________________
२२ ]
काय स्थितिप्रकरणम्
[ निगोदादीनामुत्कृष्टकायस्थितिः "तसकाइयपज्जत्तर पुच्छा, गोयमा । जहन्नेणं अतोमुहुतं, उक्को सेणं सागरोवमसयपुहुत्तं सातिरेगं " xxxx पुरिसवेदे णं भंते ! गो० ! जह० भतो०, उक्को० सागरोबमसतपुहुत्तं सातिरेगं । xxxx सणी णं भंते! पुच्छा, गो० ज०भ तो०, उ० सागरोवमसयपुहुत्तं सातिरेगं ।" इति । एवं जीवसमासे. ऽपि— पुरिसन्तं सण्णित्तं च सय ुहुत्तं च उयहीणं ॥ १||" इति । तदेवमभिहिता इन्द्रियमार्गणाया अन्यासां च कियतीनाश्चित् कायभेदादिमार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिः ॥१३॥
सम्प्रत्यवशिष्टानां कायभेदानामेकजीवाश्रयामुत्कृष्टकायस्थितिं वक्तुकाम आहअद्धत अपरिअट्टा भवे णिगोअस्स होइ कम्मठिई । बायरपुहवाइचउगणि गोअपत्ते अहरिआणं ॥ १४ ॥
(प्रे०) 'अडतइअ०' इत्यादि, 'अर्धतृतीयपरावर्ताः' पदैकदेशेन पदसमुदायस्य गम्यमानत्वात् परावर्तशब्देन पुद्गलपरावर्तस्य ग्रहणं कर्तव्यम्, अर्धस्तृतीयो येषाम् तेऽर्धतृतीयाः, अर्धतृतीयाच ते पुद्गल परावर्ताच अर्धतृतीयपुद्गलपरावर्ता:= सार्धपुद्गलपरावर्तद्वयमित्यर्थः, 'निगोदस्य' साधारणशरीरवनस्पतिकाय मार्गणायाः प्रक्रमाद् एकजीवाश्रयोत्कृष्टकायस्थितिः 'भवेत्' स्यात् । साधारणशरीरवनस्पतिकायत्वेन पुनः पुनरुत्थमानस्तद्भावम परित्यजन्नुत्कृष्टतोऽर्धतृतीयान् पुद्गलवपरार्तान् यावदवतिष्ठते, ततः परमन्यत्राऽवश्यमुत्पद्यत इति तात्पर्यम्, यदुक्तं श्री प्रज्ञापनासूत्रकायस्थितिपदे - "निगोदे णं भंते ! निगोए त्ति के चिर होति ? गो० ! जह० अतो०, उक्कोसेणं अणताओ उस्सपिणीमसप्पिणीओ कालतो, खेत्ततो भड्ढाइज्जा पोग्गलपरियट्टा ।" इति ।
"
ननु साधारण वनस्पतिकायस्योत्कृष्ट कार्यस्थितिर्यथोक्तप्रमाणा भवति, तर्हि निगोदसामान्यतः पृथग्भूतानां बादरनिगोदानां कियती भवति सा १ इति शङ्काऽपनोदाय बादरसाधारणवनस्पतिकायस्य प्रस्तुतकायस्थितिं वक्तुकामोऽन्या अपि मार्गणाः संगृह्य प्राह - 'होइ' इत्यादि, 'भवति' विद्यते एकजीवाश्रितोत्कृष्ट काय स्थितिः 'कर्मस्थितिः' कर्मशब्देना - ऽत्र मोहनीयं विवक्षितम् तेन मोहनीय कर्मणो योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटी कोटी प्रमिता, सा 'बादरपृथिव्यादिचतुष्कनिगोद प्रत्येकरितानां' बादरविशेषणं प्रत्येकं योज्यम्, नवरं प्रत्येकहरितेन सह न योज्यम्, व्यभिचाराभावात्, ततश्चाऽयमर्थः - बादरपृथिव्यादिचतुष्कस्य = चादरपृथिवी काथ-बादराष्काय-वायर तेजः काय- बादरवायुकायलक्षणस्य प्रत्येकं बादरनिगोदस्य = वादरसा वारणशरीरवनस्पतिकायमार्गणाभेदस्य प्रत्येक हरितस्य = पर्याप्ताऽपर्याप्तविशेषणरहितस्य प्रत्येकशरीरवनस्पतिकाय सामान्यमार्गणास्थानस्य च । बादरपृथिवीकायादयः प्रत्येकं स्वस्वकाये पुनः पुनरुत्पद्यमानाः सप्ततिसागरोपमकोटीकोटीर्यावदासते, ततः परमन्यत्रोत्पद्यन्त इति भाव:, यदुक्तं प्रज्ञापनासूत्रे - "बादर
5 षट्खण्डागमे तु - ' पुरिसवेदा केवचिर कालादो होंति, जहणणेणं अंतोमुहुत्तं उक्कस्सेण सागरोपमसदपुधत्तं xxx सणियाणुवादेणं सण्णी केवचिर कालादो होंति । जद्दण्णेण खुद्दाभवग्गणं उक्कस्सेणं सागरोपमसदपुधत्तं ।” इत्युक्तम् ।