________________
यदि जीवक्रिया न स्यात् संग्रहो नैव कर्मणः । अतो न सहजो भावो नैव वा जीवधर्मता ॥ ७५ ॥ यदि स्यात् केवलोऽसङ्गः कथं भासेत न त्वयि ? । तत्त्वतोऽसंग एवाऽस्ति किंतु तन्निजबोधने ॥ ७६ ॥ नेश्वरः कोऽपि कर्ताऽस्ति स वै शुद्धस्वभावभाक् । यदि वा प्रेरके तत्र मते दोषप्रसङ्गता ॥ ७७ ॥ यदाऽऽत्मा वर्तते सौवे स्वभावे तत्करस्तदा । यदात्मा वर्ततेऽसौवे स्वभावेऽतत्करस्तदा ॥ ७८ ॥ स्तादात्मा कर्मणः कर्ता किन्तु भोक्ता न युज्यते । किं जानाति जडं कर्म येन तत् फलदं भवेत्॥७९॥ भवेदीश्वरः फलदस्तदाऽत्मा भोगभाग् भवेत् । अप्यैश्वर्य न युज्येत ईश्वरे फलदे मते । ८० ॥ असिद्धे ईश्वरे नैव युज्यते जगतः स्थितिः । शुभाऽशुभविपाकानां ततः स्थानं न विद्यते ॥१॥