SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ ] [ तिरश्च्यादीनामुत्कृष्टभवस्थिति: तिरश्री - मानुष्योस्तूत्कृष्टभवस्थितिस्त्रिपल्योपमानि सुघटा, देवकुर्वादिषु युगलधर्मिस्त्रीणां तावत्स्थितिकायुष्कत्वात्, तथा चोक्तं श्रीजीवाजोवाभिगमे - तिरिक्खजोणित्थीणं भते ! केवतिय कालं ठिती पण्णत्ता ? गो० जहनेणं अंतोमुहुत्तं, उक्को सेणं तिष्णि पलिओ माइ । xxxमणुस्सित्थीणं भंते ! केवइयं कालं ठिती पन्नत्ता ? खेत्तं पडुच्च जह० अंतो०, उक्को० तिष्णि पलिओ माइ " | इति ||१|| सम्प्रत्येकेन्द्रियप्रभृतीनामुत्कृष्टभवस्थितिं वक्तुकामः प्राहएगिंदिय पुहवीणं वरिससहस्साणि होड़ बावीसा । सा वेत्र होइ तेसिं वायर वायरसमत्ताणं ॥२॥ भस्थितिप्रकरणम् • . ( प्रे०) 'एगिंदिय०' इत्यादि ' एकेन्द्रियपृथिव्योः ' एकेन्द्रियसामान्य-पृथिवीकायसामान्ययोविंशतिर्वर्षसहस्राणि 'भवति' उत्कृष्टभवस्थितिरस्ति 'सा चैव द्वाविंशतिवर्षसहस्राणि चैव बादर- बादरसमाप्तानां तेषां तच्छन्दस्य पूर्वप्रकान्तपरामर्शित्वाद् एकेन्द्रियपृथिवीनां = चादरै केन्द्रिय- पर्याप्तचादरै केन्द्रिय- बादरपृथिवीकाय- पर्याप्तवादिरपृथिवीकायानां ' भवति ' उत्कृष्ट भवस्थितिरस्ति । एकेन्द्रियसामान्य- बादरै केन्द्रिय--पर्याप्तव । दरै केन्द्रियाणामियती भव-स्थितिः पृथिवीकायिकापेक्षया बोध्या, शेषाणामप्कायिकानां भवस्थितेः स्तोकत्वात् । पृथिवीकायस्य बादरपृथिवीकायस्य चोत्कृष्टस्थितिर्यथोक्तप्रमाणा प्रज्ञापनादिसूत्रे प्रतिपादिता । तथा च तद्ग्रन्थः “पुढविकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोण बाबीसं वाससहस्साइ | xxxx बायरपुढविकाइयाणं पुच्छा, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बाबीसं वाससहस्साइ ।" इति । बादरपृथिवीकायिकानां प्रोक्तभवस्थितिः पर्याप्तवादरपृथिवीकायिकापेक्षया संभवति, अपर्याप्तानामान्तमौहूर्तिकत्वात् । तेन पर्याप्तबादरपृथिवीकायिकस्योत्कृष्टभवस्थितिर्द्वाविंशतिसहस्रवर्षाणि भवति, यदुक्तं पश्चसंग्रहमलय गिरोयवृत्तौ -“तथाहि उत्कृष्टा भत्रस्थितिर्बादरपर्याप्तपृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि ।" इति । तदेवं एकेन्द्रियसामान्यादीनां षण्णां द्वाविंशतिवर्षसहस्राण्युत्कृष्टभवस्थितिः समुपपद्यते ||२|| सम्प्रति विकलेन्द्रियाणामुत्कृष्टभवस्थितिं वक्तुकाम आह इंदियाइगाणं कमसो बारह समा अउणवण्णा । दिवमा तह छम्मासा एवं तेसिं समत्ताणं ॥३॥ (प्रे०) 'बेइंदियाइगाणं' इत्यादि, 'द्वीन्द्रियादिकानां द्वीन्द्रिय आदिर्येषाम्, ते द्वीन्द्रियादिकाः, " शेषाद्वा' इत्यनेन वैकल्पिकः कच् प्रत्ययः तेषां द्वीन्द्रिय सामान्य-त्रीन्द्रियसामान्य चतुरिन्द्रियसामान्यानामित्यर्थः क्रमशो द्वादश 'समाः' वर्षाणि एकोनपञ्चाशद् दिवसास्तथा षण्मासाः । द्वीन्द्रियसामान्यस्योत्कृष्टभवस्थितिर्द्वादशवर्षाणि त्रीन्द्रियसामान्यस्यैकोनपञ्चाशद होरात्राश्चतुरिन्द्रियसामान्यस्य च षण्मासा भवति यदुक्तं श्रीप्रज्ञापना-सूत्रे - "बेइंदियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जद्दन्नेणं अंतोमुहुत्तं, उक्कोणं बारस , , "
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy