________________
३६]
कायस्थितिप्रकरणम् [ प्रतिप्रस्तटं वालुकाप्रभादिनारकाणामुत्कृष्टस्थितिः - तमःप्रभायाः प्रथमग्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिः सप्तदश सागरोपपमाणि (१७), द्वितीयप्रस्तटे द्वाभ्यां सागरोपमस्य विभागाभ्यामधिकान्यष्टादश सागरोपमाणि (१८३), तृतीयप्रस्तटे च विंशतिः सागरोपमाण्येकश्च सागरोपमस्य त्रिभागः (२०) ।
महातमप्रभायां त्वेक एव प्रस्तटः, तेन प्रागुक्ता द्वाविंशतिः सागरोपमाणि तत्रत्यानां नारकाणामेकजीवाश्रया जघन्या कायस्थितिर्भवति, विशेषतः पुनः सप्तमनरकथिव्या अप्रतिष्ठानाख्यनरकावासे नारकाणां कायस्थितिरजघन्यानुत्कृष्टा प्रयस्त्रिंशत् सागरोपमाणि, यदुक्तं समवायाङगे-"अपइट्ठाणनरए नेरइयाण अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता।" इति । तदेवमभिहिता शर्कराप्रभादिनारकाणामेकजीवाश्रया जघन्या कायस्थितिः, प्रसङ्गतश्च प्रतिप्रस्तटमाश्रित्या-ऽपि निरूपिता । ___सम्प्रति क्रमप्राप्तस्य तिर्यग्गतिमार्गणास्थानस्य जघन्यकायस्थितिं वक्तुकामस्तत्समानत्वादन्या अपि मार्गणाः संगृह्याऽऽह-"खुडुभवो" इत्यादि क्षुल्लकभवः'षट्पञ्चाशदधिकद्विशताऽऽवलिकाप्रमाणः कालः 'तिर्यक्-पञ्चेन्द्रियतिर्यग्-मनुष्य-तदपर्याप्तानाम्' एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, तिरश्वः तिर्यग्गतिसामान्यमार्गणायाः पञ्चेन्द्रियतिरश्वः पञ्चेन्द्रियतिर्यग्गतिमार्गणाया मनुष्यस्य= मनुष्यगतिसामान्यमार्गणास्थानस्य च, तदपर्याप्तयोः-तौ च तदपर्याप्तौ च तदपर्याप्ती, तयोः, तच्छब्दस्य पूर्ववस्तुपरामर्शित्वाद् अपर्याप्तपञ्चेन्द्रियतिर्यङ्मार्गणाया अपर्याप्त मनुष्यमार्गणास्थानस्य च 'पर्याप्तमेदवर्जितशेषेन्द्रियकायभेदसंज्ञिनाम् एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, पर्याप्तभेदैर्वर्जिताः शेषा इन्द्रियभेदास्त्रयोदश, पर्याप्त भेदैर्वजिताश्च शेषकायमेदास्त्रिंशत् , तेषाम् एफेन्द्रियसामान्यसूक्ष्मकेन्द्रिया-ऽपर्याप्तसूक्ष्मैकेन्द्रिय-बादरैकेन्द्रिया-ऽपर्याप्तबादरैकेन्द्रिय-द्वीन्द्रियसामान्या-ऽपर्याप्तद्वीन्द्रिय-श्रीन्द्रियसामान्या-ऽपर्याप्तत्रीन्द्रिय-चतुरिन्द्रियसामान्या-ऽपर्याप्तचतुरिन्द्रिय-पञ्चेन्द्रियसामान्या-ऽपर्याप्तपञ्चेन्द्रियलक्षणानां त्रयोदशानामिन्द्रियमेदानां पृथ्वीकायसामान्य सूक्ष्मपृथ्वीकाया--ऽपर्याप्तसूक्ष्मपृथ्वीकाय--बादरपृथिवीकाया-ऽपर्याप्तबादरपृथिवीकायलक्षणानां स्वभेदप्रमेदयुक्तानां पञ्चानां पृथ्वीकायमेदानामेवं पञ्चानामप्यकायमेदानां तेजःकायमेदानां वायुकायभेदानां च वनस्पतिकायसामान्य-साधारणशरीरवनस्पतिकाय-सूक्ष्मसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय-बादरसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तवादरसाधारणशरीरवनस्पतिकाय-प्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तप्रत्येकशरीरवनस्पतिकायरूपाणामष्टानां वनस्पतिकायमेदानां त्रसकायसामान्या-ऽपर्याप्तत्रसकाययोश्च सर्वसंख्यया त्रिंशतः कायभेदानां संज्ञिनः= संज्ञिमार्गणास्थानस्य 'अमनसः' असंज्ञिमार्गणायाश्च प्रत्येकं ज्ञातव्या' एकजीवाश्रया जघन्यकायस्थितियोंद्धव्या, प्रोक्तै कपञ्चाशन्मार्गणासु (५१) अपर्याप्तनामकर्मोदयवर्तीनां जीवानां प्रवेशात् तेषां च जघन्या-ऽऽयुषः क्षुल्लकभवप्रमाणत्वात् । भावना तु तं प्रतीत्य कर्तव्या, यो मार्गणा