SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४४) कायस्थितिप्रकरणम् [अवविज्ञानादीनां जथन्यकायस्थितिः कश्चिज्जीवो-ऽप्रमत्ताद्धायां वर्तमानो मनःपर्यवज्ञानमुत्पाद्य द्वितीयसमये कालं कृत्वा देवत्वेन समुत्पद्यते, तस्य जीवस्य मनःपर्यवज्ञानमेकसमयमात्रस्थितिकम् , देवलोके संयमाभावेन मनःपर्यवज्ञानाभावात् । कश्चित् तिर्यपञ्चेन्द्रियो मनुष्यो वा विभङ्गज्ञानी सन् सम्यक्त्वं प्रतिपद्यते, तस्य च सम्यक्त्वप्रतिपत्तिप्रथमसमये सम्यक्त्वभावतो विभङ्गज्ञानमेवाऽवधिज्ञानं जायते, अनन्तरसमये त्ववधिज्ञानावरणोदयान्मूलत एव प्रतिपतति, तदाऽवधिज्ञानस्यैकसमयो जघन्यकायस्थितिः प्राप्यते । यदा कश्चिन्मनुष्यस्तियङ्वा तथाविधाऽध्यवसायादवधिदर्शनमुत्पाद्या-ऽनन्तरसमये-ऽवधिदर्शनावरणोदयाद् मूलत एवाऽवधिदर्शनात् प्रतिपतति, तदा-ऽवधिदर्शनमार्गणाया जघन्यफायस्थितिरेकसमयमात्री। मतान्तरेणा-ऽवधिज्ञान-मनःपर्यवज्ञाना-ऽवधिदर्शनानां जघन्यकायस्थितिरन्तमुहूर्तप्रमाणा भवति, तच्च मतान्तरमग्रे वक्ष्यते । - कश्चिद् देवो नारको वौपशमिकसम्यग्दृष्टिरौपश मिकसम्यक्त्वतश्च्युत्वा सास्वादनं प्राप्तः, तस्य सास्वादनप्रतिपत्तिप्रथमसमय एव विभङ्गज्ञानं भवति, ततोऽनन्तरसमये मरणाद् मनुष्यत्वेन तिर्यक्त्वेन वा समुत्पन्नस्य विभङ्गज्ञानस्याऽपगमेन जघन्यकायस्थितिरेकसमयो लभ्यते । ___ कश्चित् संयमं प्रतिपद्य द्वितीयसमये कालं कृत्वा देवत्वेनोत्पद्यते, तदा संयमस्य जघन्यकाल एकसमय आसाधते, देवानां संयमाभावात् , मतान्तरेणा-ऽन्तमुहूर्त वक्ष्यते । कश्चिज्जीव उपशमश्रेणिमारोहन्नुपशमश्रेणितो वाऽवतरन् समयमेकं सूक्ष्मसम्परायगुणस्थानकं स्पृष्ट्वा म्रियते, तदा सूक्ष्मसम्परायसंयमस्य जघन्यकायस्थितिरेकसमयः प्राप्यते । .. उपशमश्रेणितोऽवतरमनिवृत्तिवादरसम्परायगुणस्थाने सामायिकसंयमं छेदोपस्थापनीयसंयम वाऽऽसाद्या-ऽनन्तरसमये यो म्रियते, तमाश्रित्य सामायिकच्छेदोपस्थापनीययोर्जघन्यकायस्थितिरेकसमयो लभ्यते । परिहारविशुद्धिकसंयमस्य जघन्यकायस्थितिरेकसमयप्रमाणा मरणा-ऽपेक्षया भावनीया । उपशमाद्धायामेकसमयावशेषायां यः सास्वादनभावं प्रतिपद्यते,सो-ऽनन्तरसमयेऽवश्यं मिथ्यात्वं गच्छति, तदेवं सास्वादनमार्गणाया जघन्यकायस्थितिरेकसमयप्रमाणोपलभ्यते ॥३२,३३॥ सम्प्रति क्रोधादीनां जघन्यकायस्थितिं मतान्तरेण प्रतिपादयभाह अण्णे तिकसायाणं समयो मणणाणओहिजुगलाणं । संजमपरिहाराणं भिन्नमुहुत्तं ति कायठिई ॥३४॥ (प्रे०) 'भण्णे' इत्यादि, 'अन्ये' केचित् महाबन्धकारादयो ब्रुवन्तीत्युपस्कारः, 'त्रिकपायाणां' क्रोधमानमायाख्यानां त्रयाणां कषायाणां प्रत्येकं 'समयः' एकसमयो जघन्यकापस्थिति
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy