Book Title: Aatmsiddhi Shastra In Sanskrit
Author(s): Bechardas Doshi
Publisher: Mansukhlal Mehta Mumbai
Catalog link: https://jainqq.org/explore/009726/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ स्वर्गीय शतावधानी श्रीमद्राजचन्द्रविरचित आत्मसिद्धि। संस्कृत पद्य-लेखक, श्रीयुक्त पं० बहेचरदास, न्याय और व्याकरणतीर्थ । Taken from Book “Atmasiddhi" Samskrut Padya Author - Pandit Bahechardas Doshi and Hindi author Padit Udaylal Kashalivaal - Published by - Mansukhalal Ravjibhai Mehta (1975 - Ashadh Month) eLibrary Sr. number 002678. Page #2 -------------------------------------------------------------------------- ________________ श्रीमद् राजचन्द्रप्रणीत आत्मसिद्धि। यत्स्वरूपमविज्ञाय प्राप्तं दुःखमनन्तकम् । तत्पदं ज्ञापितं येन तस्मै सद्गुरवे नमः॥१॥ वर्तमाने कलौ प्रायो मोक्षमार्गस्य लुप्तता । सोऽत्राऽतो भाष्यते स्पष्टमात्मार्थिनां विचारणे॥२॥ केचित् क्रियाजडा जाताः केचिद् ज्ञानजडा जनाः। मन्वते मोक्षमार्ग तं दृष्ट्वाऽनुकम्पते मनः॥ ३ ॥ बाह्यक्रियासमासक्ता विवेकविकला नराः। ज्ञानमार्ग निषेधन्तस्तेऽत्र क्रियाजडा मताः॥४॥ 'कल्पितौ बन्ध-मोक्षौ स्तः' इति वाग् यस्य केवलम् । चरितं मोहनापूर्ण तेऽत्र ज्ञानजडा जनाः ॥५॥ Page #3 -------------------------------------------------------------------------- ________________ वैराग्यादि तदाऽवन्ध्यं यद्यात्मज्ञानयोगयुक् । तथैव हेतुस्तच्चैव विवेकज्ञानप्राप्तये ॥ ६॥ यस्य चित्ते न त्यागादि न हि स ज्ञानवान् भवेत् । ये तु त्यागादिसंसक्ता निजतां विस्मरन्ति ते ॥ ७ ॥ यद् यत्र वर्तते योग्यं तद् ज्ञेयं तत्र योगतः । तत् तथैव समाचर्यमेतदात्मार्थिलक्षणम् ॥ ८॥ यः श्रयेत् सद्गुरोः पादान् स्वाग्रहत्यागपूर्वकम् ।। प्राप्नुयात् परमं तत्त्वं जानीयाद् निजतां ध्रुवम् ॥ ९ आत्मज्ञानी समानेक्षी उदयाद् गतियोगवान् । अपूर्ववक्ता सद्ज्ञानी सद्गुरुरेष उच्यते ॥ १० ॥ प्रत्यक्षसद्गुरुतुल्या परोक्षोपकृतिर्न हि। अकृत्वैतादृशं लक्ष्यं नोद्गच्छेदात्मचारणम् ॥ ११ ॥ विना सद्गुरुवाचं हि ज्ञायते न जिनात्मता। ज्ञाने तु सुलभा सैवाऽज्ञाने उपकृतिः कथम् ॥१२॥ - Page #4 -------------------------------------------------------------------------- ________________ यत्र प्रत्यक्षता नास्ति सद्गुरुतातपादीया । सत्पात्रे शरणं शास्त्रं तत्रात्मादिनिरूपकम् ॥ १३ ॥ सद्गुरुणाऽथवा प्रोक्तं यद् यदात्महिताय तत् । नित्यं विचार्यतामन्तस्त्यक्त्वा पक्ष-मतान्तरम् ॥१४॥ रुन्धीत जीवः स्वातन्त्र्यं प्राप्नुयान्मुक्तिमेव तु । एवमनन्ताः संप्राप्ता उक्तमेतजिनेश्वरैः॥ १५ ॥ प्रत्यक्षसद्गुरुयोगात् स्वातन्त्र्यं रुध्यते तकत् । अन्यैस्तु साधनोपायैः प्रायो द्विगुणमेव स्यात् ॥१६ वर्तनं सद्गुरुलक्ष्ये त्यक्त्वा स्वातन्त्र्यमात्मनः । मताग्रहं च, सम्यक्त्वमुक्तं प्रत्यक्षकारणात् ॥१७॥ स्वातन्त्र्यान्न हि हन्यन्ते महामानादिशत्रवः। सद्गुरोः शरणे प्राप्ते नाशस्तेषां सुसाधनः ॥ १८ ॥ यत्सद्गुरूपदेशे यः प्रापद् ज्ञानमपश्चिमम् । छाद्मस्थ्येऽपि गुरोस्तस्य वैयावृत्त्यं करोति सः॥१९ Page #5 -------------------------------------------------------------------------- ________________ विनयस्येदृशो मार्गो भाषितः श्रीजिनेश्वरैः । एतन्मार्गस्य मूलं तु कश्चिज्जानाति भाग्यवान् ॥२०॥ यद्यसद्गुरुरेतस्य किञ्चिल्लाभं लभेत तु । महामोहवशान्मज्जेद् भवाम्भोधौ भयंकरे ॥ २१ ॥ मुमुक्षुर्यदि जीवः स्याज्जानातीमां विचारणाम् । मतार्थी यदि जीवः स्याज्जानीयाद् विपरीतताम् ॥ मतार्थी पुरुषो यः स्यान्नात्मान्वेषी स संभवेत् । तस्याऽत्र लक्षणं प्रोक्तं पक्षदोषविवर्जितम् ॥ २३ ॥ ज्ञानहीनं गुरुं सत्यं बाह्यत्यागपरायणम् । मन्येत, वा ममत्वं वै कुलधर्मगुरौ धरेत् ॥ २४ ॥ जिनस्य ऋद्धिं देहादिमानं च जिनवर्णनम् । मनुते, स्वीयबुद्धिं यस्तत्रैवाऽभिनिविशते ॥ २५ ॥ प्रत्यक्षसद्गुरोर्योगे कुर्याद् दृष्टिविमुखताम् । योऽसद्गुरुं दृढीकुर्यान्निजमानाय मुख्यतः ॥ २६ ॥ Page #6 -------------------------------------------------------------------------- ________________ देवादिगतिभङ्गेषु जानीयाछुतज्ञानताम् । मन्यते निजवेषं यो मुक्तिमार्गस्य कारणम् ॥ २७॥ अप्राप्ते लक्षणे वृत्तवृत्तिमत्त्वाभिमानिता। परमार्थ न विन्देद् यो लोकपूजार्थमात्मनः ॥२८॥ यः शुष्कः शब्दमात्रेण मन्येत निश्चयं नयम् । सद्व्यवहारमालुम्पेद् गच्छेच्च हेतुहीनताम् ॥ २९॥ ज्ञानावस्थां न यः प्राप्तस्तथा साधनसदृशाम् । कुर्वाणस्तेन संगं ना बुडेत् संसारसागरे ॥ ३०॥ मतार्थी जीव एषोऽपि स्वीयमानादिहेतुना। प्रामुयान्न परं तत्त्वमनधिकारिकोटिगः ॥३१॥ कषायोपशमो नैव नान्तर्विरक्तिमत् तथा । सरलत्वं न माध्यस्थ्यं तद् दौर्भाग्यं मतार्थिनः ॥३२ मतार्थिलक्षणं प्रोक्तं मतार्थत्यागहेतवे । आत्मार्थिलक्षणं वक्ष्येऽधुनाऽऽत्मसुखहेतवे ॥३३॥ Page #7 -------------------------------------------------------------------------- ________________ आत्मज्ञानं भवेद् यत्र तत्रैव गुरुता ऋता । कुलगुरोः कल्पना ह्यन्या एवमात्मार्थिमान् ना ॥३४ प्रत्यक्षसद्गुरुप्राप्तेर्विन्देदुपकृतिं पराम् । योगत्रिकेन एकत्वाद् वर्तेताऽऽज्ञापरो गुरोः ॥३५॥ त्रिषु कालेषु एकः स्यात् परमार्थपथो ध्रुवम् । प्रेरयेत् परमार्थ तं ग्राह्यो व्यवहार आमतः ॥३६ ॥ अन्तरेवं समालोच्य शोधयेत् सद्गुरोर्युजिम् । कार्यमात्मार्थमेकं तद् नापरा मानसी रुजा ॥३७॥ उपशान्तिः कषायाणां निर्वाणे केवलं गृधिः। भवे खेदो दया सत्त्वे तत्राऽऽत्मार्थत्वसंगतिः॥३८॥ एतादृशीं दशां यावद् योग्यां जीवो लभेत न। मुकिमार्ग न प्रामोति तावच्चाऽस्त्यान्तरी रुजा॥३९॥ स्यादीदृशी दशा यत्र सद्गुरुबोधपूर्विका । सद्विचारः तयाऽऽविस्स्यात् सुखदोऽदुःखदो नृणाम् Page #8 -------------------------------------------------------------------------- ________________ सद्विचारो भवेद् यत्र तत्राऽऽत्मत्वप्रकाशनम् । तेन मोहं क्षयं नीत्वा प्राप्नुयान्निर्वृतिपदम् ॥ ४१ ॥ संभवेत् सद्विचारो यैः सुज्ञानं मुक्तिवर्त्म च । तानि वक्ष्ये पदानि षट् संवादे गुरु-शिष्ययोः ॥ ४२ जीवोऽस्ति स च नित्योऽस्ति कर्ताऽस्ति निजकर्मणः । भोक्तास्ति च पुनर्मुक्तिर्मुक्त्युपायः सुदर्शनम् ॥ ४३ षट्स्थानीयं समासेन दर्शनानि षडुच्यते । [ षड्दर्शन्यपि उच्यते ] प्रोक्ता सा ज्ञानिभिर्ज्ञातुं परं तत्त्वं धरास्पृशाम् ॥४४ अदृश्यत्वादरूपित्वाज्जीवो नास्त्येव भेदभाक् । अनुभूतेरगम्यत्वान्नृशङ्गत्येव केवलम् ॥ ४५ ॥ [ नृशङ्गत्येव भो गुरो ! ] देह एव वा जीवोsस्ति प्राणरूपोऽथवा स च । इन्द्रियात्मा तथा मन्यो नैवं भिन्नो ह्यलक्षणः ॥ ४६ Page #9 -------------------------------------------------------------------------- ________________ यदि स्याद् भेदवान् जीवोऽनुभूयेत कथं न हि ? 1 यदस्ति सकलं तत् तु ज्ञायते कच - काचवत् ॥ ४७ aisal नैव आत्माsस्ति ततो मुक्तिप्रथा वृथा । एनामाभ्यन्तरीं रेकामुत्कीलय प्रभो ! प्रभो ! ॥४८॥ अध्यासाद् भासिता देह देहिनोः समता, न सा । तयोर्द्वयोः सुभिन्नत्वालक्षणैः प्रकटैरहो ! ॥ ४९ ॥ अध्यासाद् भासिता देह - देहिनोः समता, न सा । तयोर्द्वयोः सुभिन्नत्वादसिकोशायते ध्रुवम् ॥ ५० ॥ दृष्टेष्टाऽस्ति यो वेत्ति, रूपं सर्वप्रकारगम् । भात्यऽबाध्याऽनुभूतिर्या साऽस्ति जीवस्वरूपिका ५१ स्वस्वविषये संज्ञानं प्रतीन्द्रियं विभाति भोः ! | परं तु तेषां सर्वेषां जागर्ति मानमात्मनि ॥ ५२ ॥ न तद् जानाति देहोऽयं नैव प्राणो न चेन्द्रियम् । सत्तया देहिनो देहे तत्प्रवृत्तिं निबोध रे ! ॥ ५३ ॥ Page #10 -------------------------------------------------------------------------- ________________ योऽवस्थासु समस्तासु ज्ञायते भेदभाक् सदा । चेतनतामयः स्पष्टः स ह्यात्मा नान्यलक्षणः॥५४॥ घटादिसर्व जानासि अतस्तन्मन्यसे शिशो। तं न जानासि ज्ञातारं तद् ज्ञानं ब्रूहि कीदृशम् ॥५५ कृशे देहे घना बुद्धिरघना स्थूलविग्रहे। स्याद् देहो यदि आत्मैव नैवं तु घटना भवेत् ॥५६ केवलं भिन्न एवाऽस्ति स्वभावो जड-जीवयोः। कदापि न तयोरैक्यं द्वैतं कालत्रिके तयोः ॥५७ ॥ आत्मानं शङ्कते आत्मा स्वयमज्ञानतो ध्रुवम् । यः शङ्कते स वै आत्मा स्वेनाऽहो ! स्वीयशङ्कनम् ५८ शिष्ये भगवता प्रोक्ता आत्माऽस्तित्वस्य युक्तयः । ततः संभवनं तस्य ज्ञायतेऽन्तर्विचारणात् ॥ ५९॥ तथाऽपि तत्र शङ्काऽऽत्मा नश्वरः, नाऽविनश्वरः। देहसंयोगजन्माऽस्ति देहनाशात् तु नाशभाक्॥६०॥ Page #11 -------------------------------------------------------------------------- ________________ अथवा क्षणिकं वस्तु परिणामि प्रतिक्षणम् । तदनुभवगम्यत्वान्नाऽऽत्मा नित्योऽनुभूयते ॥ ६१ ॥ देहमात्रं तु संयोगि दृश्यं रूपि जडं घनम् । जीवोत्पत्ति-लयावत्र नीतौ केनानुभूतिताम् ? ॥ ६२ ॥ उत्पत्ति-लयबोधौ तु यस्यानुभववर्तिनौ । स ततो भिन्न एव स्यान्नान्यथा बोधनं तयोः ||६३ || दृश्यन्ते ये तु संयोगा ज्ञायन्ते ते सदात्मना । नात्मा संयोगजन्योऽतः किन्त्वात्मा शाश्वतः स्फुटम् जादुत्पद्यते जीवो जीवादुत्पद्यते जडम् । एषाऽनुभूतिः कस्यापि कदापि क्वाऽपि नैव रे ! ॥६५ यस्योत्पत्तिस्तु केभ्योऽपि संयोगेभ्यो न जायते । न नाशः संभवेत् तस्य जीवोऽतो ध्रुवति ध्रुवम् ६६ क्रोधादितारतम्यं यत् सर्प -सिंहादिजन्तुषु । पूर्वजन्मजसंस्कारात् तत् ततो जीवनित्यता ॥ ६७॥ Page #12 -------------------------------------------------------------------------- ________________ आत्माऽस्ति द्रव्यतो नित्यः पर्यायैः परिणामभाक् । बालादिवयसो ज्ञानं यस्मादेकस्य जायते ॥६८॥ क्षणिक वस्त्विति ज्ञात्वा यः क्षणिकं वदेदहो। स वक्ता क्षणिको नाऽस्ति तदनुभवनिश्चितम् ॥६९॥ कदाऽपि कस्यचिन्नाशो वस्तुनो नैव केवलम् । चेतना नश्यति चेत् तु किंरूपः स्याद् गवेषय ? ७० आत्मा नो कर्मणः कर्ता कर्मकर्ताऽस्ति कर्म वै। वा सहजः स्वभावः स्यात् कर्मणो जीवधर्मता ॥७१ स्यादसंगः सदा जीवो बन्धो वा प्राकृतो भवेत् । वेश्वरप्रेरणा तत्र ततो जीवो न बन्धकः ॥ ७२ ॥ ततः केनाऽपि हेतुना मोक्षोपायो न गम्यते । जीवे कर्मविधातृत्वं नास्त्यस्ति चेन्न नश्यताम् ॥ ७३ चेतनप्रेरणा न स्यादादद्यात् कर्म कः खलु ? । प्रेरणा जडजा नाऽस्ति वस्तुधर्मो विचार्यताम्॥७॥ Page #13 -------------------------------------------------------------------------- ________________ यदि जीवक्रिया न स्यात् संग्रहो नैव कर्मणः । अतो न सहजो भावो नैव वा जीवधर्मता ॥ ७५ ॥ यदि स्यात् केवलोऽसङ्गः कथं भासेत न त्वयि ? । तत्त्वतोऽसंग एवाऽस्ति किंतु तन्निजबोधने ॥ ७६ ॥ नेश्वरः कोऽपि कर्ताऽस्ति स वै शुद्धस्वभावभाक् । यदि वा प्रेरके तत्र मते दोषप्रसङ्गता ॥ ७७ ॥ यदाऽऽत्मा वर्तते सौवे स्वभावे तत्करस्तदा । यदात्मा वर्ततेऽसौवे स्वभावेऽतत्करस्तदा ॥ ७८ ॥ स्तादात्मा कर्मणः कर्ता किन्तु भोक्ता न युज्यते । किं जानाति जडं कर्म येन तत् फलदं भवेत्॥