SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नरकगत्यादीनामुत्कृष्टकायस्थितिः ] क यस्थितिप्रकरणम् [ ४५ र्भवति, भवचरमसमये स्वभिन्नकषायतः समुत्तीर्य क्रोधमधिगच्छति, ततो मृत्वा नरकगतिवर्जशेषगतिधूत्पद्यते, तस्य क्रोधस्यैकसमयमात्री कास्थितिघन्यतो भवति, एवं मानमाययोरपि भावनीया, नवरं यथाक्रमं मनुष्यगति तिर्यग्गतिं च वर्जयित्वा गत्यन्तरे समुत्पद्यत इति वक्तव्यमिति । प्रास्तु श्रीप्रज्ञापनासूत्रकारादिमतेन-त्रयाणां क्रोधादिकषायाणां प्रत्येकं जघन्यकायस्थितिरन्तमुहूर्तमात्री प्रतिपादिता, तेषां मतेन गत्यन्तरे समुत्पद्यमानानां पूर्वभवगत एव क्रोधादीनामन्यतमः कषायोऽनुवतते । सम्प्रति मतान्तरेणाऽन्तम हूर्तप्रमाणजघन्यकायस्थितिका मार्गणाः संगृह्य प्राह--'मण.' इत्यादि, 'मनोज्ञाना-ऽवधियुगलयोः' मनोज्ञानस्य मनःपर्यवज्ञानमार्गणाया अवधियुगलस्य अवधिज्ञानाऽवधिदर्शनलक्षणस्य मार्गणाद्विकस्य प्रत्येकं 'संयम-परिहारयोः' संयमस्य संयमसामान्यमार्गणायाः परिहारस्य परिहारविशुद्धिसंयममार्गणायाश्च प्रत्येकं 'भिन्नमुहूर्तम्' अन्तमुहूतं जघन्यकायस्थितिरेकजीवाश्रया भवति, यतो भावान्तरतो यथोक्तभावं प्राप्य भावान्तरं गतस्य जीवस्य मनःपर्यवज्ञानादिमार्गणानां जघन्यतो-ऽन्तमुहर्तकालो लभ्यते । इतिशब्दः समाप्तिवाचकः, का समाप्ता ? इत्याह-'कायठिई' त्ति, 'कायस्थितिः' जघन्यत उत्कृष्टतश्चैकजीवाश्रया * चतु:सप्तत्यधिकशतमार्गणानां कायस्थितिप्ररूपणा समाप्तेत्यर्थः ॥३४॥ AMANY ॥ इति समाता ॥ श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सचारित्रचूडामणिकर्मशास्त्रनिष्णात-प्रातःस्मरणीयाचार्यशिरोमणि-श्रीमद्विजयप्रेमसूरीश्वरान्तेवासिमुनिमतल्लजश्रीजयघोषविजय-धर्मानन्दविजय-वीरशेखरविजयसंगृहीतपदार्थकस्य मुनिश्रीवीरशेखरविजयरचितमूलगाथाकस्य कायस्थितिप्रकरणस्य मुनिपुङ्गवजितेन्द्र विजयशिष्यमुनिगुणरत्नविजयविरचिता प्रेमप्रभावृत्तिः । *चतुःसप्तत्युत्तरशतमार्गणाः षट्चत्वारिंशत्तमपृष्ठस्थयन्त्रतोऽबसेयाः ।
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy