SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कायस्थितिप्रकरणम् ३८ ] [ मत्यज्ञानादीनां जघन्यकायस्थितिः 'अज्ञानद्विकस्य' मत्यज्ञान - श्रुताज्ञानलक्षणस्य मार्गणाद्विकस्य तथा 'देशा - ऽयतचक्षुः सर्वलेश्यानां' देशस्य="समुदायेषु प्रवृत्ताः शब्दा मवयेवष्वपि वर्तन्ते" इति न्यायाद् देशविरतमार्गणाया अयतस्य = अविरतमार्गणायाः, चक्षुषः =चक्षुर्दर्शनमार्गणायाः सर्वलेश्यानां = कृष्णादीनां षण्णां लेश्यानां सम्य क्त्वक्षायिकवेदकोपशम मिश्राणां सम्यक्त्वस्य = सम्यक्त्वसामान्यमार्गणायाः क्षायिकस्य क्षायिकसम्यक्त्वमार्गणाया वेदकस्य क्षायोपशमिकसम्यक्त्वमार्गणाया उपशमस्य = य= औपशमिकसम्यक्त्वमार्गणाया मिश्रस्य = मिश्रमार्गणास्थानस्य मिथ्यात्वस्य = मिथ्यात्वमार्गणायाश्च प्रत्येकमेकजीवाश्रया जघन्यकाय स्थितिर्भवति, उक्तं च श्रीप्रज्ञापनासूत्रे - "पज्जत्तए णं पुच्छा, गो० ! ज० श्रं० ।" एवमन्या अपि मार्गणा अधिकृत्य ग्रन्थान्तरसंवा-दो योज्यः । अथ तुशब्दस्य विशेषार्थो भाव्यते - यद्यपि पञ्चाशन्मार्गणानां जघन्यत एकजीवाश्रया कायस्थितिरन्तमुहूर्तप्रमाणा भवति, तथापि सर्वासां न मिथस्तुल्या । तथाहि - मानस्य जघन्य कायस्थितिरन्तमुहूर्त प्रमिता भवन्त्यपि स्तोका भवति, ततः क्रोधस्य विशेषाधिका भवति, ततो मायाया विशेषाधिका, उक्तं च कषायप्राभृतचूर्णी - "ओघेण माणद्धा जहण्णिया थोवा, कोधद्धा जहणिया विसेसाहिया, मायद्धा जइण्णिया. विसेसाहिया ।" इति । देशविरता - ऽविग्तसम्यक्त्वमिश्रमिथ्यात्वानां तु जघन्यकायस्थितिः परस्परं तुल्या । उक्तं च कषायप्राभृतचूण - " जइण्णिया संजमासंजमद्धा सम्मत्ताद्धा मिच्छत्तद्धा संजमद्धा असंजमद्धा सम्मामिच्छत्तद्धा च एदाओ छप्पि अद्धाओ तुल्लामो xxx ।” इति । संयमस्य जघन्यकायस्थितिः प्रज्ञापनादिसूत्राभिप्रायेणैकसमय इति मतान्तरन्त्वमग्रे दर्शयिष्यते । मतिज्ञानश्रुतज्ञानयोः सम्यक्त्वे सति सद्भावाद् मत्याज्ञान - श्रुताऽज्ञानयोश्च मिथ्यात्वे सति संभवात् तेषामपि जघन्यकाय स्थितिर्देशविरतादिकजघन्यकायस्थित्या तुल्या सिद्धयति । एवं शेषमार्गणानां जघन्य स्थितेहींनाधिकत्वं वाच्यम् । कायस्थितिर्भावना तु सुगमा, यतो मार्गणान्तरतो विवक्षितमार्गणां जघन्यतोऽप्यन्तमुहूर्तकालं स्पृष्ट्वा मार्गणान्तरं यः प्राप्नोति, तदपेक्षयोक्तमार्गणानामेकजीवाश्रया जघन्या कायस्थितिरन्तमुहूर्त लभ्यते, नवरमन्तर्मुहूर्त मात्र आयुषि शेषे क्षपकश्रेण्यारूढजीवाऽपेक्षया क्षायिकसम्यक्त्वमार्गणायाः केवलज्ञान केवलदर्शनमार्गणयोश्च जघन्यकायस्थितिर्भावनीया । एतदुक्तं भवति यद्यपि बन्धकनिरपेक्षा केवलज्ञान- केवलदर्शन- क्षायिकसम्यक्त्वरूपाणां तिसृणां मार्गणानां कायस्थितिरेकजीवाश्रया साद्यपर्यवसिता प्राक् प्रोक्ता, तथापीह प्रकृतिबन्धमाश्रित्य केवलद्विकस्य क्षायिकसम्यक्त्वस्य च जघन्यकायस्थितिरन्तमुहूर्त प्राप्यते, सयोगिकेवलिगुणस्थानकादूर्ध्वं प्रकृतिबन्धाऽभावात् । भावना त्वित्थं कार्या- कश्चिदष्टाविंशतिसत्कर्मा जीवो ऽन्तमुहूर्तमशेषसंसारःकरणत्रयेण दर्शनत्रिकं क्षपयित्वा क्षायिकसम्यक्त्वं प्राप्नोति, तदनन्तरं क्षपकश्रेणिमारुह्य घातिचतुष्टयं शीघ्रं क्षपयति, क्षपयित्वा च सयोगिकेवली भूत्वा शैलेशीं प्राप्तः
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy