SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२] कायस्थितिप्रकरणम् [मनोयोगादीनां जघन्यकायस्थितिः दनाऽनाहारकलक्षणानां चतुर्णा मार्गणास्थानानां च प्रत्येकम् , उक्तं च श्रीप्रज्ञापनासो-"मण . जोगी णं भंते मणजोगी त्ति कालतो. ? गो० ! ज० एक्कं समय,xxx एवं वइजोगी वि । अवेदए णं मंते ! भवेदए त्ति पुच्छा, गो० ! अवेदे दुविधे पं० त०, सादीए अपज्जवसिए, साइए वा सपज्जवसिते, नत्थ णं जे से साइए सपज्जवसिते, से जहणणेणं एगं समय। xxx लोभकसाई णं भंते ! लोभ, पुच्छा गो० ! नह० एक्कं समयं । xxx इथिवेदे णं भंते ! इथिवेदे त्ति काल ? गो० ! xxx जह० एक समयं । xxx नपसगवेए णं भंते ! नपसगवेदेत्ति पच्छा, गो० ज० एगं समयं | xxxx अकसाई णं भंते ! अकसादि त्ति काल• ? गो० ! अकसादी पं०तं० सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते, से जह० एगं समयं । xxx ओहिनाणी वि एवं चेत्र, नवरं जहण्णेणं एगं समयं । मणपज्जवणाणी णभंते ! पुच्छा, मणपज्जवणाणि त्ति कालतो०, गो० !जह. एगं समयं।xxx विभंगणाणी णं भंते ! पुच्छा. गो०! जहण्णणं एगं समयं xxxxx xxxxx ओहिदसणी णं पुच्छा , गो० ! जह० एगं समयं xxx । छ उमत्यभणाहारए णं भंते ! पुच्छा, गो० जह० एगं समयं ।" इति । एवमन्यासामौदारिकादिमार्गणानां सामयिक्या जघन्यकायस्थितेः प्रतिपादको जीवसमासादिग्रन्थसंवादो द्रष्टव्यः, तथा चाऽत्र जीवसमासप्रकरणम्मणवइउरलविउविवआहारयकम्मजोग अणरित्थी । संजमविभागविब्भंगसासणे एकसमयं तु ॥१॥ इति । भावना वित्थं कार्या-कश्चिञ्जीव औदारिकादिकाययोगेन प्रथमसमये मनोवर्गणापुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणम्य मुञ्चति, तृतीयसमय उपरमते म्रियते वा, तत्रोपरतस्य योगान्तरभजनाद् मृतस्य चौदारिकमिश्र-वैक्रियमिश्रयोग-कार्मणकाययोगानामन्यतमयोगस्योपलम्भाद् मनोयोगस्य जघन्यावस्थानकाल एकसमयः प्राप्यते, न चैतत् स्वमनीषिकया विज़म्भितम् , श्री. प्रज्ञापनासूत्रस्य मूलवृत्तिकारैस्तथासमर्थितत्वात् । तथा च तद्ग्रन्थः-"मणयोगे खंधे पडुच्च भोरालियादिकायजोगेण जीवव्यापारो पढमसमये चेव उवरमति मरति वा, तत्थ एगसमयं ।" इति । मनोयोगसामान्यस्यैकसामयिकत्वेन तव्याप्यभूतानां सत्यादिमनोयोगानामकसामयिकता निगदसिद्धा, व्यापकाभावे व्याप्याभावस्या-ऽवश्यं भावात् । एवं पञ्चानां वचनयोगानामपि भावना कर्तव्या। . औदारिकवैक्रियकाययोगयोमरणमाश्रित्य जघन्यकायस्थितिर्भावनीया। तथाहि-कश्चिन्मनुष्यस्तिर्यङ्वा मनोयोगादिकं परित्यज्य समयमेकमौदारिकशरीरयोगवत्वेन जीवित्वा मृतः कार्मणकाययोगी औदारिकमिश्रकाययोगी वैक्रियमिश्रकाययोगी वा भवति, मरणाऽनन्तरसमये कार्मणकाययोगौदारिकमिश्रकाययोग-वैक्रियमिश्रकाययोगानामेवाऽन्यतमस्य योगस्योपलम्भात् । एवं कश्चिद् देवो नारको वा मनोयोगादिकं विमुच्य वैक्रियकाययोगे समयमेकं जीवित्वा मृत औदारिकमिश्रकाययोगी कार्मणकाययोगी वा भवति, देवनारकाणां मरणसमनन्तरसमय औदारिकमिश्रकार्मणकाययोगौ ऋतेऽन्ययोगस्याऽसंभवात् । तदेवमुक्तयोर्मार्गणयोर्जघन्यकायस्थितिः समयः । औदारिकमिश्रकाययोगस्य जघन्यकायस्थितिः समुद्घातमापन्नं कपाटस्थं सयोगिकेवलिनं प्रतीत्यैकसामयिकी प्राप्यते, यतः समुद्घातस्य प्रथमसमय-तृतीयसमयोर्मध्यगते द्वितीयस्मिन् समय
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy