक्ता, सैवोत्तरोत्तरप्रस्तटे
ॐ धवलाकारस्तु--"बिदियपत्थडे णउदिवस्ससहस्साणि (९००००) समयाहिआणि जहण्णमाउभं xxx चउत्थपत्थडे जहण्णमसंखेज्जाभो पुव्वकोडीओ समयाहियाओ।" इत्युक्तम् ।