________________
[३७
गहारकादीनां जघन्यकायस्थितिः] कायस्थितिप्रकरणम् न्तरतः प्रोक्तमार्गणासु जघन्यस्थितिकाऽपर्याप्तत्वेनोत्पद्य ततश्च्युत्वा पुनर्मार्गणान्तरेणूत्पद्यते, तदा यथोक्तकालो लभ्यते ।
___ अथाऽऽहारकमार्गणाया एकजीवाश्रयां जघन्यकायस्थिति भणति-'आहारस्स' इत्यादि, 'आहारस्य' आहारकमार्गणायाः 'त्रिसमयहीन.' त्रिभिः समयीनः, कः ? प्रत्यासच्या क्षुल्लकभवः, एकजीवाश्रया जघन्यकायस्थितिर्भवतीत्युपस्कारः, प्रकृतत्वात् । भावना त्वित्थं कर्तव्यापृथिवीकायिकादिः कश्चिज्जीवश्चतुःसामयिक्या विग्रहगत्या क्षत्रकभवायुष्काऽपर्याप्तपृथिवीकायिकादिपूत्पद्यते, स समयत्रयं यावदनाहारको भवति, ततः स्वोत्पत्तिस्थानं लब्ध्वाऽऽहारं गृह्णाति, ततः प्रभृति स्वभवचरमसमयं यावदाहारको भूत्वा मृतः सन् विग्रहगत्योत्पद्यमानोऽनाहारको जायते, तं नीवं प्रतीत्या-ऽऽहारकमार्गणाया बघन्यकालस्त्रिसमयहीनः क्षुलकभवः प्राप्यते । उक्तं च जीवसमासवृत्तौ-"छउमत्थाहारए णं भंते ! छउमत्थाहारए त्ति कालमो केचिरं होइ ? गोयमा ! जहण्णेणं खुडागभवग्गहणं तिसमऊणं."xxx इति ॥२५,२६।।
सम्प्रति जघन्यतोऽन्तमुहूर्तस्थायिनीर्मार्गणाः संगृध प्राह
भिन्नमुहुत्तं तु सयलपजत्तगजोणिणीण कायस्स । मीसदुजोगपुमाणं तिकसायमइसुअकेवलदुगाणं ॥२७॥ (गीतिः) अण्णाणदुगस्स तहा देसाजतचक्खुसव्वलेसाणं ।
सम्मत्तखइअवेअगउवसममीसाण मिच्छस्स ॥२८॥ (प्रे०) 'भिन्नमुहुत्तं' इत्यादि , 'भिन्नमुहुर्तम् ' अन्तर्मुहूर्तम् 'तु' तुशब्दो विशेषार्थकः , तदर्थस्त्वने दर्शयिष्यते , ' सकलपर्याप्तकयोनिमतीनां ' सकलपर्याप्तकानां= पर्याप्तद्विगतिभेद--पडिन्द्रियभेद-द्वादशकायमेदानां पर्याप्तपञ्चेन्द्रियविर्यक-पर्याप्तमनुष्य-पर्याप्तसूक्ष्मैकेन्द्रिय--पर्याप्तवादरैकेन्द्रिय-पर्याप्तद्वीन्द्रिय-पर्याप्तत्रीन्द्रिय--पर्याप्तचतुरिन्द्रिय--पर्याप्तपञ्चेन्द्रिय-पर्याप्तसूक्ष्मपृथिवीकाय-पर्याप्तयादरपृथिवीकाय-पर्याप्तसूक्ष्माऽप्काय-पर्याप्तबादराप्काय - पर्याप्तसूक्ष्मतेजःकाय-पर्याप्तवादरतेजःकाय-पर्याप्तसूक्ष्मवायुकाय-पर्याप्तवादरवायुकाय-पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय-पर्याप्तबादरसाधारणशरीरवनस्पतिकाय-पर्याप्तप्रत्येकशरीरवनस्पतिकाय-पर्याप्तत्रसकाय रक्षणानां विंशतिमार्गणानां योनिमत्योः पञ्चेन्द्रियतिर्यग्योनिमती-मनुष्ययोनिमतीलक्षणयोः 'कायस्य' काययोगमार्गणाया 'मिश्रद्वियोगपुंसां' मिश्रयोयोर्योगयोः औदारिकमिश्रकाययोगस्य वक्ष्यमाणत्वाद् वैक्रियमिश्रकाययोगा-ऽऽहारकमिश्रकाययोगयोः पुंसः पुरुषवेदमार्गणायाश्च 'त्रिकषायमतिश्रुतकेवलद्विकानां' त्रिकषायाणां क्रोधमानमायारूपाणां तिसृणां मार्गणानां मतिश्रुतयोः मतिज्ञान-श्रुतज्ञानयोः केवलद्विकस्य केवलज्ञानमार्गणा-केवलदर्शनमार्गणारूपस्य
३० अ