________________
. ५०
भवस्थितिप्रकरणम्
[वनस्पतिकायादीनामुत्कृष्टभवस्थितिः
सम्प्रति वनस्पतिकायादीनामुत्कृष्टभवस्थितिमाहवासाऽथि दससहस्सा वणपत्तेअवणतस्समत्ताणं ।
णेया तेत्तीसुदही पणिंदितसतस्समत्ताणं ॥५॥
(प्रे०) 'वासाऽत्थि' इत्यादि, वर्षा दशसहस्राणि 'वनप्रत्येकवनतत्समाप्तानां' पदैकदेशेन पदसमुदायस्य गम्यमानत्वाद् वनशब्देन वनस्पतिग्रहणाद् वनस्पतिकायसामान्यस्य प्रत्येकवनस्पतिकायस्य पर्याप्तप्रत्येकवनस्पतिकायस्य च 'अस्ति' उत्कृष्टा भवस्थितिर्भवति. उक्तं च श्रीप्रज्ञापनासूत्रे-"वणप्फइकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दस वाससहस्साई।" इति । एवं प्रत्येकवनस्पतिकाय-पर्याप्तप्रत्येकवनस्पतिकाययोरपि ग्रन्थान्तरसंवादो द्रष्टव्यः । 'णेया' इत्यादि, 'पञ्चेन्द्रियत्रसतत्समाप्तानां' पञ्चेन्द्रियस्य सस्य चसकायस्य समाप्तपञ्चेन्द्रियस्य पर्याप्तपञ्चेन्द्रियस्य समाप्तत्रसस्य पर्याप्तवसकायस्य चोत्कृष्टा भवस्थितिः 'त्रयस्त्रिंशदुदधयः' त्रयस्त्रिंशत्सागरोपमाः 'ज्ञेया' पोद्धव्या, देवनारकाणां पञ्चेन्द्रियत्रसतत्पर्याप्तत्वेन यथोक्तभवस्थितेरुपपत्तेः, यदुक्तं श्री जीवाजीवाभिगमसो-"पंचेनियस्स xxxउक्कोसेणं तेत्तीसं सागरोवमाइं । xxxx तसकाइयस्स xxx उक्कोसेणं तेत्तीसं सागरोमाई" इति । एवं पर्याप्तपञ्चेन्द्रियस्य पर्याप्तत्रसकायस्य चोत्कृष्टभवस्थितौ ग्रन्थान्तरसंवादो बोध्यः ॥५॥
सम्प्रत्यपर्याप्पतिर्यगादीनामुत्कृष्टभवस्थितिमभिदधत् सप्ततेर्जघन्यभवस्थितिं देवनारकाणां च जघन्योत्कृष्टभवस्थितिमतिदिशति
सेसाणं मुहुत्तंतो पणतीमाए सकायठिहतुल्ला। सयरीए होइ लहू दुहावि सव्वणिरयसुराणं ॥६॥
(प्रे०) सेसाणं' इत्यादि शेषाणाम्' उक्तोद्धरितानामपर्याप्तपञ्चेन्द्रियतिर्यगादीनां 'पञ्चत्रिंशतः पञ्चत्रिंशत्संख्यकानां 'मुहूर्तान्तः' अन्तर्मुहूर्त 'ज्ञेया' उत्कृष्टभवस्थितिर्बोध्या, कतिपयानामपर्याप्तत्वेन केषाश्चित् सूक्ष्मत्वेन शेषाणां च साधारणवनस्पतिकायभेदत्वेनोत्कृष्टभवस्थितेर्यथोकप्रमाणत्वात् यदुक्तं जीवसमासप्रकरणे-- "एएमि च जहणं उभयं साहारसव्वसुइमाणं । अतोमुत्तमाऊ सव्वापज्जत्तयाणं च ॥१॥” इति ।
अपर्याप्तपञ्चेन्द्रियतिर्यगादयो नामतः पुनरिमे-अपर्याप्ततिर्यक्पञ्चेन्द्रिया-ऽपर्याप्तमनुष्य-मूक्ष्मै. केन्द्रिय-पर्याप्तसूक्ष्मैकेन्द्रिया ऽपर्याप्तसूक्ष्मैकेन्द्रिया-ऽपर्याप्तवादरैकेन्द्रिया--ऽपर्याप्तद्वीन्द्रिया-ऽपर्याप्त-- त्रीन्द्रिया-ऽपर्याप्तचतुरिन्द्रिया-ऽपर्याप्तपञ्चेन्द्रिय-सूक्ष्मपृथिवीकाय--पर्याप्तसूक्ष्मपृथिवीकाया-ऽपर्याप्तसूक्ष्मपृथिवीकाया-ऽपर्याप्तवादरपृथिवीकाय-सूक्ष्माप्काय-पर्याप्तसूक्ष्माप्काया-ऽपर्याप्तसूक्ष्माप्काया-ऽपर्याप्त