________________
भवस्थितिप्रकरणम्
प्रणम्य जिनं पार्श्वेशं पार्श्व पक्षप्रसेवितम् । ध्यात्वा श्रीप्रेमसूरीशं भवस्थिति विवर्णये ॥१॥
गतीन्द्रियकायभेदानां भवस्थितिं वक्तुकाम आदौ तावत् तिर्यगादीनामुत्कृष्टभवस्थिति. माह
तिरियस्स पणिदितिरियणरतप्पजत्तजोणिणीणं च । तिण्णि पलिओवमाइं उक्कोसा भवठिई णेया ॥१॥
(प्रे०) 'तिरियस्स' इत्यादि, 'तिरश्वः' तिर्यग्गतिसामान्यस्य 'पञ्चेन्द्रियतिर्यङ्नरतत्पर्याप्तयोनिमतीनां च एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, पञ्चेन्द्रियतिरश्चः पञ्चेन्द्रियतिर्यग्गतिकस्य नरस्य मनुष्यसामान्यस्य तत्पर्याप्तयोः तच्छब्दस्य पूर्ववस्तुपरामर्शित्वात् . पर्याप्तपञ्चे. न्द्रियतिर्यकपर्याप्तमनुष्ययोः, तद्योनिमत्योः तिर्यग्योनिमती-मनुष्ययोनिमत्योश्च, चकारः समुच्चयार्थकः, उत्कृष्टा भवस्थितिस्त्रीणि पल्योपमानि ज्ञेया,यदुक्तं श्री जीवाजीवाभिगमसूत्रे"तिरिक्खजोणियाणं जहन्नेणं अंतोमु०, उक्कोसेणं तिन्नि पलिओवमाइ, एवं मणुस्साणं वि।" तिर्यग्गतिसामान्यस्योत्कृष्टभवस्थितिस्त्रिपल्योपमानि पञ्चेन्द्रियतिर्यगपेक्षयैव संभवति, शेषाणां संख्येयवर्षायुष्कत्वात् । तेन पञ्चेन्द्रियतिरश्चोऽप्युत्कृष्टभवस्थितिस्त्रिपल्योपमानि । न चैतत् स्वमनीषिकया विजम्भ्यते, यत उक्तं श्रीप्रज्ञापनासूत्रे-“पचिंदियतिरिक्खजोणियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई ।" इति । पञ्चेन्द्रियतिरश्चो मनुष्यसामान्यस्य च यथोक्तोत्कृष्टभवस्थितियथाक्रमं पर्याप्तपञ्चेन्द्रियतिर्यगपेक्षया पर्याप्तमनुष्यापेक्षया च घटते, अपर्यापानामन्तमुहूर्तस्थितिकत्वात् । तेन पर्याप्तपञ्चेन्द्रियतिरश्वः पर्याप्तमनुष्यस्य चोत्कृष्टभवस्थितिस्त्रिपल्योपमानि सिद्धयति । ननु प्रज्ञापनासूत्रे. पर्याप्तपञ्चेन्द्रियतिरश्चामुत्कृष्टभवस्थितिरन्तमुहूर्तन्यूनत्रिपल्योपममात्री प्रतिपाद्यते, तथा च तद्ग्रन्थः-“पचिंदियतिरिक्खजोणियाणं भंतेxxxपज्जत्तयाणं पुच्छा, गोयमा!जहन्नेणं अंतोमुहुत्तं,उक्कोसेणं तिन्नि पलिओवमाई अंतोमुहुत्तूणाई।xxxxपज्जत्तमणुस्साणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई अंतोमुहुत्तूणाई। पजत्तमणुस्साणं पुच्छा,गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइ अंतोमुहुत्तूणाई” इति । इह पुनः कुतः परिपूर्ण पल्पोपमत्रयमुच्यते ? इति चेत् ,उच्यते-अभिप्रायापरिज्ञानाद् भवतां प्रलपितम् ,यतो विवक्षाभेदात् श्रीप्रज्ञापनासूत्र तथोक्तम् । तथाहि-प्रज्ञापनासूत्रेऽन्तर्मुहूर्तप्रमाणं करणापर्याप्तावस्था-कालं व्यपनीय प्रस्तुतभवस्थितिरुक्ता, करणपर्याप्तानाश्रित्या-ऽभिहितेत्यर्थः, इह पुनः पर्याप्तनामकर्मोदयात् पर्याप्ता इति लब्धिपर्याप्तानाश्रित्य प्रोक्ता, पर्याप्तनामकर्मोदयस्य च करणा-ऽपर्याप्ता-ऽवस्थायामपि सत्त्वाद् न वर्जितोऽन्तमुहर्तकालः । तेन न विरुध्यते त्रीणि पन्योपमानि परिपूर्णानि पर्याप्तपञ्चेन्द्रियतिर्यग्गतिकस्य पर्याप्तमनुष्यस्य चोत्कृष्टभवस्थितिः । इत्थं विवक्षाभेद एव, न मतान्तरं नवा विरोधः । एवमन्यत्राऽप्यूद्यम् ।