७९॥ भवेदीश्वरः फलदस्तदाऽत्मा भोगभाग् भवेत् । अप्यैश्वर्य न युज्येत ईश्वरे फलदे मते । ८० ॥ असिद्धे ईश्वरे नैव युज्यते जगतः स्थितिः । शुभाऽशुभविपाकानां ततः स्थानं न विद्यते ॥१॥ Page #14 -------------------------------------------------------------------------- ________________ भावकर्म निजा क्लृप्तिरतश्चेतनरूपता । जीववीर्यस्य स्फूर्तेस्तु लाति कर्मचयं जडम् ॥ ८२ ॥ विषं सुधा न वित्तोऽपि खादकः फलमाप्नुयात् । एवमेव शुभाशुभकर्मणो जीवभोक्तृता ॥ ८३ ॥ एको रङ्कः प्रजापोऽन्यः इत्यादिभेददर्शनम् । कार्य नाकारणं क्वाऽपि वेद्यमेवं शुभाशुभम् ॥८४ ईश्वरः फलदस्तत्राssवश्यको न हि कर्मणि । परिणमेत् स्वभावात् तद् भोगाद् दूरं विनश्यति५ तत्तभोग्यविशेषाणां स्थानं द्रव्यस्वभावता । वार्तेयं गहना शिष्य ! संक्षेपे सर्वथोदिता ॥ ८६ ॥ कर्ता भोक्तास्तु जीवोsपि तस्य मोक्षो न विद्यते । व्यतीतोऽनन्तकः कालस्तथाऽप्यात्मा तु दोषभाक् ८७ शुभकर्मकरो जीवो देवादिपदवीं व्रजेत् । अशुभकर्मकृज्जीवः श्वभ्रं, न क्वाऽप्यकर्मकः ॥८८॥ Page #15 -------------------------------------------------------------------------- ________________ यथा शुभाशुभं कर्म जीवव्यापारतः फलि । फलवन्निर्वाणमप्यस्य तदव्यापारतस्तथा ॥ ८९ ॥ सदसत्कर्मणो भावादनन्तः समयो गतः । संपद्येत तदुच्छेदे जीवे मुक्तिस्वभावता ॥ ९० ॥ आत्यन्तिको वियोगो यो देहादियोगजः खलु । तन्निर्वाणं समाख्यातं तत्राऽनन्तसुखैकता ॥ ९१ ॥ मोक्षस्थानं कदापि स्यान्नाऽविरोध्युपायि तत् । अनन्तकालजः कर्मचयच्छेद्यः कथं भवेत् ? ॥१२॥ वा मतानि सुभिन्नानि नैकोपायप्रद नि । मतं सत्यं तु किं तत्र शक्यैषा न विवेकिता ॥ ९३ ॥ कस्यां जातौ भवेन्मोक्षो वेषे कस्मिंश्च निर्वृतिः ? । निश्चेतुमेतन्नो शक्यं बहुभेदो हि दूषणम् ॥ ९४ ॥ तत एवं हि संसिद्धं मोक्षोपायो न विद्यते । जीवादिज्ञानसंप्राप्तौ कोपकारो भवेदहा!!॥ ९५ ॥ प्रश्नपञ्चोत्तरे लब्धे समाधिः सकलोऽजनि । यदि तत् साधनं विद्यां शिवं श्रेयो भवेच्छिवम् ९६ Page #16 -------------------------------------------------------------------------- ________________ पश्चोत्तरेण संजाता प्रतीतिस्तव ह्यात्मनि । मोक्षोपायस्तथा तात ! एष्यति सहजं मनः ॥९७॥ अज्ञानं कर्मभावोऽस्ति मोक्षभावो निजस्थितिः । ज्वलिते ज्ञानदीपे तु नश्येदज्ञानतातमः ॥ ९८ ॥ यो यो बन्धस्य हेतुः स्याद् बन्धमार्गो भवेत् स सः। बन्धोच्छेदस्थितियों तु मोक्षमार्गों भवान्तकः॥९९॥ रागो द्वेषस्तथाऽज्ञानं कर्मणां ग्रन्थिरग्रगा। यस्मात् तकन्निवृत्तिः स्यान्मोक्षमार्गः स एव भोः ! संश्चेतनामयो जीवः सर्वाभासविवर्जितः। प्राप्यते स यतः शुद्धो मोक्षमार्गः स एव भोः ! ॥११॥ अनन्तभेदकं कर्म चाष्टौ मुख्यानि तेष्वपि । तत्राऽपि मोहना मुख्या वक्ष्ये तद्धनने विधिम् ॥१०२॥ मोहनं द्विविधं तत्र दृष्टि-चारित्रभेदतः। बोधो हि दर्शनं हन्याच्चारित्रं रागहीनता ॥ १०३ ॥ % 3D Page #17 -------------------------------------------------------------------------- ________________ क्रोधादियोगतः कर्मबन्धः शान्त्यादिघातकः । अत्रानुभूतिः सर्वेषां तत्र का संशयालुता ? ॥ १०४ ॥ मतदृष्ट्याग्रहं त्यक्त्वा विकल्पाचरणं तथा । आराध्येतोक्तमार्गो यैः तेषां हि जननाल्पता ॥ १०५ ॥ पदषदस्य षट् प्रश्नाः पृष्टाः संचिन्त्य रे ! त्वया। तत्पदानां समूहत्वे मुक्तिवासः सुनिश्चितम् ॥ १०६ ॥ जातेर्वेषस्य नो भेदो यदि स्यादुक्तमार्गता । तां तु यः साधयेत् सद्यो न काचित् तत्र भिन्नता १०७ कषायस्योपशान्तत्वं मोक्षे रुचिर्हि केवलम् । भवे खेदो दया चित्ते सा जिज्ञासा समुच्यते ॥ १०८॥ सद्गुरोर्बोधमाप्नुयात् स जिज्ञासुनरो यदि । तदा सम्यक्त्वलाभः स्यादात्मशोधनता अपि ॥१०९॥ मतदृष्ट्याग्रहैहींना यद्वृत्तिर्गुरुपादयोः । स संलभेत सम्यक्त्वं यत्र भेदो न पक्षता ॥११०॥ अनुभूतिः स्वभावस्य तल्लक्ष्यं तत्र प्रत्ययः । निजतां संवहेद् वृत्तिः सत्यं सम्यक्त्वमुच्यते ॥ १११ ॥ Page #18 -------------------------------------------------------------------------- ________________ भूत्वा वर्द्धिष्णु सम्यक्त्वं मिथ्याभासं प्रटालयेत् । चारित्रस्योदयस्तत्र वीतरागपदस्थितिः ॥ ११२ ॥ केवलं स्वस्वभावस्य स्थिरा यत्र भवेन्मतिः । सोच्यते केवलज्ञानं देहे सत्यपि निर्वृतिः ॥ ११३ ॥ स्वप्नोऽपि कोटिवर्षस्य निद्रोच्छेदे समाप्यते । विभावोऽनादिजो दूरे नश्येद् ज्ञाने तथा सति ॥ ११४ ॥ देहाध्यासो यदि नश्येत् त्वं कर्ता न हि कर्मणाम् । न हि भोक्ता च तेषां त्वं धर्मस्यैतद् गूढं मतम् ॥ ११५ ॥ मोक्ष एव ततो धर्मान्मोक्षात्मा च त्वमेव भोः ! । अनन्तदर्शनं त्वं च अव्यावाधरूपस्त्वकम् ॥ ११६ ॥ शुद्धो बुद्धश्चिदात्मा च स्वयंज्योतिः सुखालयम् । विचारय ततो विद्धि स्वं बहु तु किमुच्यते ? ॥ ११७ ॥ सर्वेषां ज्ञानिनामत्र समाप्तिमेति निश्चयः । उक्त्वैवं गुरुणा मौनं समाधौ सहजे धृतम् ॥ ११८ ॥ Page #19 -------------------------------------------------------------------------- ________________ सद्गुरोरुपदेशात् त्वाऽऽगतं भानमपूर्वकम् । निजे निजपदं लब्धमज्ञानं लयतां गतम् ॥ ११९ ॥ तद् भासितं निजं रूपं शुद्धं चैतन्यलक्षणम् । अजरं चामरं स्थास्नु देहातीतं सुनिर्मलम् ॥ १२० ॥ यदा विभावभावः स्याद् भोक्ता कर्ता च कर्मणः । यदाऽविभावभावः स्याद् भोक्ता कतो न कर्मणः १२१ स्वाभाविक्यस्ति वा वृत्तिः शुद्धा या चेतनामयो । तस्याः कर्ताऽस्ति भोक्ताऽस्ति निर्विकल्पस्वरूपभाक् १२२ उक्तो मोक्षो निजा शुद्धिः स मार्गो लभ्यते यतः।। संक्षेपेणोदितः शिष्य ! नैर्ग्रन्थः सकलः पथः॥ १२३ ॥ कृपापानीयकूपार ! गुरुदेव ! अहो ! अहो !। अयमुपकृतो दीनश्चोपकारस्त्वहो ! अहो ! ॥ १२४ ॥ प्रभोः पादे धरेयं किमात्मतो हीनकं समम् । अर्पितः प्रभुणा सोऽस्ति भवेयं तद्वशंवदः ॥१२५॥ अद्यतस्तच्छरीरादि जायतां प्रभुचेटकम् । दासो दासोऽस्मि दासोऽस्मि तत्पभोर्दीनशेखरः ॥१२६ Page #20 -------------------------------------------------------------------------- ________________ स्थानषदं विसंज्ञाप्य भिन्नं दर्शितवान् भवान् । असिकोशमिवाऽऽत्मानं चामितोऽयमनुग्रहः ॥ १२७ ॥ स्थानषट्वे समाप्यन्ते दर्शनानि षडेव भोः !। न तत्र संशयः कोऽपि यद्यालोच्येत विस्तरम् ॥१२८॥ आत्मभ्रान्तिसमो रोगो नास्ति भिषग् गुरूपमः । गुरोराज्ञासमं पथ्यं ध्यानतुल्यं न चौषधम् ॥ १२९ ॥ प्रेप्सवः परमार्थं ये ते कुर्वन्त्वात्मपौरुषम् । भवस्थित्यादिहेतोस्तु न च्छिन्दन्तु निजं बलम् ॥१३०॥ आकर्ण्य निश्चितां वाणी त्याज्यं नैव सुसाधनम् । रक्षित्वा निश्चये लक्ष्यमाचर्यः साधनाचयः॥ १३१ ॥ निश्चयो व्यवहारो वा नात्रैकान्तेन दर्शितः । यत्र स्थाने यथायोग्यं तथा तद् युगलं भवेत् ॥ १३२॥ सद्व्यवहारहीनाऽस्ति कल्पना मत-गच्छयोः । निजभानाद् ऋते तात! निश्चयो न हि सुन्दरः॥१३३॥ अभूवन् ज्ञानिनः पूर्व वर्तन्ते ये च नाऽऽगताः। विदां तेषां समेषां वै मार्गभेदो न विद्यते ॥ १३४॥ Page #21 -------------------------------------------------------------------------- ________________ सिद्धतुल्यान् समान् जीवान् यो जानाति भवेत् स सः। अर्हत्स्थितिगुरोराज्ञा निमित्तं तत्र विद्यते ॥ १३५ ॥ उपादानच्छलेनैव निमित्तानि त्यजन्ति ये। लभन्ते सिद्धभावं नो भ्रान्ताः स्युस्ते उत ध्रुवम् ॥१३६ यक्ति ज्ञानकथां वक्त्राञ्चित्तं मोहतमावृतम् । यस्य रङ्कस्य मय॑स्य ज्ञानिद्रोही स केवलम् ॥ १३७ ॥ दया शान्तिः क्षमा साम्यं वैराग्यं त्याग-सत्यते । मुमुक्षुहृदये नित्यमेते स्युः प्रकटा गुणाः ॥ १३८ ॥ यत्राऽस्ति मोहनं क्षीणं वा प्रशान्तं भवेत् तकत् ।। वाच्या ज्ञानिदशा साऽन्या भ्रान्तता स्पष्टमुच्यते १३९ उच्छिष्टान्नायमानं वा स्वप्नवद् वेत्ति यो जगत् । एषा ज्ञानिस्थितिवाच्या शेषं वाग्जालमामतम् ॥१४॥ स्थानपञ्चकमालोच्य षष्ठके यः प्रवर्तते । प्राप्नुयात् पञ्चमं स्थानं नाऽत्र शङ्काकणोऽपि रे ! ॥१४१ देहातीता दशा यस्य देहे सत्यपि वर्तते । तज्ज्ञानिचरणे मेऽस्तु वन्दनाऽगणिता त्रिधा ॥ १४२॥ Page #22 -------------------------------------------------------------------------- ________________ श्रीसद्गुरुचरणार्पणमस्तु / सं० 1952 कुँवार विदी 1, गुरुवार, नडियाद। /