________________
स्त्रीवेदादीनां जघन्यकायस्थितिः ]
कार्यस्थितिप्रकरणम्
[ ४३
औदारिक मिश्र काययोग उपलभ्यते, प्रथमसमये तृतीयसमये च यथाक्रममौदारिककाययोगः कार्मणयोगश्च प्राप्यते ।
कृताहारकशरीरः कश्चिच्चतुर्दशपूर्वधरः कार्यसिद्धिप्रत्याससिकाले मनोयोगाद्वा वचनयोगाद्वाऽवतीर्य समयमेकमाहारकशरीरयोगित्वेन स्थित्वौदारिशरीरं प्रतिपद्यते, मृत्वा वा देवलोके वैक्रियमिश्रकाययोगमधिगच्छति, तमाश्रित्याऽऽहारककाययोगमार्गणाया जघन्यकायस्थितिरेकसमयप्रमाणा लभ्यते ।
या द्विसामयिक्या विग्रहगत्या जीव उत्पद्यते, तदा कार्मणकाययोगस्य जघन्यकायस्थितिरेकः समय आसाद्यते, एवमनाहारकमार्गणाया अपि प्रकृतकाय स्थितिर्भावनीया ।
काचित् स्त्री उपशमश्रेणि प्रतिपन्ना वेदोदयं सर्वथोपशमय्या ऽवेद त्वमनुभूयोपशान्तमोहगुणस्थानकं लभते ततो ऽद्धाक्षयेण क्रमशः पतित्वा ऽनिवृत्तिबादरसम्पराये समयमेकं स्त्रीवेदमनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च पुरुषवेद एव, न स्त्रीवेदः, सम्यग्दृशां देवीत्वेनोत्पादाभावात् । तदा स्त्रीवेदस्य जघन्यकायस्थितिरेकसमयो लभ्यते । एवं नपुंसकवेदस्याSपि प्रकृतकाय स्थितिर्भावनीया, नवरं नपुंसकवेदी श्रेणिमारोपयितव्यः । नन्वेवं तर्हि पुरुषवेदस्य जघन्यत एकसमयः कार्यस्थितिः कुतो न लभ्यते १ इति वाच्यम्, श्रेणौ मृतस्य देवत्वेन समुत्पत्तेस्तत्राऽपि पुरुषवेदोदयविरहाभावात् ।
1
लोभस्यैकसमयमात्री जघन्यकायस्थितिः श्रीमन्मलयगिरिपादैरित्थं भाविता"लोभकषायी जघन्येनैकं समयमिति यदा कश्चिदुपशमकः उपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणितः प्रतिपतन् लोभाणुप्रथम समयसंवेदनकाल एव कालं कृत्वा देवलोकेषूत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकषायी मानकषायी मायाकषायी वा भवति, तदा एकं समयं लोभकषायी लभ्यते । " इति । श्रीमन्मलघारिहेमचन्द्रसूरिपादैः पुनः- “लोभोपयुक्तस्तु जघन्यतः समयं कथमिति ? उच्यते य उपशान्तमोहः प्रतिपतन्नेकं समयं लोभपुद्गलान् वेदयित्वाऽनन्तरं कालकरणादनुत्तरसुरेषूत्पद्यते, तस्य किल युगपत् सर्वे कषायाः प्रदेशोदयेनोदय मागच्छन्ति, न तु केवलो लोभ इत्येवं जघन्यतो लोभकषायोदयः केत्रलः समयमेकमवाप्यते ।” इति । अन्ये पुनर्व्याचक्षते - तिर्यगादीनामन्यतमो यः क्रोधप्रभृतीनामन्यत - मकषायतः समुत्तीर्य समयमेकं लोभकषायी भूत्वा म्रियते, मृत्वा च देवगतिवर्जास्वन्यासु गतिषूत्पद्यते, तस्य जीवस्य लोभकषायस्य जघन्यकाल एकसमयः प्राप्यते, अथवा मरणाभावे व्याघातेनाऽप्येकसमयः प्राप्यत इति । तदत्र तत्वं केवलिनो विदन्ति ।
कश्चिजीव उपशमश्रेणिमारोहननिवृत्तिवादरसम्पराय गुणस्थानके सर्वथा वेदमुपशमय्याऽवेदभावं प्राप्तः समयमेकं स्थित्वा मृतो देवलोके समुत्पद्यते, तस्याऽपगतवेद मार्गणाया जघन्यकाय स्थितिरेकसमयमात्री लभ्यते, देवलोके पुवेदोदयात् ।
यः कचिदुपशान्तमोहो भूत्वा द्वितीयसमये कालं करोति, तमाश्रित्याsकषायमार्गणायथाख्यात संयम मार्गणयोर्जघन्यकायस्थितिरेकसमयप्रमाणा लभ्यते ।