SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मतान्तरेणोत्कृष्टकायस्थितिः ] काथस्थितिप्रकरणम् [ ३१ खेत्ततो अंगुलस्स असंखेज्जतिभागं ।” इति । इतिशब्दः प्रकारार्थद्योतकः, अनेन प्रकारेण प्रथमगाथातः प्रभृति एकोनविंशतितमगाथां यावद् 'बन्धक' बध्नाति कार्मणवर्गणापुद्गलान् क्षीरनीरवद् आत्मना सहात्मसात्करोतीति बन्धकः, तम् , एकवचननिर्देशाद् एक बन्धकजीव प्रतीत्य' आश्रित्य 'उक्ता'उत्कृष्टकायस्थितिवहिता, न तु बन्धकनिरपेक्षा, क्षायिकसम्यक्त्वादीनां तस्याः साधनन्तत्वोपम्भलात् । सा च वक्ष्यते द्वाविंशतितमगाथायाम् ॥२०॥ अथ मतान्तरेण कासाश्चिद् मार्गणानां बन्धकमाश्रित्य कायस्थितिमाहकेइ पुण बिंति हवए संखसहस्सवरिसा समत्ताणं । बेइंदियतेइंदियचउइंदियबायरऽग्गीणं ॥२१॥ दो सागरा सहस्सा समत्ततसचक्खुदंसणाण भवे । . सत्तरह सत्त अयरा होइ कमा नीलकाऊणं ॥२२॥ (प्रे०) 'केइ' इत्यादि, केचित् एके आचार्यपादाः पुनः 'ब्रुवन्ति' पठन्ति, किम् ? इत्याह'हवए' इत्यादि, 'संख्यसहस्रवर्षाः' संख्यातसहस्राणि' वर्षाणि 'समाप्तानां पर्याप्तानां द्वीन्द्रियश्रीन्द्रिय-चतुरिन्द्रिय-बादराग्नीनां प्रत्येकं भवति' एकजीवाश्रयोत्कृष्टकायस्थितिरस्ति । भावार्थः पुनरयम्-पर्याप्तनामकर्मोदयविशेषितो द्वीन्द्रियजीवो भूयो भूयः पर्याप्तद्वीन्द्रियत्वमपरित्यजन्नुत्पद्यमान उत्कृष्टतो वर्षाणां संख्येयसहस्राणि यावदवतिष्ठते, तेनैकजीवाश्रितोत्कृष्टकायस्थितिः पर्याप्तद्वीन्द्रियमार्गणायाः संख्यातसहस्रवषोणि लभ्यते, एवं पर्याप्तत्रीन्द्रियमार्गणा-पर्याप्तचतुरिन्द्रियमार्गणयोः पर्याप्तवादरतेजःकायमार्गणायाश्च कायस्थितिर्भावनीया, उक्तं च पञ्चसंग्रहे-बायरपज्जेगिंदियविगलाण य वाससहस्ससंखेज्जा।" इति । तथैव तन्मूलवृत्तावप्युक्तम्-"बादराणां पर्याप्तकनामविशेषितानां संख्येया वर्षसाहस्रयः प्रत्येकं पृथिवी जलाग्निवायुवनस्पतिप्रत्येकैकेन्द्रियाणां संख्येया वर्षसाहस्रपः कास्थितिः, विकलानामपि द्वित्रिचतुरिन्द्रियाणां प्रत्येकं संख्येयवर्षसाहस्रपः कायस्थितिः।" इति । तथा चोक्तं जीवसमासे तदीयायां च श्रीशीलाचार्यकृतवृत्तावपि-"बायरपज्जत्ताणं वियलसपजत्तइंदियाणं च । उक्कोसा कायठिई, वाससहस्सा उ संखेज्जा ॥१॥” इति, बायरेत्यादि पृथिव्यादीनां चादरपर्याप्तकानां विकलेन्द्रियपर्याप्तकानाम् तथा सकलेन्द्रियाणां संख्येयवर्षायुषां पर्याप्तकानां चोत्कृष्टफायस्थितिः संख्येयानि वर्षसहस्राणि ।" इति । प्राग् दशमगाथया प्रज्ञापनादिसूत्राभिप्रायेण पर्याप्तद्वीन्द्रियस्य संख्यातवार्षिकी, एकादशगाथया च पर्याप्तत्रीन्द्रियस्य संख्यातदिवसमात्री पर्याप्तचतुरिन्द्रियस्य संख्यातमासप्रमाणा-ऽभिहिता, मतान्तरेण त्वऽनन्तरोक्तप्रमाणा बोध्या । 'दो' इत्यादि, द्वे सहस्र सागराः-सागरोपमाः 'समाप्तत्रसाऽचक्षुर्दर्शनयोः' समाप्तशब्दो षट्खण्डागमेऽप्युक्तम्-'बीइंदिया तीइ दिया चउरिदियपज्जत्ता केवचिरं कालादो होति ? xxx उक्कस्सेण संखेज्जाणि वाससहस्साणि | xxxx बादरतेउकाय xxxx पज्जत्ता केवचिरं कालादोहोन्ति xxx उक्कस्सेण संखेज्जाणि वाससहस्साणि" इति । ४ब
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy